सूर्यसिद्धान्तः/Chapter 01
अचिन्त्याव्यक्तरूपाय निर्गुणाय गुणात्मने ।
समस्तजगदाधारमूर्तये ब्रह्मणे नमः ॥ १.०१॥
सूर्यसिद्धान्तः/Chapter 01
अल्पावशिष्टे तु कृते मयो नाम महासुरः ।
रहस्यं परमं पुण्यं जिज्ञासुर्ज्ञानमुत्तमम् ॥ १.०२॥
सूर्यसिद्धान्तः/Chapter 01
वेदाङ्गमग्यमखिलं ज्योतिषां गतिकारणम् ।
आराधयन् विवस्वन्तं तपस्तेपे सुदुश्चरम् ॥ १.०३॥
सूर्यसिद्धान्तः/Chapter 01
तोषितस्तपसा तेन प्रीतस्तस्मै वरार्थिने ।
ग्रहाणां चरितं प्रादान् मयाय सविता स्वयम् ॥ १.०४॥
सूर्यसिद्धान्तः/Chapter 01
विदितस्ते मया भावस्तोषितस्तपसा ह्यहम्
दद्यां कालाश्रयं ज्ञानं ग्रहाणां चरितं महत् ॥ १.०५॥
सूर्यसिद्धान्तः/Chapter 01
न मे तेजःसहः कश्चिदाख्यातुं नास्ति मे क्षणः ।
मदंशः पुरुषोऽयं ते निःशेषं कथयिष्यति ॥ १.०६॥
सूर्यसिद्धान्तः/Chapter 01
इत्युक्तवान्तर्दधे देवः समादिश्यांशमात्मनः ।
स पुमान् मयमाहेदं प्रणतं प्राञ्जलिस्थितम् ॥ १.०७॥
सूर्यसिद्धान्तः/Chapter 01
शृणुष्वैकमनाः पूर्वं यदुक्तं ज्ञानमुत्तमम् ।
युगे युगे महर्षीणां स्वयमेव विवस्वता ॥ १.०८ ॥
सूर्यसिद्धान्तः/Chapter 01
शास्त्रमाद्यं तदेवेदं यत् पूर्वं प्राह भास्करः ।
युगानां परिवर्तेन कालभेदोऽत्र केवलः ॥ १.०९ ॥
सूर्यसिद्धान्तः/Chapter 01
लोकानामन्तकृत् कालः कालोऽन्यः कलनात्मकः ।
स द्विधा स्थूलसूक्ष्मत्वान् मूर्तश्चामूर्त उच्यते ॥ १.१०॥
सूर्यसिद्धान्तः/Chapter 01
प्राणादिः कथितो मूर्तस्त्रुट्याद्योऽमूर्तसंज्ञकः ।
षड्भिः प्राणैर्विनाडी स्यात् तत्षष्ट्या नाडिका स्मृता ॥ १.११॥
सूर्यसिद्धान्तः/Chapter 01
नाडीषष्ट्या तु नाक्षत्रमहोरात्रं प्रकीर्तितम् ।
तत्त्रिंशता भवेन् मासः सावनोऽर्कोदयैस्तथा ॥ १.१२॥
सूर्यसिद्धान्तः/Chapter 01
ऐन्दवस्तिथिभिस्तद्वत् सङ्क्रान्त्या सौर उच्यते ।
मासैर्द्वादशभिर्वर्ष दिव्यं तदह उच्यते ॥ १.१३॥
सूर्यसिद्धान्तः/Chapter 01
सुरासुराणामन्योन्यमहोरात्रं विपर्ययात् ।
तत्षष्टिः षड्गुणा दिव्यं वर्षमासुरमेव च ॥ १.१४॥
सूर्यसिद्धान्तः/Chapter 01
तद्द्वादशसहस्राणि चतुर्युगमुदाहृतम् ।
सूर्याब्दसङ्ख्यया द्वित्रिसागरैरयुताहतैः ॥ १.१५॥
सूर्यसिद्धान्तः/Chapter 01
सन्ध्यासन्ध्यांशसहितं विज्ञेयं तच्चतुर्युगम् ।
कृतादीनां व्यवस्थेयं धर्मपादव्यवस्थया ॥ १.१६॥
सूर्यसिद्धान्तः/Chapter 01
युगस्य दशमो भागश्चतुस्त्रिद्व्येकसङ्गुणः ।
क्रमात् कृतयुगादीनां षष्ठांशः सन्ध्ययोः स्वकः ॥ १.१७॥
सूर्यसिद्धान्तः/Chapter 01
युगानां सप्ततिः सैका मन्वन्तरमिहोच्यते ।
कृताब्दसङ्ख्यास्तस्यान्ते सन्धिः प्रोक्तो जलस्रवः ॥ १.१८ ॥
सूर्यसिद्धान्तः/Chapter 01
ससंधयस्ते मनवः कल्पे ज्ञेयास्वस्तुर्दश ।
कृतप्रमाणः कल्पादौ सन्धिः पञ्चदशः स्मृतः ॥ १.१९ ॥
सूर्यसिद्धान्तः/Chapter 01
इत्थं युगसहस्रेण भूतसंहारकारकः ।
कल्पो ब्राह्ममहः प्रोक्तं शर्वरी तस्य तावती ॥ १.२०॥
सूर्यसिद्धान्तः/Chapter 01
परमायुः शतं तस्य तयाहोरात्रसङ्ख्यया ।
आयुषोऽर्धमितं तस्य शेषकल्पोऽयमादिमः ॥ १.२१॥
सूर्यसिद्धान्तः/Chapter 01
कल्पादस्माच्च मनवः षड् व्यतीताः ससन्धयः ।
वैवस्वतस्य च मनोर्युगानां त्रिघनो गतः ॥ १.२२॥
सूर्यसिद्धान्तः/Chapter 01
अष्टाविंशाद्युगादस्माद्यातमेतत् कृतं युगम् ।
अतः कालं प्रसङ्ख्याय सङ्ख्यामेकत्र पिण्डयेत् ॥ १.२३॥
सूर्यसिद्धान्तः/Chapter 01
ग्रहर्षदेवदैत्यादि सृजतोऽस्य चराचरम् ।
कृताद्रिवेदा दिव्याब्दाः शतघ्ना वेधसो गताः ॥ १.२४॥
सूर्यसिद्धान्तः/Chapter 01
पश्वाद्बजन्तोऽतिजवान् नक्षत्रैः सततं ग्रहाः ।
जीयमानास्तु लम्बन्ते तुल्यमेव स्वमार्गगाः ॥ १.२५॥
सूर्यसिद्धान्तः/Chapter 01
प्राग्गतित्वमतस्तेषां भगणैः प्रत्यहं गतिः ।
परिणाहवशाद्भिन्ना तद्वशाद्भानि भुञ्जते ॥ १.२६॥
सूर्यसिद्धान्तः/Chapter 01
शीघ्रगस्तान्यथाल्पेन कालेन महताल्पगः ।
तेषां तु परिवर्तेन पौष्कान्ते भगणः स्मृतः ॥ १.२७॥
सूर्यसिद्धान्तः/Chapter 01
विकलानां कला षष्ट्या तत्षष्ट्या भाग उच्यते ।
तत्त्रिंशता भवेद्राशिर्भगणो द्वादशैव ते ॥ १.२८॥
सूर्यसिद्धान्तः/Chapter 01
युगे सूर्यज्ञशुक्राणां खचतुष्करदार्णवाः ।
कुजार्किगुरुशीघ्राणां भगणाः पूर्वयायिनाम् ॥ १.२९॥
सूर्यसिद्धान्तः/Chapter 01
इन्दो रसाग्नित्रित्रीषुसप्तभूधरमार्गणाः ।
दस्रत्र्यष्टरसाङ्काक्षिलोचनानि कुजस्य तु ॥ १.३०॥
सूर्यसिद्धान्तः/Chapter 01
बुधशीघ्रस्य शून्यर्तुखाद्रियङ्कनगेन्दवः ।
बृहस्पतेः खदस्राक्षिवेदषड्वह्नयस्तथा ॥ १.३१॥
सूर्यसिद्धान्तः/Chapter 01
सितशीघ्रस्य षट्सप्तत्रियमाश्विखभूधराः ।
शनेर्भुजङ्गषट्पञ्चरसवेदनिशाकराः ॥ १.३२॥
सूर्यसिद्धान्तः/Chapter 01
चन्द्रोच्चस्याग्निशून्याश्विवसुसर्पार्णवा युगे ।
वामं पातस्य वस्वग्नियमाश्विशिखिदस्रकाः ॥ १.३३॥
सूर्यसिद्धान्तः/Chapter 01
भानामष्टाक्षिवस्वद्रितिद्विद्वाष्टशरेन्दवः ।
भोदया भगणैः स्वैः स्वैरूनाः स्वस्वोदया युगे ॥ १.३४॥
सूर्यसिद्धान्तः/Chapter 01
भवन्ति शशिनो मासाः सूर्येन्दुभगणान्तरम् ।
रविमासोनितास्ते तु शेषाः स्युरधिमासकाः ॥ १.३५ ॥
सूर्यसिद्धान्तः/Chapter 01
सावहाहानि चान्द्रेभ्यो द्युभ्यः प्रोज्झ्य तिथिक्षयाः ।
उदयादुदयं भानोर्भूमिसवनवासरः ॥ १.३६ ॥
सूर्यसिद्धान्तः/Chapter 01
वसुद्वात्रिद्रापाङ्कसत्ताद्रितिथयो युगे ।
चान्द्राः खाष्टखखव्योमखाग्निखर्तुनिशाकराः ॥ १.३७ ॥
सूर्यसिद्धान्तः/Chapter 01
तिथिक्षया यमार्थाश्विद्वष्टव्योमशराश्विनः ॥ १.३८ ॥
सूर्यसिद्धान्तः/Chapter 01
षड्वह्निहुताशाङ्कतिथयश्चाधिमासकाः ।
खचतुष्कसमुद्राष्टकुपञ्च रविमासकाः ।
भवन्ति भोदया भानुभगणैरूनिताः क्वहाः ॥१.३९॥
सूर्यसिद्धान्तः/Chapter 01
एते सहस्रगुणिताः कल्पे स्युर्भगणादयः ॥ १.४०॥
सूर्यसिद्धान्तः/Chapter 01
अधिमासोनरात्र्यार्धचान्द्रसावनवासराः ।
प्राग्गतेः सूर्यमन्दस्य कल्पे सप्ताष्टवह्नयः ।
कौजस्य वेदखयमा बौधस्याष्टर्तुवह्नयः ॥ १.४१॥
सूर्यसिद्धान्तः/Chapter 01
खखरन्ध्राणि जैवस्य शौक्रस्यार्थगुणेषवः ।
गोऽग्नयः शनिमन्दस्य पातानामथ वामतः ॥ ३९) १.४२॥
सूर्यसिद्धान्तः/Chapter 01
मनुदस्रास्तु कौजस्य बौधस्याष्टाष्टसागराः ।
कृताद्रिचन्द्रा जैवस्य त्रिखाङ्काश्च तथा भृगोस् ॥ १.४३॥
सूर्यसिद्धान्तः/Chapter 01
शनिपातस्य भगणाः कल्पे यमरसर्तवः ।
भगणाः पूर्वमेवात्र प्रोक्ताश्चन्द्रोच्चपातयोः ॥१.४४॥
सूर्यसिद्धान्तः/Chapter 01
षण्मनूनां तु सम्पीढ्य कालं तत्सन्धिभिः सह ।
कल्पादिसन्धिना सार्धं वैवस्वतमनोस्तथा ॥ १.४५ ॥
सूर्यसिद्धान्तः/Chapter 01
युगानां त्रिघनं यातं तथा कृतयुगं त्विदम् ।
प्रोज्झ्य सृष्टेस्ततः कालं पूर्वोक्तं दिव्यसङ्ख्यया ॥ १.४६॥
सूर्यसिद्धान्तः/Chapter 01
सूर्याब्दसङ्ख्यया ज्ञेयाः कृतस्यान्ते गता अमी ।
खचतुष्कयमाद्र्यग्निशररन्ध्रीनशाकराः ॥ १.४७ ॥
सूर्यसिद्धान्तः/Chapter 01
अत ऊर्ध्वममी युक्ता गतकालाब्दसङ्ख्यया ।
मासीकृता युता मासैर्मधुशुक्लादिभिर्गतैः ॥ १.४८ ॥
सूर्यसिद्धान्तः/Chapter 01
पृथक्ष्थास्तेऽधिमासघ्नाः सूर्यमासविभाजिताः ।
लब्धाधिमासकैर्युक्ता दिनीकृत्य दिनान्विताः ॥१.४९॥
सूर्यसिद्धान्तः/Chapter 01
द्विष्ठास्तिथिक्षयाभ्यस्ताश्चान्द्रवासरभाजिताः ।
लब्धोनरात्रिराहिता लङ्कायामार्धरात्रिकः ॥ १.५०॥
सूर्यसिद्धान्तः/Chapter 01
सावनो द्युगणः सूर्याद्दिनमासाब्दपास्ततः ।
सप्तभिः क्षयितः शेषः सूर्याद्यो वासरेश्वरः ॥ १.५१॥
सूर्यसिद्धान्तः/Chapter 01
मासाब्ददिनसङ्ख्याप्तं द्वित्रिघ्नं रूपसंयुतम् ।
सप्तोद्भूतावशेषौ तु विज्ञेयौ मासवर्षौ ॥१.५२॥
सूर्यसिद्धान्तः/Chapter 01
यथा स्वभगनाभ्यस्तो दिनराशिः कुवासरैः ।
विभाजितो मध्यगत्या भगणादिग्रहो भवेत् ॥ १.५३॥
सूर्यसिद्धान्तः/Chapter 01
एवं स्वशीघ्रमन्दोच्चा ये प्रोक्ताः पूर्वयायिनः ।
विलोमगतयः पातास्तद्वच्चक्राद्विशोधिताः ॥ १.५४॥
सूर्यसिद्धान्तः/Chapter 01
द्वादशन्ना गुरोर्याता भगणा वर्तमानकैः ।
राशिभिः सहिताः शुद्धाः षष्ट्या स्युर्विजयादयः ॥१.५५॥
सूर्यसिद्धान्तः/Chapter 01
विस्तरेणैतदुदितं संक्षेपाद्यावहारिकम् ।
मध्यमानयनं कार्यं ग्रहाणामिष्टतो युगात् ॥ १.५६॥
सूर्यसिद्धान्तः/Chapter 01
अस्मिन् कृतयुगस्यान्ते सर्वे मध्यगता ग्रहाः ।
विना तु पातमन्दोच्चान् मेषादौ तुल्यतामिताः ॥१.५७॥
सूर्यसिद्धान्तः/Chapter 01
मकरादौ शशाङ्कोच्चं तत्पातस्तु तुलादिगः ।
निरंशत्वं गताश्वान्ये नोक्तास्ते मन्दचारिणः ॥ १.५८॥
सूर्यसिद्धान्तः/Chapter 01
योजनानि शतान्यष्टौ भूकर्णो द्विगुणानि तु ।
तद्वर्गतो दशगुणात् पदं भूपरिधिर्भवेत् ॥ १.५९॥
सूर्यसिद्धान्तः/Chapter 01
लम्बज्याघ्नस्त्रिजीवाप्तः स्फुटो भूपरिधिः स्वकः ।
तेन देशान्तराभ्यस्ता ग्रहभुक्तिर्विभाजिता ॥ १.६०॥
सूर्यसिद्धान्तः/Chapter 01
कलादि तत् फलं प्राच्यां ग्रहेभ्यः परिशोधयेत् ।
रेखाप्रतीचीसंस्थाने प्रक्षिपेत् स्युः स्वदेशजा ॥१.६१॥
सूर्यसिद्धान्तः/Chapter 01
राक्षसालयदेवौकःशैलयोर्मध्यसूत्रगाः ।
रोहीतकमवन्ती च यथा सन्निहितं सरः ॥ १.६२॥
सूर्यसिद्धान्तः/Chapter 01
अतीत्योन्मीलनादिन्दोः पश्चात् तद्गणितागतात् ।
यदा भवेत् तदा प्राच्यां स्वस्थानं मध्यतो भवेत् ॥ १.६३॥
सूर्यसिद्धान्तः/Chapter 01
अप्राप्य च भवेत् पश्चादेवं वापि निमीलनात् ।
तयोरन्तरनाडीभिर्हन्याडूपरिधिं स्फुटम् ॥ १.६४॥
सूर्यसिद्धान्तः/Chapter 01
षष्ट्या विभज्य लब्धैस्तु योजनैः प्रागथापरैः ।
स्वदेशः परिधौ ज्ञेयः कुर्याद्दिशान्तरं हि तैः ॥ १.६५॥
सूर्यसिद्धान्तः/Chapter 01
वारप्रवृत्तिः प्राग्देशे क्षपार्धेऽभ्यधिके भवेत् ।
तद्देशान्तरनाडीभिः पश्चादूने विनिर्दिशेत् ॥ १.६६॥
सूर्यसिद्धान्तः/Chapter 01
इष्टनाडीगुणा भुक्तिः षष्ट्या भक्ता कलादिकम् ।
गते शोध्यं युतं गम्ये कृत्वा तात्कालिको भवेत् ॥ १.६७॥
सूर्यसिद्धान्तः/Chapter 01
भचक्रलिप्ताशीत्यंशं परमं दक्षिणोत्तरम् ।
विक्षिप्यते स्वपातेन स्वक्रान्त्यन्तादनुष्णगुः ॥ १.६८॥
सूर्यसिद्धान्तः/Chapter 01
तन्नवांशं द्विगुणितं जीवस्त्रिगुणितं कुजः ।
बुधशुक्रार्कजाः पातैर्विक्षिष्यन्ते चतुर्गुणम् ॥ १.६९॥
सूर्यसिद्धान्तः/Chapter 01
एवं त्रिघनरन्ध्रार्करसार्का दशाहताः ।
चन्द्रादीनां क्रमादुक्ता मध्यविकेषेपलितिकाः ॥ १.७०॥