लीलावती-Chapter 19

Site Homepage Book Frontmatter Book Resources

चौकोनी संक्रमण

लीलावती/Chapter 19

वर्गान्तरं राशिवियोगभक्तं योगस्ततः प्रोक्तवदेव राशी।। ६३।।

लीलावती/Chapter 19

राश्योर्ययोर्वियोगोऽष्टौ तत्कृत्योश्च चतुःशती।
विवरं वद तौ राशी शीघ्रं गणितकोविद।। ६४।।

लीलावती/Chapter 19

इष्टकृतिरष्टगुणिता व्येका दलिता विभाजितेष्टेन।
एकः स्यादस्य कृतिर्दलिता सैका परो राशिः।। ६५ ।।

लीलावती/Chapter 19

रूपं द्विगुणेष्टहृतं सेष्टं प्रथमोऽथवापरो रूपम् ।
कृतियुतिवियुती व्येके वगौं स्यातां ययो राश्योः ।। ६६ ।।

लीलावती/Chapter 19

राश्योर्ययोः कृतिवियोगयुती निरेके
मूलप्रदे प्रवद तौ मम मित्र यत्र।
क्लिश्यंति बीजगणिते पटवोऽपि मूढाः
षोढोक्तगूढगणितं परिभावयन्तः।। ६७।।

लीलावती/Chapter 19

इष्टस्य वर्गवर्गो घनश्च तावष्टसंगुणौ प्रथमः।
सैको राशी स्यातामेवं व्यक्तेऽथवाऽव्यक्ते।। ६८।।

लीलावती/Chapter 19

पाटीसूत्रोपमं बीजं गूढमित्येव भासते।
नास्ति गूढममूढानां नैव षोढेत्यनेकधा।। ६९।।

लीलावती/Chapter 19

अस्ति त्रैराशिकं पाटी बीजं च विमला मतिः
किमज्ञातं सुबुद्धीनामतो मन्दार्थमुच्यते।। ७०।।