लीलावती-Chapter 26

Site Homepage Book Frontmatter Book Resources

संयोजने

लीलावती/Chapter 26

एकाद्येकोत्तरा अंका व्यस्ता भाज्याः क्रमस्थितैः।
परः पूर्वेण संगुण्यस्तत्परस्तेन तेन च ।। ११८।।

लीलावती/Chapter 26

एकद्वित्र्यादिभेदाः स्युरिदं साधारणं स्मृतम्।
छन्दश्चित्त्युत्तरे छन्दस्युपयोगोऽस्य तद्विदाम् ।। ११९।।

लीलावती/Chapter 26

मूषावहनभेदादौ खण्डमेरौ च शिल्पके।
वैद्यके रसभेदीये तन्नोक्तं विस्तृतेर्भयात् ।। १२०।।

लीलावती/Chapter 26

प्रस्तारे मित्र गायत्र्याः स्युः पादे व्यक्तयः कति।
एकादिगुरवश्चाशु कथ्यतां तत्पृथक् पृथक्।। १२१ ।।

लीलावती/Chapter 26

एकद्वित्र्यादिमूषावहनमितिमहो ब्रूहि मे भूमिभर्तुः
हर्म्ये रम्येऽष्टमूषे चतुरविरचितेश्लक्ष्णशालाविशाले।
एकद्वित्र्यादियुक्त्या मधुरकटुकषायाम्लकक्षारतिक्तैः
एकस्मिन् षड्रसैः स्युर्गणक कति वद व्यंजने व्यक्तिभेदाः ।। १२२ ।।