लीलावती-Chapter 03

Site Homepage Book Frontmatter Book Resources

बेरीज आणि वजाबाकी

लीलावती/Chapter 03

अथ संकलित-व्यवकलितयोः करणसूत्रं वृत्तार्धम्।
(सूत्रम्) कार्यः क्रमादुत्क्रमतोऽथवाऽङ्कयोगो यथा स्थानकमंतरं वा।। १३ ।।

लीलावती/Chapter 03

अये बाले लीलावति मतिमति ब्रूहि सहितान्
द्विपञ्चद्वात्रिंशत् त्रिनवतिशताष्टादश दश।
शतोपेतानेतानयुत-वियुतांश्चापि वद मे
यदि व्यक्ते युक्तिव्यवकलनमार्गेऽसि कुशला।। १४ ।।