लीलावती/Chapter 10
अन्योन्यहाराभिहतौ हरांशौ राश्योः समच्छेदविधानमेवम्।
मिथो हराभ्यामपवर्तिताभ्यां यद्वा हरांशौ सुधियात्र गुण्यौ ।। ३१।।
लीलावती/Chapter 10
रूपत्रयं पंचलवस्त्रिभागो योगार्थमेतान्वद तुल्यहारान्।
त्रिषष्टिभागश्च चतुर्दशांशः समच्छिदौ मित्र वियोजनार्थम्।। ३२।।
लीलावती/Chapter 10
लवा लवघ्नाश्च हरा हरघ्ना भागप्रभागेषु सवर्णनं स्यात्।। ३३।।
लीलावती/Chapter 10
द्रम्मार्धत्रिलवद्वयस्य सुमते पादत्रयं यद्भवेत्
तत्पंचांशकषोडशांशचरणः संप्रार्थितेनार्थिने।
दत्तो येन वराटकाः कति कदर्येणार्पितास्तेन मे
ब्रूहि त्वं यदि वेत्सि वत्स गणिते जातिं प्रभागाभिधाम् ।। ३४।।
लीलावती/Chapter 10
छेदघ्नरूपेषु लवा धनर्णमेकस्य भागा अधिकोनकाश्चेत् ।
स्वांशाधिकोनः खलु यत्र तत्र भागानुबंधे च लवापवाहे।
तलस्य हारेण हरं निहन्यात् स्वांशाधिकोनेन तु तेन भागान् ।। ३५।।
लीलावती/Chapter 10
सांघिद्वयं त्रयं व्यंघ्रि कीदृक् ब्रूहि सवर्णितम्।
जानास्यंशानुबंधं चेत्तथा भागपवाहनम्।। ३६।।
लीलावती/Chapter 10
अंध्रिः स्वत्र्यंशयुक्तः स निजदलयुतः कीदृशः कीदृशौ द्वौ
त्र्यंशौ स्वाष्टांशहीनौ तदनु च रहितौ स्वत्रिभिः सप्तभागैः।।
अर्धं स्वाष्टांशहीनं नवभिरथ युतं सप्तमांशैः स्वकीयैः
कीदृक्स्यात्ब्रूहि वेत्सि त्वमिह यदि सखेंऽशानुबंधापवाहौ।। ३७।।