भास्कराचार्यांचे बीजगणित-Chapter 08

Site Homepage Book Frontmatter Book Resources

मध्यमाहरणम् ।

भास्कराचार्यांचे बीजगणित/Chapter 08

अव्यक्तवर्गादि यदावशेषं पक्षौ तदेष्ठेन निहत्य किंचित् ।
क्षेप्यं तयोर्येन पदप्रदः स्यादव्यक्तपक्षस्य पदेन भूयः ॥
व्यक्तस्य पक्षस्य समक्रियैवमव्यक्तमानं खलु लभ्यते तत् ।
न निर्वहश्चेघनवर्गवर्गेष्वेवं तदा ज्ञेयमिदं स्वबुद्ध्या ।।..
अव्यक्तमूलर्णगरूपतोऽल्पं व्यक्तस्य पक्षस्य पदं यदि स्यात् ।
ऋणं धनं तच्च विधाय साध्यमव्यक्तमानं द्विविधं क्वचित्तत् ।। ११५

भास्कराचार्यांचे बीजगणित/Chapter 08

‘चतुराहतवर्गसमै रूपैः पक्षद्वयं गुणयेत् ।
पूर्वान्यक्तस्य कृतेः समरूपाणि क्षिपेत्तयोरेव’ इति ॥ ११६ ॥

भास्कराचार्यांचे बीजगणित/Chapter 08

अलिकुलदलमूलं मालतीं यातमष्टौ
निखिलनवमभागाश्चालिनी भृङ्गमेकम् ।
निशि परिमललुब्धं पद्ममध्ये निरुद्धम्
प्रतिरणति रणन्तं ब्रूहि कान्तेऽलिसंख्याम् ॥ ११७ ॥

भास्कराचार्यांचे बीजगणित/Chapter 08

व्येकस्य गच्छस्य दलं किलादिरादेर्दलं तत्प्रचयः फलं च ।
चयादिगच्छाभिहतिः स्वसप्तभागाधिका ब्रूहि चयादिगच्छान् ॥११९॥

भास्कराचार्यांचे बीजगणित/Chapter 08

कः खेन विहतो राशिः कोट्या युक्तोऽथवोनितः ।
वर्जितः स्वपदेनाऽऽढ्यः खगुणो नवतिर्भवेत् ॥ १२० ॥

भास्कराचार्यांचे बीजगणित/Chapter 08

कः स्वार्थसहितो राशिः खगुणो वर्जितो युतः ।
स्वपदाभ्यां खभक्तश्च जातः पञ्चदशोच्यताम् ॥ १२१ ॥

भास्कराचार्यांचे बीजगणित/Chapter 08

राशिर्द्वैदिशेतिघ्नो राशिघनाढ्यश्च कः समो यस्य ।
राशिकृतिः षड्गुणिता पञ्चत्रिंशद्युता विद्वन् ॥ १२२ ॥

भास्कराचार्यांचे बीजगणित/Chapter 08

को राशिर्द्विशतीक्ष्णो राशिवर्गयुतो हतः ।
द्वाभ्यां तेनोनितेो राशिवर्गवर्गोऽयुतं भवेत् ।
रूपोनं वद तं राशिं वेत्तिस बीजक्रियां यदि ।। १२३ ।।

भास्कराचार्यांचे बीजगणित/Chapter 08

वनान्तराले प्लवगाष्टभागः संवर्धितो वलाति जातरागः ।
ब्रूत्कारनादप्रतिनादहृष्टा दृष्टा गिरौ द्वादश ते कियन्तः ॥ १२४ ॥

भास्कराचार्यांचे बीजगणित/Chapter 08

यथात् पञ्चांशकस्यूनो वर्जितो गहरं गतः ।
दृष्टः शाखामृगः शाखामारूढो वद ते कति ॥
कर्णस्य त्रिलवेनोना द्वादशाङ्गुलशंकुभा ।
चतुर्दशाङ्गुला जाता गणक ब्रूहि तां द्रुतम् ॥ १२५ ॥

भास्कराचार्यांचे बीजगणित/Chapter 08

चत्वारो राशयः के ते मूलदा ये द्विसंयुताः ।
. द्वयोर्द्वयोर्यथासन्नघाताश्चाष्टादशान्विताः ॥
मूलदाः सर्वमूलैक्यादेकादशयुतात्पदम् ।
त्रयोदश सखे जातं बीजज्ञ वद् तान्मम ॥ १२६ ॥

भास्कराचार्यांचे बीजगणित/Chapter 08

राशिकेषाद्धक्षेषो यद्गुणस्तत्पदोत्तरम् ।
अव्यक्तराशयः कल्प्या वर्जिताः क्षेपवर्जिताः ॥ १२७ ॥

भास्कराचार्यांचे बीजगणित/Chapter 08

क्षेत्रे तिथिनखैस्तुल्ये दोःकोटी तत्र का श्रुतिः ।
उपपत्तिश्च रूढस्य गणितस्यास्य कथ्यताम् ॥ १२८ ॥

भास्कराचार्यांचे बीजगणित/Chapter 08

दोः कोट्यन्तरवर्गेण द्विघ्नो घातः समन्वितः ।
वर्गयोगसमः स स्याद्द्वयोरन्यकयोर्यथा ॥ १२१ ॥

भास्कराचार्यांचे बीजगणित/Chapter 08

भुजात्युनात्पदं व्येकं कोटिकर्णान्तरं सखे ।
यत्र तत्र वद क्षेत्रे दोःकोटिश्रवणान्मम ॥ १३० ॥

भास्कराचार्यांचे बीजगणित/Chapter 08

वर्गयोगस्य यद्राश्योर्युतिवर्गस्य चान्तरम् ।
द्विघ्नघातसमानं स्याद्द्वयोरन्यक्तयोर्यथा ।।
चतुर्गुणस्य घातस्य युतिवर्गस्य चान्तरम् ।
राश्यन्तरहतेस्तुल्यं द्वयोरव्यक्तयोर्यथा ॥ १३१ ॥

भास्कराचार्यांचे बीजगणित/Chapter 08

चत्वारिंशद्युतिर्यैषां दोः कोटिश्रवसां वद
भुजकोटिवधो येषु शतं विंशतिसंयुतम् ॥ १३२ ॥

भास्कराचार्यांचे बीजगणित/Chapter 08

योगो दोःकोटिकर्णानां षट्पञ्चाशद्वधस्तथा ।
षट्शती सप्तभिः क्षुण्णा येषां तान्मेपृथग्वद ॥ १३३ ॥