लीलावती/Chapter 12
अंशाहितश्छेदवधेन भक्ता लब्धं विभिन्ने गुणने फलं स्यात्।। ४०।।
सत्र्यंशरूपद्वितयेन निघ्नं ससप्तमांशं द्वितयं भवेत्किम्।अर्धं त्रिभागेण हतं च विद्धि दक्षोऽसि भिन्ने गणनाविधौ चेत्।। ४१।।