लीलावती/Chapter 01
प्रीतिं भक्तजनस्य यो जनयते विघ्नं विनिघ्नन्
स्मृतस्तं वृंदारकवृंदवंदितपदं नत्वा मतंगाननम्।
पार्टी सद्गणितस्य वच्मि चतुरप्रीतिप्रदां प्रस्फुटाम्
संक्षिताक्षरकोमलामलपदैर्ललित्यलीलावतीम् ।। १ ।।
लीलावती/Chapter 01
वराटकानां दशकद्वयं यत् सा काकिणी ताश्च पणश्चतस्रः ।
ते षोडश द्रम्म इहावगम्यो, द्रम्मैस्तथा षोडशभिश्च निष्कः ।। २ ।।
लीलावती/Chapter 01
तुल्या यवाभ्यां कथितात्र गुञ्जा वल्लस्त्रिगुञ्जो धरणं च तेऽष्टौ।
गद्याणकस्तद्वयमिन्द्रतुल्यैः वल्लैस्तथैको धटकः प्रदिष्टः।। ३ ।।
लीलावती/Chapter 01
दशार्धगुंजं प्रवदन्ति माषं भाषाव्हयैः षोडशभिश्च कर्षम्।
कर्षेश्चतुभिंश्च पलं तुलाज्ञाः कर्ष सुवर्णस्य सुवर्णसंज्ञम्।। ४ ।।
लीलावती/Chapter 01
यवोदरैरङ्गुलमष्टसंख्यैः हस्तोऽङ्गुलैः षड्गुणितैश्चतुर्भिः।
हस्तैश्चतुर्भिर्भवतीह दण्डः क्रोशः सहस्रद्वितयेन तेषाम्।। ५ ।।
लीलावती/Chapter 01
स्याद्योजनं क्रोशचतुष्टयेन तथा कराणां दशकेन वंशः।
निवर्तनं विंशतिवंशसंख्यैः क्षेत्रं चतुर्भिःश्च भुजैनिबद्धम्।। ६ ।।
लीलावती/Chapter 01
हस्तोन्मितैः विस्तृतिदैर्ध्यपिण्डैः यद् द्वादशाक्षं घनहस्तसंज्ञम्।
धान्यादिके यत् घनहस्तमानं शास्त्रोदिता मागधखारिका सा।। ७ ।।
लीलावती/Chapter 01
द्रोणस्तु खार्याः खलु षोडशांशः स्यादाढको द्रोणचतुर्थभागः ।
प्रस्थश्चतुर्थाश इहाढकस्य प्रस्थांघिराद्यैः कुडवः प्रदिष्टः ।। ८ ।।
लीलावती/Chapter 01
पादोनगद्याणकतुल्यटंकैर्द्विसप्ततुल्यैः कथितोऽत्र सेरः।
मणाभिधानं खयुगैश्च सेरैर्धान्यादिमानेषु तुरुष्कसंज्ञा।। ९ ।।
लीलावती/Chapter 01
शेषा कालादिपरिभाषा लोकप्रसिद्धा ज्ञेया।। १० ।।