लीलावती-Chapter 07

Site Homepage Book Frontmatter Book Resources

वर्गमूळ

लीलावती/Chapter 07

त्यक्त्वात्यादिषमात् कृतिं द्विगुणयेन्मूलं समे तद्धृते
त्यक्त्वा लब्धकृतिं तदाद्यविषमात्लब्धं द्विनिघ्नं न्यसेत्।
पंकत्या पंक्तिहृते समेऽन्त्यविषमात्त्यवत्वाप्तवर्गं फलम्
पंक्या तद्द्विगुणं न्यसेदिति मुहुः पंक्तेर्दलं स्यात्पदम् ।। २३।।

लीलावती/Chapter 07

मूलं चतुर्णा च तथा नवानां पूर्वं कृतानां च सखे कृतीनाम् ।
पृथक्-पृथग्वर्गपदानि विद्धि बुद्धेर्विवृद्धिर्यदि तेऽत्र जाता ।। २४ ।।