लीलावती-Chapter 23

Site Homepage Book Frontmatter Book Resources

पाचचा नियम

लीलावती/Chapter 23

पंचसप्तनवराशिकादिकेऽन्योन्यपक्षनयनं फलच्छिदाम्।
संविधाय बहुराशिजे वधे स्वल्पराशिवधभाजिते फलम्।। ८९।।

लीलावती/Chapter 23

मासे शतस्य यदि पञ्चकलान्तरं स्यात्
वर्षे गते भवति किं वद षोडशानाम्।
कालं तथा कथय मूलकलान्तराभ्याम्
मूलं धनं गणक कालफले विदित्वा।। ९० ।।

लीलावती/Chapter 23

सत्र्यंशमासेन शतस्य चेत्स्यात्कलान्तरं पञ्च सपञ्चमांशाः ।
मासैस्त्रिभिः पञ्चलवाधिकेस्तत्सार्धद्विषष्टेः फलमुच्यतां किम् ।। ९१ ।।

लीलावती/Chapter 23

विस्तारे त्रिकराः कराष्टकमिता दैर्ध्य विचित्राश्च चेत्
रूपैरुत्कपट्टसूत्रपटिका अष्टौ लभन्ते शतम्।
दैर्ध्य सार्धकरत्रयाऽपरपटी हस्तार्धविस्तारिणी
तादृक्किं लभते द्रुतं वद वणिग्वाणिज्यकं वेत्सि चेत्।। ९२ ।।

लीलावती/Chapter 23

पिण्डे येऽर्कमिताङ्गुलाः किल चतुर्वर्गांगुला विस्तृतौ
पट्टा दीर्घतया चतुर्दशकरास्त्रिशल्लभन्ते शतम्।
एता विस्तृतिपिण्डदैर्ध्यमितयो येषां चतुर्वर्जिताः
पट्टास्ते वद मे चतुर्दश सखे मूल्यं लभन्ते कियत्।। ९३ ।।

लीलावती/Chapter 23

पट्टा ये प्रथमोदितप्रमितयो गव्यूतिमात्रे स्थिताः
तेषामानयनाय चेच्छकटिनां द्रम्माष्टकं भाटकम् ।
अन्ये ये तदनंतरं निगदिता माने चतुर्वर्जिताः
तेषां किं भवतीति भाटकमितिर्गव्यूतिषट्के वद ।। ९४ ।।