लीलावती/Chapter 08
समत्रिघातश्च घनः प्रदिष्टः स्थाप्यो घनोन्त्यस्य ततोऽन्त्यवर्गः।
आदित्रिनिघ्नस्तत आदिवर्गस्त्र्यन्त्याहतोऽथादिघनश्च सर्वे ।। २५।।
लीलावती/Chapter 08
स्थानान्तरत्वेन युतो घनः स्यात्प्रकल्प्य तत्खंडयुगं ततोऽन्त्यम्।
एवं मुहुर्वर्गघनप्रसिद्धावाद्यंकतो वा विधिरेष कार्यः।। २६।।
लीलावती/Chapter 08
खण्डाभ्यां वा हतो राशिस्त्रिघ्नः खंडघनैक्ययुक् ।
वर्गमूलघनः स्वघ्नो वर्गराशेर्धनो भवेत्।। २७ ।।
लीलावती/Chapter 08
नवघनं त्रिघनस्य घनं तथा कथय पंचघनस्य घनं च मे।
घनपदं च ततोऽपि घनात्सखे यदि घनेऽसि घना भवतो मतिः।। २८ ।।