भास्कराचार्यांचे बीजगणित-Chapter 11

Site Homepage Book Frontmatter Book Resources

भावितम् ।

भास्कराचार्यांचे बीजगणित/Chapter 11

मुक्त्वेष्टवर्णं सुधिया परेषां कल्प्यानि मानानि यथेप्सितानि ।
तथा भवेद्भावितभङ्ग एवं स्यादाद्यबीजक्रिययेष्टसिद्धिः ॥ १८१ ॥

भास्कराचार्यांचे बीजगणित/Chapter 11

चतुस्त्रिगुणयो राश्योः संयुतिर्द्वियुता तयोः ।
राशिघातेन तुल्या स्यात् तौ राशी वेत्ति चेद्वद ॥ १८२ ॥

भास्कराचार्यांचे बीजगणित/Chapter 11

चत्वारो राशयः के ते यद्योगो नखसंगुणः ।
सर्वं राशिहतेस्तुल्यो भावितज्ञ निगद्यताम् ॥ १८३ ॥

भास्कराचार्यांचे बीजगणित/Chapter 11

यौ राशी किल या च निहतियों राशिवर्गों तथा ।
तेषामैक्यपदं सराशियुगुलं जातं त्रयोविंशतिः ।
पञ्चाशत् त्रियुताथवा वद कियत्तद्राशियुग्मं पृथक्
कृत्वाऽभिन्नमवेहि वत्स गणकः कस्त्वत्समोऽस्ति क्षितौ ॥ १८४॥

भास्कराचार्यांचे बीजगणित/Chapter 11

भावितं पक्षतोऽभीष्टात्त्यक्त्वा वर्णौ सरूपकौ
अन्यतो भाविताङ्केन ततः पक्षौ विभज्य च ।।
वर्णाङ्‌काहतिरूपैक्यं भक्त्वेष्ठेनेष्टतत्फले ।
एताभ्यां संयुतावूनौ कर्तव्यौ स्वेच्छया च तौ ।
वर्णाङ्‌कौ वर्णयोर्माने ज्ञातव्ये ते विपर्ययात् ॥ १८५ ॥

भास्कराचार्यांचे बीजगणित/Chapter 11

द्विगुणेन कयो राश्योर्घातेन सदृशं भवेत् ।
दशेन्द्राहतराजयेयं द्यूतषष्टिर्विजितम् ॥ १८६ ॥

भास्कराचार्यांचे बीजगणित/Chapter 11

त्रिपञ्चगुणराशिभ्यां युक्तो राश्योर्वधः कयोः ।
द्विषष्टिप्रमितो जातस्तौ राशी त्वं वत्सि चेद् वद ॥ १८७ ॥