भास्कराचार्यांचे बीजगणित/Chapter 04
योगं करण्योर्महतीं प्रकल्प्य घातस्य मूलं द्विगुणं लघुं च ।
योगान्तरे रूपवदेतयोस्ते वर्गेण वर्ग गुणयेद् भजेच्च ।।
लघ्व्या हतायास्तु पदं महत्या सैकं निरेकं स्वहतं लघुघ्नम् ।
योगान्तरे स्तः क्रमशस्तयोर्वा पृथक् स्थितिः स्याद् यदि नास्ति मूलम्।। ३४ ।।
भास्कराचार्यांचे बीजगणित/Chapter 04
द्विकाष्टमित्योस्त्रिभसंख्ययोश्च योगान्तरे ब्रूहि सखे करण्योः ।
त्रिसप्तमित्योश्च चिरं विचिन्त्य चेत् षडविधं वेत्ति सखेकरण्याः ॥ ३५ ॥
भास्कराचार्यांचे बीजगणित/Chapter 04
द्वित्र्यष्टसंख्यागुणकः करणयोर्गुण्यस्त्रिसंख्या च सपञ्चरूपा ।
. वधं प्रचक्ष्याऽऽशु विपश्चरूपे गुणेऽथवा व्यर्कमिते करण्यौ ॥ ३६ ॥
भास्कराचार्यांचे बीजगणित/Chapter 04
क्षयो भवेच्च क्षयरूपवर्गश्चेत्साध्यतेऽसौ करणीत्वहेतोः ।
ऋणात्मिकायाश्च तथा करण्या मलं क्षयो रूपविधानहेतोः ॥ ३७ ॥
भास्कराचार्यांचे बीजगणित/Chapter 04
धनर्णताव्यत्ययमीप्सितायाश्छेदे करण्या असकृद् विधाय ।
तादृक्छिदा भाज्यहरौ निहन्याद् एकैव यावत् करणी हरेस्यात् ।।
भाज्यास्तया भाज्यगताः करण्यो लब्धाः करण्यो यदि योगजाः स्युः ।
विश्लेषसूत्रेण पृथक् च कार्या यथा तथा प्रष्टरभीप्सिताः स्युः ॥ ३८ ॥
भास्कराचार्यांचे बीजगणित/Chapter 04
वर्गेण योगकरणी विहृता विशुध्येत् खण्डानि तत्कृतिपदस्य यथेप्सितानि ।
कृत्वा तदीयकृतयः खलु पूर्वलब्ध्या क्षण्णा भवन्ति पृथगेवमिमाःकरण्यः ॥ ३१ ॥
भास्कराचार्यांचे बीजगणित/Chapter 04
द्विकत्रिपञ्चप्रमिताः करण्यस्तासां कृतिं द्वित्रिकसंख्ययोश्च ।
षट्पञ्चकद्वित्रिकसंमितानां पृथक्पृथङ्मे कथयाऽऽशु विद्वन् ।।
अष्टादशाष्टद्विकसंमितानां कृती कृतीनां च सखे पदानि ॥४०॥
भास्कराचार्यांचे बीजगणित/Chapter 04
वर्गे करण्या यदि वा करण्योस्तुल्यानि रूपाण्यथवा बहूनाम्
विशोधयेद् रूपकृतेः पदेन शेषस्य रूपाणि युतोनितानि ।।
पृथक् तदर्थे करणीद्वयं स्यान् मूलेऽथ बह्वी करणी तयोर्या ।
रूपाणि तान्येवमतोऽपि भूयः शेषाः करण्यो यदि सन्ति वर्गे ॥ ४१ ॥
भास्कराचार्यांचे बीजगणित/Chapter 04
ऋणात्मिका चेत् करणी कृतौ स्याद् धनात्मिका तां परिकल्प्य साध्ये ।
मूले करण्यावनयोरभीष्टा क्षयात्मिकैका सुधियावगम्या ।। ४२ ।।
भास्कराचार्यांचे बीजगणित/Chapter 04
त्रिसप्तमित्योर्वद मे करण्योर् विश्लेषवर्ग कृतितः पदं च ।
द्विकत्रिपञ्चप्रमिताः करण्यः स्वस्वर्णगा व्यस्तधनर्णगा वा ।
तासां कृतिं ब्रूहि कृतेः पदं च चेत् षड्विधं वेत्सि सखे करण्या: ।। ४३
भास्कराचार्यांचे बीजगणित/Chapter 04
एकादिसंकलितमितकरणीखण्डानि वर्गराशौ स्युः ।
वर्गे करणीत्रितये करणीद्वितयस्य तुल्यरूपाणि ।
करणीषट्के तिसृणां दशसु चतसृणां तिथिषु पञ्चानाम् ।
रूपकृतेः प्रोज्ज्य पदं ग्राह्यं चेदन्यथा न सत् क्वापि ।
उत्पत्स्यमानयैवं मूलकरणाऽल्पया चतुर्गुणया ।
यासामपवर्तः स्याद् रूपकृतेस्ता विशोध्याः स्युः ॥
अपवर्ते या लब्धा मूलकरण्यो भवन्ति ताश्चापि ।
शेषविधिना न यदि ता भवन्ति मूलं तदा तदसत् ।। ४४ ।।
भास्कराचार्यांचे बीजगणित/Chapter 04
वर्गे यत्र करण्यो दन्तैः सिद्धैर्गजैर्मिता विद्वन् ।
रूपैर्दशभिरूपेताः किं मूलं ब्रूहि तस्य स्यात् ॥ ४५ ॥
भास्कराचार्यांचे बीजगणित/Chapter 04
वर्गे यत्र करण्यास्तिथिविश्वहुताशनैश्चतुर्गुणितैः ।
तुल्या दशरूपाढयाः किं मूलं ब्रूहि तस्य स्यात् ॥ ४६ ॥
भास्कराचार्यांचे बीजगणित/Chapter 04
अष्टौ षट् पञ्चाशत् षष्टिः करणीत्रयं कृतौ यत्र ।
रूपैर्दशभिरूपेतं किं मूलं ब्रूहि तस्य स्यात् ॥ ४७ ॥
भास्कराचार्यांचे बीजगणित/Chapter 04
चतुर्गुण्नः सूर्यतिथीषु रूद्रनागर्तवो यत्र कृतौ करण्यः ।
सविश्वरूपा वद तत्पदं ते यद्यस्ति बीजे पटुताभिमानः ॥ ४८ ॥
भास्कराचार्यांचे बीजगणित/Chapter 04
चत्वारिंशदशीतिद्विशतीतुल्याः करण्यश्चेत् ।
सप्तदशरूपयुक्तास्तत्र कृतौ किं पदं ब्रूहि ॥ ४९ ॥