लीलावती-Chapter 33

Site Homepage Book Frontmatter Book Resources

कुट्टक

लीलावती/Chapter 33

शतं हतं येन युतं नवत्या विवर्जितं वा विहृतं त्रिषष्ट्या।
निरग्रकं स्याद् वद मे गुणं तं स्पष्टं पटीयान् यदि कुट्टकेऽसि।। २५१।।

लीलावती/Chapter 33

भाज्यो हारः क्षेपकश्चापवर्त्यः केनाप्यादौ संभवे कुट्टकार्थम्।
येन च्छिन्नो भाज्यहारौ न तेन क्षेपश्चैतद् दुष्टमुद्दिष्टमेव ।। २५२ ।।

लीलावती/Chapter 33

परस्परं भाजितयोर्ययोर्यः शेषस्तयोः स्यादपवर्तनं सः।
तेनापवर्तेन विभाजितौ यौ तौ भाज्यहारौ दृढसंज्ञकौ स्तः।। २५३ ।।

लीलावती/Chapter 33

मिथो भजेत्तौ दृढभाज्यहारौ यावद् विभाज्ये भवतीह रूपम्।
फलान्यधोऽस्तदधो निवेश्य क्षेपस्ततः शून्यमुपातिमेन।। २५४।।

लीलावती/Chapter 33

स्वोर्ध्वे हतेऽन्त्येन युते तदन्त्यं तज्जेन्युहुः स्यादिति राशियुग्मम्।
ऊर्ध्वो विभाज्येन दृढेन तष्टः फलं गुणो स्यादधरो हरेण।। २५७

लीलावती/Chapter 33

एवं तदैवात्र यदा समास्ताः स्युर्लब्धराश्चेद्विषमास्तदानीम्।
यदागतौ लब्धिगुणौ विशोध्यौ स्वतक्षणाच्छेषमितौ तु तौ स्तः ।। २५६ ।।

लीलावती/Chapter 33

यद्गुणा क्षयगषष्टिरन्विता वर्जिता च यदि वा त्रिभिस्ततः ।
स्यात्त्रयोदशहृता निरग्रकास्तं गुणं गणक मे पृथग्वद ।। २५७।।

लीलावती/Chapter 33

एकविंशतियुतं शतद्वयं यद्गुणं गणक पंचषष्टियुक् ।
पंचवर्जितशतद्वयोद्धृतं शुद्धिमेति गुणकं वदाशु तत् ।। २५८ ।।

लीलावती/Chapter 33

भवति कुट्टकविधेर्युतिभाज्ययोः समपवर्तितयोरथवा गुणः।
भवति यो युतिभाजकयोः पुनः स च भवेदपवर्तनसंगुणः।। २५९ ।।

लीलावती/Chapter 33

क्षेपजे तक्षणाच्छुद्धे गुणाप्ती स्तो वियोगजे।। २६० ।।

लीलावती/Chapter 33

येन संगुणिताः पंच त्रयोविंशतिसंयुताः ।
वर्जिता वा त्रिभिर्भक्ता निरग्राः स्युः स को गुणः ।। २६२ ।।

लीलावती/Chapter 33

क्षेपाभावे तथा यत्र क्षेपः शुद्धयेत् हरोद्धृतः।
ज्ञेयः शून्यं गुणस्तत्र क्षेपो हारहृतः फलम्।। २६३ ।।

लीलावती/Chapter 33

येन पंचगुणिताः खसंयुताः पंचषष्टिसहिताश्च तेऽथवा।
स्युस्त्रयोदशहृता निरग्रकाः तं गुणं गणक कीर्तयाशु मे।। २६४ ।।

लीलावती/Chapter 33

क्षेपं विशुद्धिं परिकल्प्य रूपं पृथक् पृथग्ये गुणकारलब्धी।
अभीप्सितक्षेपविशुद्धनिघ्ने स्वहारतष्टे भवतस्तयोस्ते।। २६५ ।।

लीलावती/Chapter 33

एको हरश्चेदद्गुणकौ विभिन्नौ तदा गुणैक्यं परिकल्प्य भाज्यम् ।
अग्रैक्यमग्रं क्रम उक्तवद्यः संश्लिष्टसंज्ञः स्फुटकुट्टकोऽसौ ।। २६६ ।।

लीलावती/Chapter 33

कः पंचनिघ्नो विहृतस्त्रिषष्टया सप्तावशेषोऽथ स एव राशिः।
दशाहतः स्याद्विहृतस्त्रिषष्टया चतुर्दशाग्रो वद राशिमेनम्।। २६७ ।।