लीलावती-Chapter 15

Site Homepage Book Frontmatter Book Resources

शून्याशी संबंधित आठ नियम

लीलावती/Chapter 15

योगे खं क्षेपसमं वर्गादौ खं खभाजितो राशिः।
खहरः स्यात्खगुणः खं खगुणश्चिन्त्यश्च शेषविधौ।। ४६।।

लीलावती/Chapter 15

शून्ये गुणके जाते खं हारश्चेत् पुनस्तदा राशिः।
अविकृत एव ज्ञेयस्तथैव खेनोनितश्च युतः।। ४७।।

लीलावती/Chapter 15

अस्मिन्विकारः खहरे न राशावपि प्रविष्टेष्वपि निःसृतेषु।
बहुष्वपि स्याल्लयसृष्टिकालेऽनन्तेऽच्युते भूतगणेषु यद्वत्।।

लीलावती/Chapter 15

खं पंचयुग्भवति किं वद खस्य वर्गं मूलं घनं घनपदं खगुणाश्च पंच।
खेनोद्धृता दश च कः खगुणो निजार्धयुक्तस्त्रिभिश्च गुणितः खहृतस्त्रिषष्टिः|| ४८ ||