लीलावती-Chapter 32

Site Homepage Book Frontmatter Book Resources

सावल्या

लीलावती/Chapter 32

छाययोः कर्णयोरन्तरे ये तयोः वर्गविश्लेषभक्ता रसाद्रीषवः।
सैकलब्धेः पदघ्नं तु कर्णांतरम् भांतरेणोनयुक्तं दले स्तः प्रभे।। २४१।।

लीलावती/Chapter 32

शंकुः प्रदीपतलशंकुतलांतरघ्नः।
छाया भवेत् विनरदीपशिखौच्च्यभक्तः।। २४२।।

लीलावती/Chapter 32

शंकुप्रदीपान्तरभूस्त्रिहस्ता दीपोच्छ्रितिः सार्धकरत्रया चेत्।
शंकोस्तदाऽर्कागुलसंमितस्य तस्य प्रभा स्यात्कियती वदाऽऽशु।। २४३ ।।

लीलावती/Chapter 32

छायोद्धृते तु नरदीपतलांतरघ्ने।
शंकौ भवेन्नरयुते खलु दीपकौच्च्यम्।। २४४ ।।

लीलावती/Chapter 32

प्रदीपशंखंतरभूस्त्रिहस्ता छायांगुलैः षोडशभिः समा चेत्।
दापोच्छ्रितिः स्यात्कियती वदाऽऽशु प्रदीपशंखंतरमुच्यतां मे।। २४५ ।।

लीलावती/Chapter 32

विशंकुदीपोच्छ्रयसंगुणा भा। शंकूद्धृता दीपनरांतरं स्यात्।। २४६ ।।

लीलावती/Chapter 32

छायाग्रयोरंतरसंगुणा भा छायाप्रमाणांतरहृद्भवेत् भूः।
भूशंकुघातः प्रभया विभक्तः प्रजायते दीपशिखौच्च्यमेव।। २४७ ।।

लीलावती/Chapter 32

त्रैराशिकेनैव यदेतदुक्तं व्याप्तं स्वभेदैर्हरिणेव विश्वम्।। २४८ ।।

लीलावती/Chapter 32

शंकोर्भार्किमितांगुलस्य सुमते दृष्टा किलाष्टांगुला
छायाग्राभिमुखे करद्वयमिते न्यस्तस्य देशे पुनः।
तस्यैवार्कमितांगुला यदि तदा छाया-प्रदीपान्तरम्
दीपौच्चयं च कियत् वद व्यवहृतिं छायाभिधां वेत्सि चेत्।। २४९ ।।

लीलावती/Chapter 32

यत्किंचिद्गुणभागहारविधिना बीजेऽत्र वा गण्यते
तत् त्रैराशिकमेव निर्मलधियामेवावगम्यं विदाम्।
एतद्यत् बहुधाऽस्मदादिजडधीधीवृद्धिबुद्धया बुधैः
तद्भेदान् सुगमान्विधाय रचितं प्राज्ञैः प्रकीर्णादिकम्।। २५० ।।

लीलावती/Chapter 32

छायाप्रयोरंतरसंगुणा भा छायाप्रमाणांतरहृद्भवेत् भूः।