लीलावती/Chapter 21
प्रमाणमिच्छा च समानजातिः
आद्यन्तयोस्तत्फलमन्यजातिः।
मध्ये तदिच्छाहतमाद्यहृत्स्यात्
इच्छाफलं व्यस्तविधिर्विलोमे ।। ७९ ।।
लीलावती/Chapter 21
इच्छावृद्धौ फले वृद्धिर्हासे हासश्च जायते।
समत्रैराशिकं तत्र ज्ञेयं गणितकोविदैः।। ८० ।।
लीलावती/Chapter 21
कुंकुमस्य सदलं पलद्वयं निष्कसप्तमलवैत्रिभिर्यदि ।
प्राप्यते सपदि मे वणिग्वर ब्रूहि निष्कनवकेन तत्कियत् ।। ८१ ।।
लीलावती/Chapter 21
प्रकृष्टकर्पूरपलत्रिषष्ट्या चेल्लभ्यते निष्कचतुष्कयुक्तम्।
शतं तदा द्वादशभिः सपादैः पलैः किमाचक्ष्व सखे विचिंत्य।। ८२ ।।
लीलावती/Chapter 21
द्रम्मद्वयेन साष्टांशा शालितण्डुलखारिका।
लभ्या चेत् पणसप्तत्या तत्किं सपदि कथ्यताम्।। ८३ ।।