लीलावती/Chapter 11
योगोऽन्तरं तुल्यहरांशकानां कल्प्यो हरो रूपमहारराशेः।। ३८।।
पंचांशपादत्रिलवार्धष्ठानेकीकृतान्ब्रूहि सखे ममैतान्।एभिश्च भागैरथ वर्जितानां किं स्यात्त्रयाणां कथयाऽऽशु शेषम्।। ३९।।