लीलावती-Chapter 28

Site Homepage Book Frontmatter Book Resources

क्षेत्रफळ व घनफळ

लीलावती/Chapter 28

इष्टो बाहुर्यः स्यात् तत्स्पर्धिन्यां दिशीतरो बाहुः ।
त्र्यस्त्रे चतुरस्रे वा सा कोटिः कीर्तिता तज्ज्ञैः ।। १४१।।

लीलावती/Chapter 28

तत्कृत्योर्योगपदं कर्णो दोःकर्णवर्गयोर्विवरात् ।
मूलं कोटिः कोटिश्रुतिकृत्योरंतरात् पदं बाहुः ।। १४२ ।।

लीलावती/Chapter 28

राश्योरन्तरवर्गेण द्विघ्ने घाते युते तयोः।
वर्गयोगो भवेदेवं तयोर्योगान्तराहतिः।
वर्गान्तरं भवेदेवं ज्ञेयं सर्वत्र धीमाता ।। १४३।।

लीलावती/Chapter 28

कोटिश्चतुष्टयं यत्र दोस्त्रयं तत्र का श्रुतिः।
कोटिं दोष्कर्णतः कोटिश्रुतिभ्यां च भुजं वद।। १४४।।

लीलावती/Chapter 28

सांघित्रयमितो बाहुर्यत्र कोटिश्च तावती।
तत्र कर्णप्रमाणं किं गणक ब्रूहि मे द्रुतम् ।। १४५।।

लीलावती/Chapter 28

वर्गेण महतेष्टेन हताच्छेदांशयोर्वधात् ।
पदं गुणपदक्षुण्णच्छिद्भक्तं निकटं भवेत् ।। १४६।।

लीलावती/Chapter 28

इष्टेन भुजोऽस्माद् द्विगुणेननिघ्नादिष्टस्य कृत्यैकवियुक्तयाप्तम् ।
कोटिः पृथक् सेष्टगुणाभुजोना कर्णो भवेत् त्र्यस्त्रमिदं तुजात्यम् ।। १४७ ।।

लीलावती/Chapter 28

इष्टो भुजस्तत्कृतिरिष्टभक्ता द्विः स्थापितेष्टोनयुताऽधिता वा।
तौ कोटिकर्णौ इति कोटितो वा बाहुश्रुती चाकरणीगते स्तः।। १४८।।

लीलावती/Chapter 28

भुजे द्वादशके यौ यौ कोटिकर्णो अनेकधा।
प्रकाराभ्यां वद क्षिप्रं तौ तावकरणीगतौ ।। १४९।।

लीलावती/Chapter 28

इष्टेन निघ्नाद् द्विगुणाच्च कर्णादिष्टस्य कृत्येकयुजा यदाप्तम्।
कोटिर्भवेत् सा पृथगिष्टनिघ्नी तत्कर्णयोरन्तरमत्र बाहुः।। १५०।।

लीलावती/Chapter 28

पंचाशीतिमिते कर्णे यौ यावकरणीगतौ ।
स्यातां कोटिभुजौ तौ तौ वद कोविद सत्वरम् ।। १५१।।

लीलावती/Chapter 28

इष्टवर्गेण सैकेन द्विगुणः कर्णोऽथवा हृतः।
फलोनः श्रवणः कोटिः फलमिष्टगुणं भुजः।। १५२।।

लीलावती/Chapter 28

इष्टयोराहतिर्द्विघ्नी कोटिर्वर्गान्तरं भुजः।
कृतियोगस्तयोरेवं कर्णश्चाकरणीगतः।। १५३।।

लीलावती/Chapter 28

यैयैस्त्र्यस्रं भवेज्जात्यं कोटिदोश्श्रवणैः सखे।
त्रीनप्यविदितानेतान् क्षिप्रं ब्रूहि विचक्षण।। १५४।।

लीलावती/Chapter 28

वंशाग्रमूलान्तरभूमिवर्गो वंशोद्धृतस्तेन पृथग्युतोनौ।
वंशो तदर्धे भवतः क्रमेण वंशस्य खंडे श्रुतिकोटिरूपे।। १५५।।

लीलावती/Chapter 28

यदि समभुवि वेणुद्वित्रिपाणिप्रमाणो
गणक पवनवेगादेकदेशे स भग्नः।
भुवि नृपमितहस्तेष्वंगं लग्नं तदग्रम्
कथय कतिषु मूलादेष भग्नः करेषु।। १५६।।

लीलावती/Chapter 28

स्तंभस्य वर्गोऽहिबिलान्तरेण भक्तः फलं व्यालबिलान्तरालात् ।
शोध्यं तदर्धप्रमितः करैः स्यात् बिलाग्रतो व्यालकलापियोगः ।। १५७।।

लीलावती/Chapter 28

अस्ति स्तंभतले बिलं तदुपरि क्रीडाशिखंडी स्थितः
स्तंभे हस्तनवोच्छ्रिते त्रिगुणितस्तंभप्रमाणान्तरे।
दृष्ट्वा हि बिलमाव्रजन्तमपतत् तिर्यक् स तस्योपरि।
क्षिप्रं ब्रूहि तयोर्विलात्कतिमितैः साम्येन गत्योर्युतिः।। १५८।।

लीलावती/Chapter 28

आकृष्टशक्तिश्च मही तया यत् खस्थं गुरुं स्वाभिमुखं स्वशक्त्या।
आकृष्यते तत्पततीव भाति समे समन्तात् क्व पतत्वियं खे ।।

लीलावती/Chapter 28

भुजाद्वर्गितात्कोटिकर्णान्तराप्तं द्विधा कोटिकर्णान्तरेणोनयुक्तम् ।
तदर्थे क्रमात् कोटिकर्णो भवेतामिदं धीमता वेत्य सर्वत्र योज्यम् ।। १५९ ।।

लीलावती/Chapter 28

सखे पट्टतसज्जनस्थानमध्यं भुजः कोटिकर्णान्तरं पदा दृश्यम्।
नलः कोटिरेतन्मितं स्याद् यतोम्भो वदैवं समानीय पानीयमानम् ।। १६० ।।

लीलावती/Chapter 28

चक्रक्रौंचालुकुलितसलिले क्वापि दृष्टं तडागे
तोयादूर्ध्वं कमलकलिकाग्रं वितस्तिप्रमाणम्।
मन्दं मन्दं चलितमनिलेनाऽऽहतं हस्तयुग्मे
तस्मिन्मग्नं गणक कथय क्षिप्रमम्बुप्रमाणम्।। १६१।।

लीलावती/Chapter 28

द्विनिघ्नतालोच्छ्रितिसंयुतं यत्सरोऽन्तरं तेन विभाजितायाः।
तालोच्छ्रितेस्तालसरोन्तरघ्न्या उड्डीयमानं खलु लभ्यते तत्।। १६२।।

लीलावती/Chapter 28

वृक्षाद्धस्तशतोच्छ्रयाच्छतयुगे वार्पी कपिः कोऽप्यगात्
उत्तीर्याथ परो द्रुतं श्रुतिपथात्प्रोड्डीय किंचित द्रुमात्।
जातैवं समता तयोर्यदि गतावुड्डीयमानं कियत्
विद्वंश्चेत्सुपरिश्रमोऽस्ति गणिते क्षिप्रं तदाचक्ष्व मे।। १६३।।

लीलावती/Chapter 28

कर्णस्य वर्गाद् द्विगुणाद्विशोध्यो दोःकोटियोगः स्वगुणोऽस्य मूलम् ।
योगो द्विधा मूलविहीनयुक्तः स्याता तदर्थे भुजकोटिमाने ।। १६४ ।।

लीलावती/Chapter 28

दश सप्ताधिकाः कर्णस्त्र्यधिका विंशतिः सखे।
भुजकोटियुतिर्यत्र तत्र ते मे पृथक् वद।। १६५।।

लीलावती/Chapter 28

दोःकोट्योरन्तरं शैलाः कर्णो यत्र त्रयोदश।
भुजकोटी पृथक्तत्र वदाऽऽशु गणकोत्तम।। १६६।।

लीलावती/Chapter 28

अन्योन्यमूलाग्रगसूत्रयोगात्
वेण्योर्वधे योगहृते च लंबः।
वंशौ स्वयोगेन हृतौ अभीष्ट-
भूघ्नौ च लंबोभयतः कुखंडे।। १६७।।

लीलावती/Chapter 28

पंचदश-दशकरोच्छ्रायवेण्वोरज्ञातमध्यभूमिकयोः।
इतरेतरमूलाग्रगसूत्रयुतेर्लंबमानमाचक्ष्व।। १६८।।

लीलावती/Chapter 28

धृष्टोद्दिष्टमृजुभुजं क्षेत्रं यत्रैकबाहुतः स्वल्पा।
तदितरभुजयुतिरथवा तुल्या ज्ञेयं तदक्षेत्रम्।। १६९।।

लीलावती/Chapter 28

चतुरस्रे द्विषट्त्र्यर्का भुजास्त्र्ये त्रिषण्णव ।
उद्दिष्टा यत्र धृष्टेन तदक्षेत्रं विनिर्दिशेत्।। १७२

लीलावती/Chapter 28

त्रिभुजे भुजयोर्योगेस्तदन्तरगुणो भुवा हतो लब्ध्या।
द्विःस्था भूरूनयुता दलिताऽऽबाधे तयोः स्याताम्।। १७१।।

लीलावती/Chapter 28

स्वाबाधाभुजकृत्योरन्तरमूलं प्रजायते लंबः।
लंबगुणं भूम्यर्धं स्पष्टं त्रिभुजे फलं भवति।। १७२।।

लीलावती/Chapter 28

क्षेत्रे मही मनुमिता त्रिभुजे भुजौ तु
यत्र त्रयोदशतिथिप्रमितौ च मित्र।
तत्रावलंबकमितिं कथयावबाधे
क्षिप्रं तथा च समकोष्ठमिति फलाख्याम् ।। १७३ ।।

लीलावती/Chapter 28

दशसप्तदशप्रमौ भुजौ त्रिभुजे यत्र नवप्रमा मही।
अबधे वद लंबकं तथा गणितं गाणितिकाशु तत्र मे।। १७४।।

लीलावती/Chapter 28

सर्वदोर्युतिदलं चतुःस्थितं बाहुभिर्विरहितं च तद्वधात्।
मूलमस्फुटफलं चतुर्भुजे स्पष्टमेवमुदितं त्रिबाहुके।। १७५।।

लीलावती/Chapter 28

भूमिश्चतुर्दशकरा मुखमंकसंख्यं
बाहू त्रयोदशदिवाकरसंमितौ च।
लंबोऽपि यत्र रविसंख्यक एव तत्र
क्षेत्रे फलं कथय तत्कथितं यदाद्यैः।। १७६ ।।

लीलावती/Chapter 28

चतुर्भुजस्यानियतौ हि कर्णो कथं ततोऽस्मिन्नियतं फलं स्यात्।
प्रसाधितौ तच्छ्रवणौ यदाद्यैः स्वकल्पितौ तावितरत्र न स्तः।। १७७ ।।

लीलावती/Chapter 28

तेष्वेव बाहुष्वपरौ च कर्णावनेकधा क्षेत्रफलं ततश्च।। १७८ ।।

लीलावती/Chapter 28

लंबयोः कर्णयोर्वैकं अनिर्दिश्यापरः कथम्।
पृच्छत्यनियत्वेऽपि नियतं चापि तत्फलम्।। १७९ ।।

लीलावती/Chapter 28

स पृच्छकः पिशाचो वा वक्ता वा नितरां ततः।
यो न वेत्ति चतुर्बाहुक्षेत्रस्यानियतां स्थितिम्।। १८० ।।

लीलावती/Chapter 28

इष्टा श्रुतिस्तुल्यचतुर्भुजस्य कल्प्याथ तद्वर्गविवर्जिता या।
चतुर्गुणा बाहुकृतिस्तदीयं मूलं द्वितीयश्रवणप्रमाणम्।। १८१ ।।

लीलावती/Chapter 28

अतुल्यकर्णाभिहतिद्विभक्ता फलं स्फुटं तुल्यचतुर्भुजे स्यात्।
समश्रुतौ तुल्यचतुर्भुजे च तथाऽऽयते तद्भुजकोटिघातः।। १८२ ।।

लीलावती/Chapter 28

चतुर्भुजेऽन्यत्र समानलंबे लंबेन निघ्नं कुमुखैक्यखंडम्।। १८३ ।।

लीलावती/Chapter 28

क्षेत्रस्य पंचकृतितुल्यचतुर्भुजस्य
कर्णौ ततश्च गणितं गणक प्रचक्ष्व।
तुल्यश्रुतेश्च खलु तस्य तथाऽऽयतस्य
यद्विस्तृती रसमिताष्टमितं च दैर्घ्यम्।। १८४ ।।

लीलावती/Chapter 28

क्षेत्रस्य यस्य वदनं मदनारितुल्यं
विश्वंभरा द्विगुणितेन मुखेन तुल्या।
बाहू त्रयोदशनखप्रमितौच लंबः
सूर्योन्मितश्च गणितं वद तत्र किं स्यात्।। १८५ ।।

लीलावती/Chapter 28

पंचाशदेकसहिता वदनं यदीयं
भूः पंचसप्ततिमिता प्रमितोऽष्टषष्ट्या।
सव्यो भुजो द्विगुणविंशतिसंमितोऽन्यः
तस्मिन्फलं श्रवणलंबमिती प्रचक्ष्व।। १८६ ।।

लीलावती/Chapter 28

यल्लंबलाश्रितबाहुवर्गविश्लेषमूलं कथिताऽबधा सा।
तदूनभूवर्गसमन्वितस्य यल्लंबवर्गस्य पदं स कर्णः।। १८७ ।।

लीलावती/Chapter 28

इष्टोऽत्र कर्णः प्रथमं प्रकल्प्यस्त्र्ये तु कर्णोभयतः स्थिते ये।
कर्ण तयोः क्षमामितरौ च बाहू प्रकल्प्य लंबावबधे प्रसाध्ये।। १८८ ।।

लीलावती/Chapter 28

आबाधयोरेकककुप्स्थयोर्यत्स्यादन्तरं तत्कृतिसंयुतस्य।
लंबैक्यवर्गस्य पदं द्वितीयः कर्णो भवेत्सर्वचतुर्भुजेषु।। १८९ ।।

लीलावती/Chapter 28

कर्णाश्रितंस्वल्पभुजैक्यमुर्वी प्रकल्प्य तच्छेषभुजौ च बाहू।
साध्योऽवलंबोऽथ तथान्यकर्णः स्वोर्व्याः कथंचिच्छ्रवणो न दीर्घः।। १९० ।।

लीलावती/Chapter 28

तदन्यलंबान्न लघुस्तथेदं ज्ञात्वेष्टकर्णः सुधिया प्रकल्प्यः।
त्र्यस्रे तु कर्णोभयतः स्थिते ये तयोः फलैक्यं फलमत्र नूनम्।। १९१ ।।

लीलावती/Chapter 28

समानलंबस्य चतुर्भुजस्य मुखोनभूमिं परिकल्प्य भूमिम् ।
भुजौ भुजौ त्र्यस्त्रवदेव साध्ये तस्याबधे लंबमितिस्ततश्च ।। १९२ ।।

लीलावती/Chapter 28

आबाधयोना चतुरस्रभूमिः । तल्लंबवर्गैक्यपदं श्रुतिः स्यात् ।।
समानलंबे लघुदोः कुयोगात् । मुखान्यदोः संयुतिरल्पिका स्यात् ।। १९३ ।।

लीलावती/Chapter 28

द्विपंचाशितव्येकचत्वारिंशितौ भुजौ।
मुखं तु पंचविंशत्या तुल्यं षष्ट्या मही किल।। १९४ ।।

लीलावती/Chapter 28

अतुल्यलंबकं क्षेत्रमिदं पूर्वैरुदाहृतम् ।
षट्पंचाशत्रिषष्टिश्च नियते कर्णयोर्मिती ।
कर्णौ तत्रापरौ ब्रूहि समलंबे च तच्छ्रुती ।। १९५ ।।

लीलावती/Chapter 28

कर्णाश्रितभुजघातैक्यमुभयथाऽन्योन्यभाजितं गुणयेत्।
योगेन भुजप्रतिभुजवधयोः कर्णौ पदे विषमे।। १९६ ।।

लीलावती/Chapter 28

अभीष्टजात्यद्वयबाहुकोट्यः परस्परं कर्णहता भुजा इति।
चतुर्भुजं यद्विषमं प्रकल्पितं श्रुती तु तत्र त्रिभुजद्वयात्ततः।। १९७ ।।

लीलावती/Chapter 28

बाह्वोर्वधः कोटिवधेन युक्स्यादेका श्रुतिः कोटिभुजावधैक्यम् ।
अन्या लघौ सत्यपि साधनेऽस्मिन् पूर्वैः कृतं यद्गुरु तन्न विद्धाः ।। १९८ ।।

लीलावती/Chapter 28

क्षेत्रे यत्र शतत्रयं क्षितिमितिस्तत्त्वेन्दु तुल्यं मुखं
बाहू खोत्कृतिभिः शरातिधृतिभिस्तुल्यौ च तत्र श्रुती।
एका खाष्टयमैः समा तिथिगुणैरन्याथ तल्लंबकौ
तुल्यौ गोधृतिभिस्तथाजिनयमैर्योगाच्छ्रवोर्लम्बयोः।। १९९ ।।

लीलावती/Chapter 28

तत्खंडे कथयाधरे श्रवणयोर्योगाच्च लम्बाबधे
तत्सूची निजमार्गवृद्धभुजयोर्गाधथा स्यात्तथा।
साबाधं वद लंबकं च भुजयोः सूच्याः प्रमाणे च के
सर्वं गणितिक प्रचक्ष्व नितरां क्षेत्रेऽत्र दक्षोऽसि चेत्।। २०० ।।

लीलावती/Chapter 28

लंबतदाश्रितबाहोर्मध्यं संध्याख्यमस्य लंबस्य।
संध्यूना भूः पीठं साध्यं यस्याधरं खण्डम्।। २०१ ।।

लीलावती/Chapter 28

तत्संधिद्विष्ठः परलंबश्रवणाहतोऽन्यपीठेन।
भक्तो लंबश्रुत्योर्योगात् स्यातामधः खण्डे।। २०२ ।।

लीलावती/Chapter 28

लंबौ भूघ्नौ निजनिजपीठविभक्तौ च वंशो स्तः ।
ताभ्यां प्राग्वत् श्रुत्योर्योगाल्लंबः कुखण्डे च ।। २०३ ।।

लीलावती/Chapter 28

लंबहतो निजसंधिः परलंबगुणः समाह्वयो ज्ञेयः।
समपरसन्ध्योरैक्यं हारस्तेनोद्धृतौ तौ च।। २०४ ।।

लीलावती/Chapter 28

समपरसन्धी भूघ्नौ सूच्याबाधे पृथक् स्याताम्।
हारहतः परलंबः सूचीलंबो भवेद्भूघ्नः।। २०५ ।।

लीलावती/Chapter 28

सूचीलंबघ्नभुजौ निजनिजलंबोद्धृतौ भुजौ सूच्याः।
एवं क्षेत्रक्षोदः प्राज्ञेस्त्रैराशिकात् क्रियते।। २०६ ।।

लीलावती/Chapter 28

व्यासे भनंदाग्निहते विभक्ते खबाणसूर्यैः परिधिस्तु सूक्ष्मः।
द्वाविंशतिघ्ने विहृतेऽथ शैलैः स्थूलेभोऽथवा स्याद्व्यवहारयोग्यः।। २०७ ।।

लीलावती/Chapter 28

विष्कंभमानं किल सप्त यत्र तत्र प्रमाणं परिधेः प्रचक्ष्व ।
द्वाविंशतिर्यत्परिधिप्रमाणं तद्व्याससंख्या च सखे विचिन्त्य ।। २०८ ।।

लीलावती/Chapter 28

वृत्तक्षेत्रे परिधिगुणितव्यासपादः फलं यत्
क्षुण्णं वेदैरुपरि परितः कंदुकस्येव जालम् ।
गोलस्यैवं तदपि च फलं पृष्ठजं व्यासनिघ्नं
षड्भिर्भक्तं भवति नियतं गोलगर्भे घनाख्यम् ।। २०९ ।।

लीलावती/Chapter 28

यद्व्यासस्तुरगैर्मितः किल फलं क्षेत्रे समे तत्र किं
व्यासः सप्तमितश्च यस्य सुमते गोलस्य तस्याऽपि किम्।
पृष्ठे कंदुकजालसन्निभफलं तस्यैव गोलस्य किं
मध्ये ब्रूहि धनं फलं च विमलां चेद्वेत्सि लीलावतीम्।। २१० ।।

लीलावती/Chapter 28

व्यासस्य वर्गे भनवाग्निनिघ्नं सूक्ष्मं फलं पंचसहस्रभक्ते ।
रुद्राहते शक्रहृतेऽथवा स्यात् स्थूलं फलं संव्यवहारयोग्यम् ।। २११ ।।

लीलावती/Chapter 28

ज्याव्यासयोगान्तरघातमूलं व्यासस्तदूनो दलितः शरः स्यात्।
व्यासाच्छरोनात् शरसंगुणाच्च मूलं द्विनिघ्नं भवतीह जीवा।। २१३ ।।

लीलावती/Chapter 28

जीवार्धवर्गे शरभक्तयुक्ते व्यासप्रमाणं प्रवदन्ति वृत्ते।। २१४ ।।

लीलावती/Chapter 28

दशविस्तृतिवृत्तान्तर्यत्र ज्या षण्मिता सखे।
तत्रेपुं वद बाणाज्ज्यां ज्याबाणाभ्यां च विस्तृतिम्।। २१५ ।।

लीलावती/Chapter 28

त्रिद्व्यंकाग्निनभश्चन्द्रैस्त्रिबाणाष्टयुगाष्टभिः।
वेदाग्निबाणखारवैश्च खखाभ्ररसैः क्रमात्।। २१६ ।।

लीलावती/Chapter 28

बाणेषुनखबाणैश्च द्विद्विनंदेषुसागरैः।
कुरामदशवेदैश्च वृत्ते व्याससमाहते।। २१७ ।।

लीलावती/Chapter 28

खखखाभ्रार्कसंभक्ते लभ्यन्ते क्रमशो भुजाः।
वृत्तान्तत्रयस्रपूर्वाणाम् नवास्रान्तं पृथक् पृथक्।। २१८ ।।

लीलावती/Chapter 28

चापोननिघ्नपरिधिः प्रथमाह्वयः स्यात्
पंचाहतः परिधिवर्गचतुर्थभागः।
आधोनितेन खलु तेन भजेच्चतुर्ध।
व्यासाहतं प्रथमप्राप्तमिह ज्यका स्यात्।। २१९ ।।

लीलावती/Chapter 28

अष्टादशांशेन समानवृत्तम् एकादिनिघ्नेन च यत्र चापम्।
पृथक् पृथक् तत्र वदाशु जीवाम् खार्केर्मितं व्यासदलं च यत्र।। २२० ।।

लीलावती/Chapter 28

व्यासाब्धिघातयुतमौर्विकयाविभक्तो
जीवांध्रिपंचगुणितः परिधेस्तु वर्गः।
लब्धोनितात् परिधिवर्गचतुर्थभागात्
आप्ते पदे वृत्तिदलात्पतिते धनुः स्यात्।। २२१ ।।

लीलावती/Chapter 28

विदिता इह ये गुणास्ततो वद तेषामधुना धनुर्मितिम् ।
यदि तेऽस्ति धनुर्गुणक्रियागणिते गाणितिकातिनैपुणम् ।। २२२ ।।