लीलावती-Chapter 22

Site Homepage Book Frontmatter Book Resources

व्यस्त प्रमाण

लीलावती/Chapter 22

इच्छावृद्धौ फले ह्रासो ह्रासे वृद्धिश्च जायते।
व्यस्तं त्रैराशिकं तत्र ज्ञेयं गणितकोविदैः।। ८४।।

लीलावती/Chapter 22

जीवानां वयसो मौल्ये तौल्ये वर्णस्य हेमनि।
भागहारेच राशीनां व्यस्तं त्रैराशिकं विदुः।। ८५ ।।

लीलावती/Chapter 22

प्राप्नोति चेत् षोडशवत्सरा स्त्री द्वात्रिंशकं विंशतिवत्सरा किम्।
द्विधूर्वहो निष्कचतुष्कमुक्षा प्राप्नोति धूःषट्कवहस्तदा किम्।। ८६ ।।

लीलावती/Chapter 22

दशवर्णं सुवर्णं चेद् गद्याणकमवाप्यते।
निष्केण तिथिवर्णन्तु तदा वद कियन्मितम्।। ८७ ।।

लीलावती/Chapter 22

सप्ताढकेन मानेन राशौ सस्यस्य मापिते।
यदि मानशतं जातं तदा पंचाढकेन किम्।। ८८ ।।