लीलावती/Chapter 20
गुणघ्नमूलोनयुतस्य राशेर्दृष्टस्य युक्तस्य गुणार्धकृत्या।
मूलं गुणार्धेन युतं विहीनं वर्गीकृतं प्रष्टुरभीष्टराशिः।। ७१।।
लीलावती/Chapter 20
यदा लवैश्चोनयुतः स राशिरेकेन भागोनयुतेन भक्त्वा।
दृश्यं तथा मूलगुणं च ताभ्यां साध्यस्ततः प्रोक्तवदेव राशिः।। ७२ ।।
लीलावती/Chapter 20
बाले मरालकुलमूलदलानि सप्त
तीरे विलासभरमन्थरगान्यपश्यम्।
कुर्वच्च केलिकलहं कलहंसयुग्मम्
शेषं जले वद मरालकुलप्रमाणम्।। ७३ ।।
लीलावती/Chapter 20
स्वपदैर्नवभिर्युक्तं स्याच्चत्वारिंशताधिकम्।
शतद्वादशकं विद्वन् कः स राशिर्निंगद्यताम्।। ७४ ।।
लीलावती/Chapter 20
यातं हंसकुलस्य मूलदशकं मेघागमे मानसं
प्रोड्डीय स्थलपद्मिनीवनमगादष्टांशकोऽम्भस्तटात् ।
बाले बालमृणालशालिनि जले केलिक्रियालालसं
दृष्टं हंसयुगत्रयं च सकलां यूथस्य संख्यां वद।। ७५ ।।
लीलावती/Chapter 20
पार्थः कर्णवधाय मार्गणगणं क्रुद्धो रणे संदधे
तस्यार्धेन निवार्य तच्छरगणं मूलैश्चतुभिर्हयान् ।
शल्यं षड्भिरथेषुभिस्त्रिभिरपि च्छत्रं ध्वजं कार्मुकम्
चिच्छेदास्य शिरः शरेण कति ते यानर्जुनः संदधे ।। ७६ ।।
लीलावती/Chapter 20
अलिकुलदलमूलं मालती यातमष्टौ
निखिलनवमभागाश्चालिनी भृंगमेकम्।
निशि परिमललुब्धं पद्ममध्ये निरुद्धम्
प्रतिरणति रणन्तं ब्रूहि कांतेऽलिसंख्याम्।। ७७ ।।
लीलावती/Chapter 20
यो राशिरष्टादशभिः स्वमूलैः
राशित्रिभागेन समन्वितश्च।
जातं शतद्वादशकं तमाशु
जानीहि पाट्यां पटुताऽस्ति ते चेत्।। ७८ ।।