लीलावती/Chapter 27
सैकपदघ्नपदार्धमथैकाद्यंकयुतिः किल संकलिताख्या।
सा द्वियुतेन पदेन विनिघ्नी स्यात् त्रिहृता खलु संकलितैक्यम् ।। १२३।।
लीलावती/Chapter 27
एकादीनां नवान्तानां पृथक् संकलितानि मे।
तेषां सङ्कलितैक्यानि प्रचक्ष्व गणक द्रुतम्।। १२४ ।।
लीलावती/Chapter 27
द्विघ्नपदं कुयुतं त्रिविभक्तं संकलितेन हतं कृतियोगः।
संकलितस्य कृतेः सममेकाद्यंकघनैक्यमुदाहृतमाद्यैः ।। १२५।।
लीलावती/Chapter 27
व्येकपदघ्नचयो मुखयुक स्यादन्त्यधनम् मुखयुग्दलितं तम्।
मध्यधनं पदसंगुणितं तत्सर्वधनं गणितं च तदुक्तम्।। १२६।।
लीलावती/Chapter 27
तेषामेव च वर्गैक्यं घनैक्यं च वद द्रुतम् ।
कृतिसंकलनामार्गे कुशला यदि ते मतिः ।। १२७।।
लीलावती/Chapter 27
आदिः सप्त चयः पंच गच्छोऽष्टौ यत्र तत्र मे।
मध्यान्त्यधन-संख्ये के वद सर्वधनं च किम् ।। १२८।।
लीलावती/Chapter 27
आद्ये दिने द्रम्मचतुष्टयं यो दत्त्वा दिनेभ्योऽनुदिनं प्रवृतः ।
दातुं सखे पंचचयेन पक्षे द्रम्मा वद द्राक्कति तेन दत्ताः ।। १२९।।
लीलावती/Chapter 27
गच्छहते गणिते वदनं स्यात् व्येकपदघ्नचयार्धविहीने ।। १३०।।
लीलावती/Chapter 27
पंचाधिकं शतं श्रेढीफलं सप्तपदं किल।
चयं त्रयं वयं विद्मो वदनं वद नंदन ।। १३१।।
लीलावती/Chapter 27
प्रथममगमदह्ला योजने यो जनेशः
तदनु ननु कयाऽसौ ब्रूहि यातोऽध्ववृद्ध्या।
अरिकरिहरणार्थं योजनानामशीत्या
रिपुनगरमवाप्तः सप्तरात्रेण धीमन्।। १३३।।
लीलावती/Chapter 27
श्रेढीफलादुत्तरलोचनघ्नात् चर्यार्धवक्त्रान्तरवर्गयुक्तात्।
मूलं मुखोनं चयखंडयुक्तम् चयोद्धृतं गच्छमुदाहरन्ति।। १३४।।
लीलावती/Chapter 27
द्रम्मत्रयं यः प्रथमेह्नि दत्त्वा दातुं प्रवृत्तो द्विचयेन तेन।
शतत्रयं षष्ट्यधिकं द्विजेभ्यो दत्तं कियद्भिदिवसैर्वदाऽऽशु।। १३५।।
लीलावती/Chapter 27
विषमे गच्छे व्यके गुणकः स्थाप्यः समेऽर्धिते वर्गः।
गच्छक्षयांतमंत्यात् व्यस्तं गुणवर्गजं लं यत्तत् ।
व्येकं व्येकगुणोद्धृतमादिगुणं स्यात् गुणोत्तरे गणितम्।। १३६।।
लीलावती/Chapter 27
पूर्व वराटकयुगं येन द्विगुणोत्तरं प्रतिज्ञातम्।
प्रत्यहमर्थिजनाय स मासे निष्कान् ददाति कति।। १३७।।
लीलावती/Chapter 27
आदिर्द्वयं सखे वृद्धिः प्रत्यहं त्रिगुणोत्तरा।
गच्छ सप्तदिनं यत्र गणितं तत्र किं वद।। १३८।।
लीलावती/Chapter 27
पादाक्षरमितगच्छे गुणवर्गफलं चये द्विगुणे।
समवृत्तानां संख्या तद्वर्गो वर्गवर्गश्च।।
स्वस्वपदोनौ स्यातां अर्धसमानां च विषमाणाम् ।। १३९ ।।
लीलावती/Chapter 27
समानामर्धतुल्यानां विषमाणां पृथक् पृथक्।
वृत्तानां वद मे संख्यामनुष्टुप्छंदसि द्रुतम्।। १४०।।