भास्कराचार्यांचे बीजगणित/Chapter 12
आसीन्महेश्वर इति प्रथितः पृथिव्या-
माचार्यवर्यपदवीं विदुषां प्रयातः ।
लब्ध्वाऽवबोध कलिकां तत एव चक्रे
तज्जेन बीजगणितं लघु भास्करेण ।। १ ।।
भास्कराचार्यांचे बीजगणित/Chapter 12
ब्रह्माह्वयश्रीधरपद्मनाभबीजानि यस्मादतिविस्तृतानि ।
आदाय तत्सारमकारि नूनं सद्युक्तियुक्तं लघु शिष्यतुष्टये ॥ २ ॥
भास्कराचार्यांचे बीजगणित/Chapter 12
अत्रानुष्टुप्सहस्रं हि ससूत्रोद्देशके मितिः ॥ ३ ॥
भास्कराचार्यांचे बीजगणित/Chapter 12
क्वचित्सूत्रार्थविषयं व्याप्तिं दर्शयितुं क्वचित् ।
क्वचिच्च कल्पनाभेदं क्वत्रिद्युक्तिमुदाहृतम् ।।
क्वचित्सूत्रार्थविषयं दर्शयितुमुदाहृतम् ।। ४ ।।
भास्कराचार्यांचे बीजगणित/Chapter 12
न हि उदाहरणान्तोऽस्ति स्तोकमुक्तमिदं यतः ॥ ५ ॥
भास्कराचार्यांचे बीजगणित/Chapter 12
दुस्तरः स्तोकबुद्धीनां शास्त्रविस्तारवारिधिः ।
अथवा शास्त्रविस्तृत्या किं कार्यं सुधियामपि ॥ ६ ॥
भास्कराचार्यांचे बीजगणित/Chapter 12
उपदेशलवं शास्त्रं कुरुते धीमतो यतः ।
तत्तु प्राप्यैव विस्तारं स्वयमेवोपगच्छति ॥ ७ ॥
भास्कराचार्यांचे बीजगणित/Chapter 12
प्राज्ञे शास्त्रं स्वयं याति विस्तारं वस्तुशक्तितः ॥ ८ ॥
भास्कराचार्यांचे बीजगणित/Chapter 12
गणक भणिति रम्यं बाललीलावगम्यं ।
सकलगणितसारं सोपपत्तिप्रकारं ।।
इति बहुगुणयुक्तं सर्वदोषैर्विमुक्तं ।
पठ पठ मतिवृद्धये लघ्विदं प्रौढसिद्धये ॥ ९ ॥