भास्कराचार्यांचे बीजगणित-Chapter 06

Site Homepage Book Frontmatter Book Resources

वर्गप्रकृतिः

भास्कराचार्यांचे बीजगणित/Chapter 06

इष्टं हस्वं तस्य वर्गः प्रकृत्या क्षुण्णौ युक्तो वर्जिता वा स येन ।
मूलं दद्यात् क्षेपकं तं धनर्ण मूलं तच्च ज्येष्ठमूलं वदन्ति ॥ ७० ॥

भास्कराचार्यांचे बीजगणित/Chapter 06

हस्वज्येष्ठक्षेपकान् न्यस्य तेषां तानन्यान्वाऽधो निवेश्य क्रमेण ।
साध्यान्येभ्यो भावनाभिर्बहूनि मूलान्येषां भावना प्रोच्यतेऽतः ।।
वज्राभ्यासौ ज्येष्ठलध्वोस्तदैक्यं हस्वं लघ्वोराहतिश्च प्रकृत्या ।
क्षुण्णा ज्येष्ठाभ्यासयुग्ज्येष्ठमूलं तत्राभ्यासः क्षेपयोः क्षेपकः स्यात् ।।
हस्वं वज्राभ्यासयोरन्तरं वा लघ्वोर्घातो यः प्रकृत्या विनिघ्नः ।
घातो यश्च ज्येष्ठयोस्तद्वियोगो ज्येष्ठं क्षेपोऽत्रापि च क्षेपघातः ॥७१

भास्कराचार्यांचे बीजगणित/Chapter 06

इष्टवर्गप्रकृत्योर् यद् विवरं तेन वा भजेत् ।
द्विघ्नमिष्टं कनिष्ठं तत्पदं स्याद् एकसंयुतौ ।
ततो ज्येष्ठमिहानन्त्यं भावनातस्तथेष्टतः ।। ७३ ।।

भास्कराचार्यांचे बीजगणित/Chapter 06

को वर्गोऽष्टहृतः सैकः कृतिः स्याद् गणकोच्यताम् ।
एकादशगुणः को वा वर्गः सैकः कृतिः सखे ॥ ७४ ॥

भास्कराचार्यांचे बीजगणित/Chapter 06

ह्रस्वज्येष्ठपदक्षेपात् भाष्यप्रक्षेपभाजकान् ।
कृत्वा कल्प्यो गुणस्तत्र तथा प्रकृतितश्च्युते ।
गुणवर्गे प्रकृत्योनैऽथवाऽल्पं शेषकं यथा ।
तत्तु क्षेपहृतं क्षेपो व्यस्तः प्रकृतितश्च्युते ।
गुणलब्धिः पदं न्हस्वं ततो ज्येष्ठमतोऽसकृत् ।
त्यक्त्वा पूर्वपदक्षेपांश्चक्रवालम् इदं जगुः ।
चतुर्धयैकयुतावेवमभिन्ने भवतः पदे ।
चतुर्द्विक्षेपमूलभ्यां रूपक्षेपार्थभावना ।। ७५ ।।

भास्कराचार्यांचे बीजगणित/Chapter 06

का सप्तषष्टिगुणिता कृति रेकयुक्ता का चैकषष्टिनिहता च सखे सरूपा ।
स्यान् मूलदा यदि कृतिप्रकृतिर्नितान्तं त्वच्चेतसि प्रवद तातततालतावत् ॥ ७६ ।

भास्कराचार्यांचे बीजगणित/Chapter 06

रूपशुद्धौ खिलोद्दिष्टं वर्गयोगो गुणो न चेत् ॥ ७७ ॥

भास्कराचार्यांचे बीजगणित/Chapter 06

अखिले कृतिमूलाभ्यां द्विधा रूपं विभाजितम् ।
द्विधा हस्वपदं ज्येष्ठं ततो रूपविशोधने ।
पूर्ववद् वा प्रसाध्येते पदे रूपविशोधने ॥ ७८ ॥

भास्कराचार्यांचे बीजगणित/Chapter 06

त्रयोदशगुणो वर्गो निरेकः कः कृतिर् भवेत् ।
को वाऽष्टगुणितो वर्गो निरेको मूलदो वद ॥ ७१ ॥

भास्कराचार्यांचे बीजगणित/Chapter 06

को वर्गः षड्गुणस्याढ्यो द्वादशाढ्योऽथवा कृतिः ।
युतो वा पञ्चसप्तत्या त्रिंशत्या वा कृतिर् भवेत् ॥ ८० ॥

भास्कराचार्यांचे बीजगणित/Chapter 06

स्वबुद्धयैव पदे ज्ञेये बहुक्षेपविशोधने ।
तयोर्भावितयाऽऽनन्त्यं रूपक्षेपपदोत्थया ।। ८१ ।।

भास्कराचार्यांचे बीजगणित/Chapter 06

वर्गाच्छिन्ने गुणे ह्रस्वं तत्पदेन विभाजयेत् ॥ ८२ ॥

भास्कराचार्यांचे बीजगणित/Chapter 06

द्वात्रिंशद् गुणितो वर्गः कः सैको मूलदो वद ॥ ८३ ॥

भास्कराचार्यांचे बीजगणित/Chapter 06

गुणमूलहृतश्चाऽऽद्यो ह्रस्वज्येष्ठे क्रमात् पदे ॥ ८४ ॥

भास्कराचार्यांचे बीजगणित/Chapter 06

का कृतिर् नवभिः क्षुण्णा द्विपञ्चाशद्युता कृतिः ।
को वा चतुर्गुणो वर्गस् त्रयस्त्रिंशद्युता कृतिः ॥ ८५ ॥

भास्कराचार्यांचे बीजगणित/Chapter 06

त्रयोदशगुणो वर्गः कस् त्रयोदशवर्जितः ।
त्रयोदशयुतो वा स्याद् वर्ग एव निगद्यताम् ॥ ८६ ॥

भास्कराचार्यांचे बीजगणित/Chapter 06

ऋणगैः पञ्चभिः क्षुण्णः को वर्गः सैकविंशतिः ।
वर्गः स्याद् वद् चेद् वेत्सि क्षयगप्रकृतौ विधिम् ॥ ८७ ॥

भास्कराचार्यांचे बीजगणित/Chapter 06

उक्तं बीजोपयोगीदं संक्षिप्तं गणितं किल ।
अतो बीजं प्रवक्ष्यामि गणकानन्दकारकम् ॥ ८८ ॥