लीलावती-Chapter 17

Site Homepage Book Frontmatter Book Resources

अज्ञात राशी शोधणे

लीलावती/Chapter 17

उद्देशकालापवदिष्टराशिः क्षुण्णो हृतोंऽशै रहितो युतो वा।
इष्टाहतं दृष्टमनेन भक्तं राशिर्भवेत्प्रोक्तमितीष्टकर्म।। ५२।।

लीलावती/Chapter 17

पंचघ्नः स्वत्रिभागोनो दशभक्तः समन्वितः।
राशित्र्यंशार्धपादैः स्यात्को राशिर्द्व्यूनसप्ततिः।। ५३ ।।

लीलावती/Chapter 17

यूथार्धं सत्रिभागं वनविवरगतं कुंजराणां च दृष्टम्
षड्भागश्चैव नद्यां पिबति च सलिलं सप्तमांशेन मिश्रः ।
पट्टिन्यां चाष्टमांशः स्वनवमसहितः क्रीडते सानुरागो
नागेन्द्रो हस्तिनीभिस्तिसृभिरनुगतः का भवेद्यूथसंख्या।। ५४ ।।

लीलावती/Chapter 17

अमलकमलराशेस्त्र्यंशपंचांशषष्ठैः
त्रिनयनहरिसूर्या येन तुर्येण चार्या।
गुरुपदमथ षड्भिः पूजितं शेषपट्टौः।
सकलकमलसंख्यां क्षिप्रमाख्याहि तस्य।। ५५ ।।

लीलावती/Chapter 17

हारस्तारस्तरुण्या निधुवनकलहे मौक्तिकानां विशीर्णो
भूमौ यातस्त्रिभागः शयनतलगतः पंचमांशोऽस्य दृष्टः ।
प्राप्तः षष्ठः सुकेश्या गणक दशमकः संगृहीतः प्रियेण
दृष्टं षट्कं च सूत्रे कथय कतिपयैर्मौक्तिकैरेष हारः ।। ५६ ।।

लीलावती/Chapter 17

षड्भागः पाटलीषु भ्रमरनिकरतः स्वत्रिभागः कदम्बे
पादश्चूतद्रुमे च प्रदलितकुसुमे चंपके पंचमांशः ।
प्रोत्फुल्लांभोजखंडे रविकरदलिते त्रिंशदंशोऽभिरम्ये
तत्रैको मत्तभृंगो भ्रमति वद सखे का भवेद् भृंगसंख्या।। ५७ ।।

लीलावती/Chapter 17

स्वार्धं प्रादात्प्रयागे नवलवयुगलं योऽवशेषाच्च काश्यां
शेषांघ्रिं शुल्कहेतोः पथि दशमलवान्षट् च शेषाद्गयायाम्।
शिष्टा निष्कत्रिषष्टिर्निजगृहमनया तीर्थपान्थः प्रयातः
तस्य द्रव्यप्रमाणं वद यदि भवता शेषजातिः श्रुताऽस्ति।। ५८ ।।

लीलावती/Chapter 17

लोलाक्ष्या प्रियनिर्मिता वसुलवा भूषा ललाटेऽर्पिता
यच्छिष्टास्त्रिगुणाद्रिभागकलिता न्यस्ता कुचान्तः स्त्रजि।
शिष्टार्धं भुजनालयोर्मणिगणः शेषाब्धिकस्त्र्याहतः
कांच्यात्मा मणिराशिमाशु वद मे वेण्यां हि यत्षोडश।। ५९ ।।

लीलावती/Chapter 17

पंचांशोऽलिकुलात्कदंबमगमत्त्र्यंशं शिलीन्धं तयोः
विश्लेषस्त्रिगुणो मृगाक्षि कुटजं दोलायमानोऽपरः।
कान्ते केतकमालतीपरिमलप्राप्तैककालप्रिया-
दूताहूत इतस्ततो भ्रमति खे भृंगोऽलिसंख्यां वद।। ६० ।।