लीलावती/Chapter 14
वर्गे कृती घनविधौ तु घनौ विधेयौ।हारांशयोरथ पदे च पदप्रसिद्धयै।। ४४।।
सार्द्धत्रयाणां कथयाशु वर्गं वर्गात्ततो वर्गपदं च मित्र।घनं च मूलं च घनात्ततोऽपि जानासि चेत् वर्गघनौ विभिन्नौ।। ४५।।