भास्कराचार्यांचे बीजगणित/Chapter 07
यावत्तावत्कल्प्यमव्यक्तराशेर्मानं तस्मिन्कुर्वतोद्दिष्टमेव ।
तुल्यौ पक्षौ साधनीयौ प्रयत्नात्यक्त्वा क्षिप्त्वा वाऽपि संगुण्य भक्त्वा ।।
एकाव्यक्तं शोधयेदन्यपक्षाद्रपाण्यन्यस्येतरस्माच्च पक्षात् ।
शेषाव्यक्ते नोद्धरेद्रूपशेषं व्यक्तं मानं जायते व्यक्तराशेः ॥
अव्यक्तानां द्वयादिकानामपीह यावत्तावद्व्यादिनिघ्नं हृतं वा ।
युक्तोनं वा कल्पयेदात्मबुद्धया मानं क्वापि व्यक्तमेवं विदित्वा ॥ ८९ ॥
भास्कराचार्यांचे बीजगणित/Chapter 07
एकस्य रूपत्रिशती षडश्वा अथवा दशान्यस्य तु तुल्यमौल्याः ।
ऋणं तथा रूपशतं च यस्य तौ तुल्यवित्तौ च किमश्वमौल्यम् ॥ १० ॥
भास्कराचार्यांचे बीजगणित/Chapter 07
यदाद्यवित्तस्य दलं दियुक्तं तत् त्यवित्तो यदि वा द्वितीयः ।
आद्यो धनेन त्रिगुणोऽन्यतो वा पृथक् पृथङ् मे वद वाजिमौल्यम् ॥ ९१ ॥
भास्कराचार्यांचे बीजगणित/Chapter 07
एको ब्रवीति मम देहि शतं धनेन त्वत्तो भवामि हि सखे द्विगुणस्ततोन्यः ।
ब्रूते दशार्पयसि चेन्मम षड्गुणोऽहं त्वत्तस्तयोर्वद धने मम किं प्रमाणे ।।९३।।
भास्कराचार्यांचे बीजगणित/Chapter 07
माणिक्याष्टकमिन्द्रनीलदशकं मुक्ताफलानां शतं
यत्ते कर्णविभूषणे समधनं क्रीतं त्वदर्थे मया ।
तद्रत्नत्रयमौल्यसंयुतिमितिस्यूनं शतार्ध प्रिये
मौल्यं ब्रूहि पृथग्यदीह गणिते कल्पाऽसि कल्याणिनि ।। ९४ ।।
भास्कराचार्यांचे बीजगणित/Chapter 07
पञ्चांशोऽलिकुलात्कदम्बमगमव्यंशः शिलीन्ध्रं तयोर् -
विश्लेषस्त्रिगुणो मृगाक्षि कुटजं दोलायमानोऽपरः ।
कान्ते केतकमालतीपरिमलप्राप्तैककालप्रियाद्
दूताहूत इतस्ततो भ्रमति खे भृङ्गोऽलिसंख्यां वद ॥ ९५ ॥
भास्कराचार्यांचे बीजगणित/Chapter 07
पञ्चकशतदत्तधनात्फलस्य वर्गं विशोध्य परिशिष्टम् ।
दत्तं दशकशतेन तुल्यः कालः फलं च तयोः ॥ ९६ ॥
भास्कराचार्यांचे बीजगणित/Chapter 07
एकशतदत्तधनात्फलस्य वर्गं विशोध्य परिशिष्टम् ।
पञ्चकशतेन दत्तं तुल्यः कालः फलं च तयोः ॥ ९७ ॥
भास्कराचार्यांचे बीजगणित/Chapter 07
माणिक्याष्टकमिन्द्रनीलदशकं मुक्ताफलानां शतं
सद्वज्राणि च पञ्च रत्नवणिजां येषां चतुर्णां धनम् ।
संगस्नेहवशेन ते निजधनाद् दत्त्वैकमेकं मिथो
जातास्तुल्यधनाः पृथग्वद सखे तद्रत्नमौल्यानि मे ॥ १८ ॥
भास्कराचार्यांचे बीजगणित/Chapter 07
पञ्चकशातेन दत्तं मलं सकलान्तरं गते वर्षे ।
द्विगुणं षोडशहीनं लब्धं किं मूलमाचक्ष्व ॥ १९ ॥
भास्कराचार्यांचे बीजगणित/Chapter 07
यत्पञ्चकद्विकचतुष्कशतेन दत्तं खण्डैस्त्रिभिर्नवतियुक् त्रिशती धनं तत् ।
मासेषु सप्तदशपञ्चसु तुल्यमाप्तं खण्डत्रयेऽपि सकलं वदखण्डसंख्याम् ॥ १०० ॥
भास्कराचार्यांचे बीजगणित/Chapter 07
पुरप्रवेशे दशदो द्विसंगुणं विधाय शेषं दशभुक् च निर्गमे ।
ददौ दशैवं नगरत्रयेऽभवत्त्रिनिघ्नमाद्यं वद तत्कियद्धनम् ॥ १०१ ॥
भास्कराचार्यांचे बीजगणित/Chapter 07
साधै तन्दुलमानकत्रयमहो द्रग्मेण मानाष्टकं
मुद्गानां च यदि त्रयोदशमिता एता वणिक्काकिणीः ।
आदायापय तन्दुलांशयुगुलं सुदुर्गैकभागान्वितं
क्षिप्रंक्षिप्रभुजो व्रजेम हि युतः सार्थोऽग्रतो यास्यति ॥ १०२ ॥
भास्कराचार्यांचे बीजगणित/Chapter 07
अन्यांशद्वयहीना ये षष्ठिशेषाश्च तान्वद ॥ १०३ ॥
भास्कराचार्यांचे बीजगणित/Chapter 07
त्रयोदश तथा पञ्च करण्यौ भजयोर्मिती ।
भूरज्ञाताऽत्र चत्वारः फलं भूमिं वदाऽऽशु मे ॥ १०४ ॥
भास्कराचार्यांचे बीजगणित/Chapter 07
भूरष्टदश करणी रूपोना लम्बमाचक्ष्व ।। १०५ ।।
भास्कराचार्यांचे बीजगणित/Chapter 07
असमानसमच्छेदान्नाशींस्तांश्चतुरो वद ।
यदैकं यद्घनैक्यं वा येषां वर्गैक्यसंमितम् ॥ १०६ ॥
भास्कराचार्यांचे बीजगणित/Chapter 07
त्र्यस्त्रक्षेत्रस्य यस्य स्यात्फलं कर्णेन संमितम् ।
दोःकोटिश्रुतिघातेन समं यस्य च तद्वद ॥ १०७ ॥
भास्कराचार्यांचे बीजगणित/Chapter 07
युतौ वर्गोऽन्तरे वर्गे ययोर्घाते घनो भवेत् ।
तौ राशी शीघ्रमाचक्ष्व दक्षोऽसि गणिते यदि ॥ १०८ ॥
भास्कराचार्यांचे बीजगणित/Chapter 07
घनैक्यं जायते वर्गो वर्गैक्यं च ययोर्धनः ।
तौ चेद्वेति तदाऽहं त्वां मन्ये बीजविदां वरम् ॥ १०९ ॥
भास्कराचार्यांचे बीजगणित/Chapter 07
यत्र त्र्यस्त्रे क्षेत्रे धात्री मनुसंमिता सखे बाहू ।
एकः पञ्चदशान्यत्रयोदश वदावलम्बकं तत्र ॥ ११० ॥
भास्कराचार्यांचे बीजगणित/Chapter 07
यदि समभुवि वेणुर्द्वित्रिपाणिप्रमाणो
गणक पवनवेगादेकदेशे स भग्रः ।
भुवि नृपमितहस्तेष्वङ्गं लग्नं तदग्रम्
कथय कतिषु मूलादेष भक्षः करेषु ॥ १११ ॥
भास्कराचार्यांचे बीजगणित/Chapter 07
चक्रकौंचाकुलितसलिले क्वापि दृष्टं तडागे
तोयादूर्ध्वं कमलकलिकाग्रं वितस्तिप्रमाणम् ।
मन्दं मन्दं चलितमनिलेनाहतं हस्तयुग्मे
. तस्मिन्मग्रं गणक कथय क्षिप्रमम्बुप्रमाणम् ॥ ११२ ॥
भास्कराचार्यांचे बीजगणित/Chapter 07
वृक्षाद्धस्तशतोच्छ्रयाच्छतयुगे वापि कपिः कोऽप्यगाद्
उत्तीर्यथ परो द्रुतं श्रुतिपथात्प्रोड्डीय किंचिद्मात् ।
जातैवं समता तयोर्येदि गतावृद्धीयमानं कियद्
विद्वंश्चेत्सुपरिश्रमोऽस्ति गणिते क्षिप्रं तदाचक्ष्व मे ॥ ११३॥
भास्कराचार्यांचे बीजगणित/Chapter 07
पञ्चदशदशकरोच्छायवेण्वोरज्ञातमध्यभूमिकयोः ।
इतरेतरमूलाग्रगसूत्रयुतेर्लम्बमानमाचक्ष्व ॥ ११४ ॥