लीलावती-Chapter 29

Site Homepage Book Frontmatter Book Resources

आकारमान

लीलावती/Chapter 29

गणयित्वा विस्तारं बहुषु स्थानेषु तद्युतिर्भाज्या।
स्थानकमित्या सममितिरेवं दैर्ध्यच वेधे च
क्षेत्रफलं वेधगुणं खाते घनहस्तसंख्या स्यात् ।। २२३ ।

लीलावती/Chapter 29

भुजवक्रतया दैर्घ्यं दशेशार्ककरैर्मितम्।
त्रिषु स्थानेषु षट्पंचसप्तहस्ता च विस्तृतिः ॥ २२४ ॥

लीलावती/Chapter 29

यस्य खातस्य वेधोऽपि द्विचतुस्त्रिकरः सखे।
तत्र खाते कियन्तः स्युर्धनहस्ताः प्रचक्ष्व मे॥ २२५॥

लीलावती/Chapter 29

मुखजतलजतद्युतिजक्षेत्रफलैक्यं हृतं षड्भिः।
क्षेत्रफलं सममेतद्वेधगुणं धनफलं स्पष्टम्।
समखातफलत्र्यंशः सूचीखाते फलं भवति।। २२६।।

लीलावती/Chapter 29

मुखे दशद्वादशहस्ततुल्यं विस्तारदैर्घ्य तु तले तदर्धम्।
यस्याः सखे सप्तकरश्च वेधः का खातसंख्या वद तत्र वाप्याम्।। २२७।।

लीलावती/Chapter 29

खातेऽथ तिग्मकरतुल्यचतुर्भुजे च किं स्यात्फलं नवमितः खलु यत्र वेधः।
वृत्ते तथैव दशविस्तृतिपंचवेधे सूचीफलं वद तयोश्च पृथक् पृथङ्मे।।२२८।।
उच्छ्रयेन गुणितं चितेः किल क्षेत्रसंभवफलं घनं भवेत्।
इष्टिकाघनहृते घने चितेः इष्टिकापरिमितिश्च लभ्यते।। २२९ ।।

लीलावती/Chapter 29

इष्टिकोच्छ्रयहृदुच्छ्रितिश्चितेः स्युःस्तराश्च दृषदां चितेरपि।। २३०।।

लीलावती/Chapter 29

अष्टादशांगुलं दैर्घ्य विस्तारो द्वादशांगुलः ।
उच्छ्रितिस्त्र्यंगुला यासामिष्टिकास्ताश्चितौ किल।। २३१ ।।

लीलावती/Chapter 29

यद्विस्तृतिः पंचकराष्टहस्तं दैर्घ्य च यस्यां त्रिकरोच्छ्रितिश्च।
तस्यां चितौ किं फलमिष्टिकानां संख्या च का ब्रूहि कति स्तराश्च।। २३२।।