लीलावती/Chapter 04
अथ गुणने करणसूत्रं सार्द्धवृत्तद्वयम्
गुण्यांत्यमंकं गुणकेन हन्यादुत्सारितेनैवमुपात्यमादीन्।
गुण्यस्त्वधोऽधोगुणखण्डतुल्यस्तैः खण्डकैः संगुणितो युतो वा।। १५।।
लीलावती/Chapter 04
भक्तो गुणः शुध्यति येन तेन लब्ध्या च गुण्यो गुणितः फलं वा।
द्विधा भवेद्रूपविभाग एवं स्थानैः पृथग्वा गुणितः समेत:।। १६ ।।
लीलावती/Chapter 04
इष्टोनयुक्तेन गुणेन निघ्नोऽभीष्टघ्नगुण्यान्वितवर्जितो वा।। १७ ।।
लीलावती/Chapter 04
बाले बालकुरंगलोलनयने लीलावति प्रोच्यताम्
पंचत्र्येकमिता दिवाकरगुणा अंकाः कति स्युर्यदि।
रूपस्थानविभागखंडगुणने कल्पासि कल्याणिनि
छिन्नास्तेन गुणेन ते च गुणिता अंकाः कति स्युर्वद।। १८ ।।