लीलावती-Chapter 25

Site Homepage Book Frontmatter Book Resources

सरळ व्याज

लीलावती/Chapter 25

प्रमाणकालेन हतं प्रमाणं विमिश्रकालेन हतं फलं च।
स्वयोगभवते च पृथक् स्थिते च मिश्राहते मूल कलान्तरे स्तः।। ९७।।

लीलावती/Chapter 25

पंचकेन शतेनाब्दे मूलं स्वं सकलान्तरम् ।
सहस्रं चेत्पृथक् तत्र वद मूल कलान्तरे ।। ९८ ।।

लीलावती/Chapter 25

अथ प्रमाणैर्गुणिताः स्वकाला व्यतीतकालघ्नफलोद्धृतास्ते ।
स्वयोगभक्ताश्च विमिश्रनिघ्नाः प्रयुक्तखंडानि पृथक् भवन्ति ।। ९९ ।।

लीलावती/Chapter 25

यत्पंचकत्रिकचतुष्कशतेन दत्तं
खंडैस्त्रिभिर्गणक निष्कशतं षडूनम्।
मासेषु सप्तदशपंचसु तुल्यमाप्तम्
खंडत्रयेऽपि हि फलं वद खंडसंख्याम्।। १०० ।।

लीलावती/Chapter 25

प्रक्षेपका मिश्रहता विभक्ता प्रक्षेपयोगेन पृथक् फलानि।। १०१ ।।

लीलावती/Chapter 25

पंचाशदेकसहिता गणकाष्टषष्टिः
पंचोनिता नवतिरादिधनानि येषाम्।
प्राप्ता विमिश्रितधनैस्त्रिशती त्रिभिस्तैः
वाणिज्यतो वद विभज्य धनानि तेषाम्।। १०२ ।।

लीलावती/Chapter 25

भजेच्छिंदोऽशैरथ तैर्विमिश्रै रूपं भजेत् स्यात् परिपूर्तिकालः ।। १०२।।

लीलावती/Chapter 25

ये निर्झरा दिनदिनार्धतृतीयषष्ठैः
संपूर्णयन्ति हि पृथग्पृथगेव मुक्ताः।
वार्पी यदा युगपदेव सखे विमुक्ताः
ते केन वासरलवेन तदा वदाऽशु।। १०४ ।।

लीलावती/Chapter 25

पण्यैः स्वमूल्यानि भजेत्स्वभागैः
हत्वा तदैक्येन भजेच्च तानि।
भागांश्च मिश्रेण धनेन हत्वा
मूल्यानि पण्यानि यथाक्रमं स्युः।। १०५ ।।

लीलावती/Chapter 25

सार्धं तण्डुलमानकत्रयमहो द्रम्मेण मानाष्टकं
मुद्गानां च यदि त्रयोदशमिता एता वणिक्काकिणीः ।
आदायाऽऽर्पय तण्डुलांशयुगलं मृद्गैकभागान्वितम्
क्षिप्रं क्षिप्रभुजो व्रजेमहि यतः सार्थोऽग्रतो यास्यति।। १०६ ।।

लीलावती/Chapter 25

कर्पूरस्य वरस्य निष्कयुगलेनैकं पलं प्राप्यते
वैश्यानंदनचन्दनस्य च पलं द्रम्माष्टभागेन चेत्।
अष्टांशेन तथाऽगरोः पलदलं निष्केण मे देहि तान्
भागैरेककषोडशाष्टकमितैधूपं चिकीर्षाम्यहम्।। १०७ ।।

लीलावती/Chapter 25

नरघ्नदानोनितरत्नशेषैरिष्टे हते स्युः खलु मूल्यसंख्याः।
शेषैर्हते शेषवधे पृथक्स्थैरभिन्नमूल्यान्यथवा भवन्ति।। १०८ ।।

लीलावती/Chapter 25

माणिक्याष्टकमिन्द्रनीलदशकं मुक्ताफलानां शतम्
सद्वजाणि च पञ्च रत्नवणिजामेषां चतुर्णां धनम्।
संगस्नेहवशेन ते निजधनाद्दत्वैकमेकं मिथो
जातास्तुल्यधनाः पृथग्वद सखे तद्रत्नमूल्यानि मे।। १०९ ।।

लीलावती/Chapter 25

सुवर्णवर्णाहतियोगराशौ स्वर्णैक्यभक्ते कनकैक्यवर्णः।
वर्णो भवेच्छोधितहेमभवते वर्णोद्धृते शोधितहेमसंख्या।। ११० ।।

लीलावती/Chapter 25

विश्वार्करुद्रदशवर्णसुवर्णमाषाः दिग्वेदलोचनयुगप्रमिताः क्रमेण।
आवर्तितेषु वद तेषु सुवर्णवर्णः तूर्णं सुवर्णगणितज्ञ वणिग्भवेत् कः।। १११।।

लीलावती/Chapter 25

स्वर्णैक्यनिघ्नाद्युतिजातवर्णात् सुवर्णतद्वर्णवधैक्यहीनात् ।
अज्ञातवर्णाग्निजसंख्ययाप्तम् अज्ञातवर्णस्य भवेत् प्रमाणम् ।। ११२ ।।

लीलावती/Chapter 25

दशेशवर्णा वसुनेत्रमाषा अज्ञातवर्णस्य षडेतदैक्ये।
जातं सखे द्वादशकं सुवर्णम् अज्ञातवर्णस्य वद प्रमाणम्।। ११३ ।।

लीलावती/Chapter 25

स्वर्णैक्यनिघ्नो युतिजातवर्णः स्वर्णघ्नवर्णैक्यवियोजितोऽसौ।
अहेमवर्णाग्निजयोगवर्णविश्लेषभक्तोऽविदिताग्निजं स्यात्।। ११४ ।।

लीलावती/Chapter 25

दशेन्द्रवर्णा गुणचन्द्रमाषाः किञ्चित्तथा षोडशकस्य तेषाम्।
जातं युतौ द्वादशकं सुवर्णं कतीह ते षोडशवर्णमाषाः।। ११५ ।।

लीलावती/Chapter 25

साध्येनोनोऽनल्पवर्णो विधेयः साध्यो वर्णः स्वल्पवर्णोनितश्च।
इष्टक्षुण्णे शेषके स्वर्णमाने स्यातां स्वल्पानल्पयोर्वर्णयोस्ते।। ११६ ।।

लीलावती/Chapter 25

हाटकगुटिके षोडशदशवर्णे तद्युतौ सखे जातम्।
द्वादशवर्णसुवर्णं ब्रूहि तयोः स्वर्णमाने मे।। ११७ ।।