लीलावती/Chapter 30
पिंडयोगदलप्रमूलयोः दैर्ध्यसंगुणितमंगुलात्मकम्।
दारुदारणपथैः समाहतं षट्स्वरेषुविहृतं करात्मकम् ।। २३३।।
लीलावती/Chapter 30
मूले नखांगुलमितोऽथ नृपांगुलोऽग्रे
पिण्डः शतांगुलमितं किल यस्य दैर्ध्यम्।
तद्दारुदारणपथेषु चतुर्षु किं स्यात्
हस्तात्मकं वद सखे गणितं द्रुतं मे।। २३४ ।।
लीलावती/Chapter 30
छिद्यते तु यदि तिर्यगुक्तवत् पिंडविस्तृतिहतेः फलं तदा।
इष्टिकाचिति दृषच्चितिखातक्राकचव्यवहृतौ खलु मूल्यम्।
कर्मकारजनसंप्रतिपत्त्या तन्मृदुत्वकठिनत्ववशेन।। २३५ ।।
लीलावती/Chapter 30
यद्विस्तृतिर्दन्तांगुलानि पिंडस्तथा षोडश यत्र काष्ठे।
छेदेषु तिर्यङ्नवसु प्रचक्ष्व किं स्यात्फलं तत्र करात्मकं मे।। २३६।।