लीलावती-Chapter 34

Site Homepage Book Frontmatter Book Resources

संयोजन / साखळीकरण(क्रमपरिवर्तन, विभाजनइत्यादी)

लीलावती/Chapter 34

स्थानांतमेकादिचयांकघातः संख्याविभेदा नियतैस्युरंकैः।
भक्तोऽङ्कमित्यांकसमासनिघ्नः स्थानेषु युक्तो मितिसंयुतिः स्यात्।। २५८।।

लीलावती/Chapter 34

द्विकाष्टकाभ्यां त्रिनवाष्टकैर्वा निरंतरं द्व्यादिनवावसानैः।
संख्याविभेदाः कति संभवन्ति तत्संख्यकैक्यानि पृथग्वदाशु।। २६९।।

लीलावती/Chapter 34

पाशांकुशाहिडमरूककपालशूलैः खट्वांगशक्तिशरचापयुतैर्भवन्ति।
अन्योन्यहस्तकलितैः कति मूर्तिभेदाः शंभोर्हरेरिव गदारिसरोजशंखैः।। २७०।।

लीलावती/Chapter 34

यावत्स्थानेषु तुल्याङ्कास्तद्भेदेस्तु पृथक्कृतैः।
प्राग्भेदा विहृता भेदास्तत्संख्यैक्यं च पूर्ववत्।। २७१।।

लीलावती/Chapter 34

द्विद्येकभूपरिमितैः कतिसंख्यकाः स्युः
तासां युतिं च गणकाऽऽशु मम प्रचक्ष्व।
अंभोधिकुंभिशरभूतशरैस्तथाङ्कैः
चेदंकपाशमितियुक्तिविशारदोऽसि।। २७२।।

लीलावती/Chapter 34

स्थानषट्कस्थितैरङ्कैरन्योन्यं खेन वर्जितैः।
कति संख्याविभेदाः स्युर्यदि वेत्सि निगद्यताम्।। २७३।।

लीलावती/Chapter 34

निरेकमैकैकमिदं निरेकस्थानांतमेकापचितं विभक्तम्।
रूपादिभिस्तन्निहतेः समा स्युः संख्याविभेदा नियतेऽङ्कयोगे।। २७४।।

लीलावती/Chapter 34

नवान्वितस्थानकसंख्यकायाः ऊनेऽङ्कयोगे कथिते तु वेद्यम् ।
संक्षिप्तमुक्तं पृथुताभयेन नान्तोऽस्ति यस्माद् गणितार्णवस्य ।। २७५।।

लीलावती/Chapter 34

पंचस्थानस्थितैरंकैर्यद्यद्योगस्त्रयोदश।
कतिभेदा भवेत्संख्या यदि वेत्ति निगद्यताम्।। २७६।।

लीलावती/Chapter 34

न गुणो न हरो न कृतिर्न घनः पृष्टस्तथापि दुष्टानाम्।
गर्वितगणकवटूनां स्यात्पातोऽवश्यमंकपाशेऽस्मिन्।। २७७।।

लीलावती/Chapter 34

येषां सुजातिगुणवर्गभूषितांगी
शुद्धाखिलव्यवहृतिः खलु कंठसक्ता।
लीलावतीह सरसोक्तिमुदाहरन्ती
तेषां सदैव सुखसंपदुपैति वृद्धिम्।। २७८।।

लीलावती/Chapter 34

अष्टौ व्याकरणानि षट् च भिषजां व्याचष्ट ताः संहिताः
षट् तर्कान् गणितानि पंच चतुरो वेदानधीते स्म यः।
रत्नानां त्रितयं द्वयं च बुबुधे मीमांसयोरन्तरे
सद्ब्रह्मैकमगाधबोधमहिमा सोऽस्याः कविर्भास्करः ।। २७९।।