लीलावती-Chapter 06

Site Homepage Book Frontmatter Book Resources

वर्ग शोधण्याच्या पद्धती

लीलावती/Chapter 06

समद्विघातः कृतिरुच्यतेऽथ स्थाप्योन्त्यवर्गो द्विगुणान्त्यनिघ्नाः।
स्वस्वोपरिष्ठाच्च तथाऽपरेऽङ्कास्त्यक्त्वाऽन्त्यमुत्सार्य पुनश्च राशिम्।। २०।।

लीलावती/Chapter 06

खण्डद्वयस्याभिहतिर्द्विनिघ्नी तत्खण्डवर्गैक्ययुता कृतिर्वा।
इष्टोनयुगराशिवधः कृतिः स्यादिष्टस्य वर्गेण समन्वितो वा।। २१ ।।

लीलावती/Chapter 06

सखे नवानां च चतुर्दशानां ब्रूहि त्रिहीनस्य शतत्रयस्य।
पंचोत्तरस्याप्ययुतस्य वर्गं जानासि चेद्वर्गविचारमार्गम्।। २२ ।।