लीलावती/Chapter 09
आद्यं घनस्थानमथाघने द्वे पुनस्तथान्त्याद्धनतो विशोध्य । घनं पृथक्स्थं पदमस्य कृत्या त्रिघ्न्या तदाद्यं विभजेत् फलं तु ।। २९ ।।
लीलावती/Chapter 09
पंक्त्यां न्यसेत्तत्कृतिमन्त्यनिर्घ्नीं त्रिघ्नीं त्यजेत्तत्प्रथमात्फलस्य। घनं तदाद्यात् घनमूलमेवं पक्ति भवेदेवमतः पुनश्च।। ३०।।