भास्कराचार्यांचे बीजगणित-Chapter 05

Site Homepage Book Frontmatter Book Resources

कुट्टकविवरणम् ।

भास्कराचार्यांचे बीजगणित/Chapter 05

भाज्यो हारः क्षेपकश्चापवर्त्यः केनाप्यादौ संभवे कुट्टकार्थम् ।
येन च्छिन्नौ भाज्यहारौ न तेन क्षेपश्चैतद् दुष्टमुद्दिष्टमेव ॥ ५० ॥

भास्कराचार्यांचे बीजगणित/Chapter 05

परस्परं भाजितयोर्ययोर्यः शेषस्तयोः स्याद् अपवर्तनं सः ।
तेनापवर्तेन विभाजितौ यौ तौ भाज्यहारौ दृढसंज्ञकौ स्तः ॥
मिथौ भजेत्तौ दृढभाज्यहारौ थावद्विभाज्ये भवतीह रूपम् ।
फलान्यधोऽधस्तद‌धो निवेश्यः क्षेपस्तथाऽन्ते खमुपान्तिमेन ।
स्वोर्ध्वहतेऽन्त्येन युते तदन्त्यं त्यजन्मुहुः स्याद् इति राशियुग्मम् ।
ऊर्ध्वो विभाज्येन दृढेन तष्टः फलं गुणः स्याद् अपरो हरेण ॥ ५१ ।

भास्कराचार्यांचे बीजगणित/Chapter 05

एवं तदेवात्र यदा समास्ताः स्युर्लब्धयश्चेद् विषमास्तदानीम् ।
यथागतौ लब्धिगुणौ विशोध्यौ स्वतक्षणाच्छेषमितो तु तौ स्तः ।
भवति कुहविधेयुतिभाज्ययोः समपवर्तितयोरपि वा गुणः ।
भवति यो युति भाजकयोः पुनः स च भवेद् अपवर्त्तनसंगुणः ॥ ५३ ॥

भास्कराचार्यांचे बीजगणित/Chapter 05

योगजे तक्षणाच्छुद्धे गुणाप्ती स्तो वियोगजे ।
धनभाज्योद्भवे तद्वद् भवेताम् ऋणभाज्यजे ।। ५४ ।।

भास्कराचार्यांचे बीजगणित/Chapter 05

गुणलब्ध्योः समं ग्राह्यं धीमता तक्षणे फलम् ॥ ५५ ॥

भास्कराचार्यांचे बीजगणित/Chapter 05

हरतष्टे धनक्षेपे गुणलब्धी तु पूर्ववत् ।
क्षेपतक्षणलाभाढ्या लब्धिः शुद्धौ तु वर्जिता ॥ ५६ ॥

भास्कराचार्यांचे बीजगणित/Chapter 05

अथवा भागहारेण तष्टयोः क्षेपभाज्ययोः ।
गुणः प्राग्वत् ततो लब्धिर् भाज्याद्धत युतोद् ध्रुतात् ॥ ५७ ॥

भास्कराचार्यांचे बीजगणित/Chapter 05

क्षेपाभावोऽथवा यत्र क्षेपः शुध्येद्धरोद्धृतः ।
ज्ञेयः शून्यं गुणरतत्र क्षेपो हरहृतः फलम् ॥ १८ ॥

भास्कराचार्यांचे बीजगणित/Chapter 05

इष्टाहतस्वस्वहरेण युक्ते ते वा भवेतां बहुधा गुणाप्ती ॥ ५९ ॥

भास्कराचार्यांचे बीजगणित/Chapter 05

एकविंशतियुतं शतद्वयं यद्गुणं गणक पञ्चषष्टियुक ।
पञ्चवर्जितशतद्वयोद्धृतं शुद्धिमेति गुणकं वदाऽऽशु तम् ॥ ६० ॥

भास्कराचार्यांचे बीजगणित/Chapter 05

शतं हतं येन युतं नवत्या विवर्जितं वा विहृतं त्रिशष्ट्या ।
निरग्रकं स्याद् वद मे गुणं तं स्पष्टं पटीयान् यदि कुहकेऽसि ॥ ६१ ॥

भास्कराचार्यांचे बीजगणित/Chapter 05

यद् गुणाक्षयगषष्ठिरन्विता वर्जिता च यदि वा त्रिभिस्ततः ।
स्यात् त्रयोदशहता निरग्रका तं गुणं गणक मे पृथग् वद ॥ ६२ ॥

भास्कराचार्यांचे बीजगणित/Chapter 05

अष्टादश गुणाः केन दशाढ्या वा दशोनिताः ।
शुद्धं भागं प्रयच्छन्ति क्षयगैकादशोद्धृताः ॥ ६३ ॥

भास्कराचार्यांचे बीजगणित/Chapter 05

येन संगुणिताः पञ्च त्रयोविंशतिसंयुताः ।
वर्जिता वा त्रिभिर्भक्ता निरग्राः स्युः स को गुणः ॥ ६४ ॥

भास्कराचार्यांचे बीजगणित/Chapter 05

येन पञ्च गुणिताः खसंयुताः पञ्चषष्टिसहिताश्च तेऽथवा ।
स्युस्त्रयोदश हृता निरग्रकास्तं गुणं गणक कीर्तयाऽऽशु मे ॥ ६५ ॥

भास्कराचार्यांचे बीजगणित/Chapter 05

क्षेपं विशुद्धिं परिकल्प्य रूपं पृथक्तयोर्ये गुणकारलब्धी ।
अभीप्सितक्षेपविशुद्धिनिघ्ने स्वहारतष्टे भवतस्तयोस्ते ॥ ६६ ॥

भास्कराचार्यांचे बीजगणित/Chapter 05

कल्प्याऽथ शुद्धिर्विकलावशेषं षष्टिश्च भाज्यः कुदिनानि हारः ।
तज्जं फलं स्युर्विकला गुणस्तु लिप्ताग्रमस्माच्च कलालवाग्रम् ।
एवं तदूर्ध्वं च तथाऽधिमासावमाग्रकाभ्यो दिवसा रवीन्द्वोः ॥ ६७ ॥

भास्कराचार्यांचे बीजगणित/Chapter 05

एको हरश्चेद् गुणकौ विभिन्नौ तदा गुणैक्यं परिकल्प्य भाज्यम् ।
अग्रैक्यमग्रं कृत उक्तवद्यः संश्लिष्टसंज्ञः स्फुटकुट्टकोऽसौ ।। ६८ ।।

भास्कराचार्यांचे बीजगणित/Chapter 05

कः पञ्चनिध्नो विहृतस्त्रिषष्टया सप्तावशेषोऽथ स एव राशिः ।
दशाहतः स्याद् विहृतस्त्रिषष्टया चतुर्दशाग्रो वद राशिमेनम् ।।६९।।