लीलावती-Chapter 31

Site Homepage Book Frontmatter Book Resources

धान्याच्या ढिगाचे घनफळ

लीलावती/Chapter 31

अनणुषु दशमांशोऽणुष्वथैकादशांशः
परिधिनवमभागः शूकधान्येषु वेधः।
भवति परिधिषष्ठे वर्गिते वेधनिघ्ने
घनगणितकराः स्युर्मागधा ताश्च खाय्यः।। २३७।।

लीलावती/Chapter 31

समभुवि किल राशिर्यः स्थितः स्थूलधान्यः
परिधिपरिमितिर्भो हस्तषष्टिर्यदीया।
प्रवद गणक खार्यः किंमिताः सन्ति तस्मिन्
अथ पृथगणुधान्ये शूकधान्ये च शीघ्रम्।। २३८ ।।

लीलावती/Chapter 31

द्विवेदसत्रिभागैकनिघ्नात्तु परिधेः फलम्।
भित्त्यन्तर्बाह्यकोणस्थराशेः स्वगुणभाजितम्।। २३९ ।।

लीलावती/Chapter 31

परिधिर्भित्तिलग्नस्य राशेस्त्रिशत्करः सखे
अन्तःकोणस्थितस्यापि तिथितुल्यकरः किल।
बहिःकोणस्थितस्यापि पंचघ्ननवसंमितः
तेषामाचक्ष्व मे क्षिप्रं घनहस्तान् पृथक् पृथक्।। २४० ।।