सूर्यसिद्धान्तः-Chapter 02

Site Homepage Book Frontmatter Book Resources

स्पष्टाधिकारः

सूर्यसिद्धान्तः/Chapter 02

अदृश्यरूपाः कालस्य मूर्तयो भगणाश्रिताः ।
शीघ्रमन्दोच्चपाताख्या ग्रहाणां गतिहेतवः ॥ २.०१॥

सूर्यसिद्धान्तः/Chapter 02

तद्वातरश्मिभिर्बद्धास्तस्सव्येतरपाणिभि:
प्राक्पञ्चादपकृष्यन्ते यथासन्नं स्वदिङ्मुखम् ॥ २.०२॥

सूर्यसिद्धान्तः/Chapter 02

प्रवहाख्यो मरुत् तांस्तु स्वोच्चाभिमुखमीरयेत् ।
पूर्वापराकृष्टास्ते गतिं यान्ति पृथग्विधाः ॥ २.०३॥

सूर्यसिद्धान्तः/Chapter 02

ग्रहात् प्राग्भगणार्धस्थः प्राङ्मुखं कर्षति ग्रहम् ।
उच्चसंज्ञोऽपरार्धस्थस्तद्वत् पश्चान्मुखं ग्रहम् ॥ २.०४॥

सूर्यसिद्धान्तः/Chapter 02

स्वोच्चापकृष्टा भगणैः प्राङ्मुखं यान्ति यद्रग्रहाः
तत् तेषु धनमित्युक्तं ऋणं पश्चान्मुखेषु च ॥ २.०५॥

सूर्यसिद्धान्तः/Chapter 02

दक्षिणोत्तरतोऽप्येवं पातो राहुः स्वरंहसा ।
विक्षिपत्येष विक्षेपं चन्द्रादीनामपक्रमात् ॥ २.०६॥

सूर्यसिद्धान्तः/Chapter 02

उत्तराभिमुखं पातो विक्षिपत्यपरार्धगः ।
ग्रहं प्राग्भगणार्थस्थो याम्यायामपकर्षति ॥ २.०७॥

सूर्यसिद्धान्तः/Chapter 02

बुधभार्गवयोः शीघ्रात् तद्वत् पातो यदा स्थितः
तच्छीघ्राकर्षणात् तौ तु विक्षिप्येते यथोक्तवत् ॥ २.०८॥

सूर्यसिद्धान्तः/Chapter 02

महत्वान् मण्डलस्यार्कः स्वल्पमेवापकृष्यते ।
मण्डलाल्पतया चन्द्रस्ततो बह्वपकृष्यते । २.०९ ॥

सूर्यसिद्धान्तः/Chapter 02

भौमादयोऽल्पमूर्तित्वाच्छीघ्रमन्दोच्चसंज्ञकैः
दैवतैरपकृष्यन्ते सुदूरमतिवेगिताः ॥ २.१०॥

सूर्यसिद्धान्तः/Chapter 02

अतो धनर्णं सुमहत् तेषां गतिवशाद्भवेत् ।
आकृष्यमाणास्तैरेवं व्योम्रि यान्त्यनिलाहताः ॥ २.११॥

सूर्यसिद्धान्तः/Chapter 02

वक्रातिवक्रा विकला मन्दा मन्दतरा समा
तथा शीघ्रतरा शीघ्रा ग्रहाणामष्टधा गतिः ॥ २.१२॥

सूर्यसिद्धान्तः/Chapter 02

तत्रातिशीघ्रा शीघ्राख्या मन्दा मन्दतरा समा ।
ऋज्वीति पञ्चधा ज्ञेया या वक्रा सातिवक्रगा ॥ २.१३॥

सूर्यसिद्धान्तः/Chapter 02

तत्तद्गतिवशान् नित्यं यथा दूक्तुल्यतां ग्रहाः ।
प्रयान्ति तत् प्रवक्ष्यामि स्फुटीकरणमादरात् ॥ २.१४॥

सूर्यसिद्धान्तः/Chapter 02

राशिलिप्ताष्टमो भागः प्रथमं ज्यार्धमुच्यते ।
तत् तद्विभक्तलब्धनिमिश्रितं तद्द्वितीयकम् ॥ २.१५॥

सूर्यसिद्धान्तः/Chapter 02

आद्येनैव क्रमात् पिण्डान् भक्त्वा लब्धोनसंयुताः ।
खण्डकाः स्युश्चतुर्विंशज्यार्धपिण्डाः क्रमादमी ॥ २.१६॥

सूर्यसिद्धान्तः/Chapter 02

तत्त्वाश्विनोऽङ्काब्धिकृता रूपभूमिधरर्तवः ।
खाङ्काष्टौ पञ्चशून्येशा बाणरूपगुणेन्दवः ॥ २.१७॥

सूर्यसिद्धान्तः/Chapter 02

शून्यलोचनपञ्चैकाश्छिद्ररूपमुनीन्दवः ।
वियच्चन्द्रातिधृतयो गुणरन्ध्राम्बराश्विनः ॥ २.१८ ॥

सूर्यसिद्धान्तः/Chapter 02

मुनिषड्यमनेत्राणि चन्द्राग्निकृतदस्रकाः ।
पञ्चाष्टविषयाक्षीणि कुञ्जराश्विनगाश्विनः ॥ २.१९ ॥

सूर्यसिद्धान्तः/Chapter 02

रन्ध्रपञ्चाष्टकयमा वस्वद्रयङ्कायमास्तथा ।
कृताष्टशून्यज्वलना नगाद्रिशशिवह्नयः ॥ २.२०॥

सूर्यसिद्धान्तः/Chapter 02

षट्पञ्चलोचनगुणाश्चन्द्रनेत्राग्निवह्नयः ।
यमाद्रिवह्निज्वलना रन्ध्रशून्यार्नवाग्नयः ॥ २.२१॥

सूर्यसिद्धान्तः/Chapter 02

रूपाग्निसागरगुणा वस्वग्निकृतवह्नयः ।
प्रोज्झ्योत्क्रमेण व्यासार्धादुत्क्रमज्यार्धपिण्डिकाः ॥ २.२२॥

सूर्यसिद्धान्तः/Chapter 02

मुनयो रन्ध्रयमला रसषड्दस्राः सागरार्थहुताशनाः ॥ २.२३॥

सूर्यसिद्धान्तः/Chapter 02

खर्तुवेदा नवाद्रयर्था दिङ्गागास्त्र्यर्थकुञ्जराः ।
नगाम्बरवियच्चन्द्रा रूपभूधरशङ्कराः ॥ २.२४॥

सूर्यसिद्धान्तः/Chapter 02

शरार्णवहुताशैका भुजङ्गाक्षिशरेन्दवः ।
नवरूपमहीभ्रैका गजैकाङ्कनिशाकराः ॥ २.२५॥

सूर्यसिद्धान्तः/Chapter 02

गुणाश्विरूपनेत्राणि पावकाग्निगुणाश्विनः ।
वस्वर्णवार्थयमलास्तुरङ्गतुनगाश्विनः ॥ २.२६॥

सूर्यसिद्धान्तः/Chapter 02

नवाष्टनवनेत्राणि पावकैकयमाग्नयः ।
गजाग्निसागरगुणा उत्क्रमज्यार्धपिण्डकाः ॥ २.२७॥

सूर्यसिद्धान्तः/Chapter 02

परमापक्रमज्या तु सप्तरन्ध्रगुणेन्दवः ।
तद्गुणा ज्या त्रिजीवाप्ता तच्चापं क्रान्तिरुच्यते ॥ २.२८॥

सूर्यसिद्धान्तः/Chapter 02

ग्रहं संशोध्य मन्दोच्चात् तथा शीघ्राद्विशोध्य च ।
शेषं केन्द्रपदं तस्माद्भुजज्या कोटिरेव च ॥ २.२९॥

सूर्यसिद्धान्तः/Chapter 02

गताद्भुजज्या विषमे गम्यात् कोटिः पदे भवेत् ।
युग्मे तु गम्याद्बाहुज्या कोटिज्या तु गताद्भवेत् ॥ २.३०॥

सूर्यसिद्धान्तः/Chapter 02

लिप्तास्तत्त्वयमैर्भक्ता लब्धं ज्यापिण्डिकं गताम् ।
गतगम्यान्तराभ्यस्तं विभजेत् तत्त्वलोचनैः ॥ २.३१॥

सूर्यसिद्धान्तः/Chapter 02

तदवाप्तफलं योज्यं ज्यापिण्डे गतसंज्ञके ।
स्यात् क्रमज्याविधिरयं उत्क्रमज्यास्वपि स्मृतः ॥ २.३२॥

सूर्यसिद्धान्तः/Chapter 02

ज्यां प्रोज्झ्य शेषं तत्त्वाश्विहतं तद्विवरोद्धृतम् ।
सङ्ख्यातत्त्वाश्विसंवर्गे संयोज्य धनुरुच्यते ॥ २.३३॥

सूर्यसिद्धान्तः/Chapter 02

रवेर्मन्दपरिध्यंशा मनवः शीतगो रदाः
युग्मान्ते विषमान्ते तु नखलिप्तोनितास्तयोः ॥ २.३४॥

सूर्यसिद्धान्तः/Chapter 02

युग्मान्तेऽर्थाद्रयः खाग्निसुराः सूर्या नवार्णवाः ।
ओजे द्वगा वसुयमा रदा रुद्रा गजाब्दयः ॥ २.३५॥

सूर्यसिद्धान्तः/Chapter 02

कुजादीनां अतः शीघ्रा युग्मान्तेऽर्थाग्निदस्रकाः ।
गुणाग्निचन्द्राः खनगा द्विरसाक्षीणि गोयअग्नयः ॥ २.३६॥

सूर्यसिद्धान्तः/Chapter 02

ओजान्ते द्वित्रियमला द्विविध्वे यमपर्वताः ।
खर्तुदस्रा वियद्देदाः शीघ्रकर्मणि कीर्तिताः ॥ २.३७॥

सूर्यसिद्धान्तः/Chapter 02

ओजयुग्मान्तरगुणा भुजज्या त्रिज्ययोद्धृता ।
युग्मे वृत्ते धनर्ण स्यादोजादूनाधिके स्फुटम् ॥ २.३८॥

सूर्यसिद्धान्तः/Chapter 02

तद्गुणे भुजकोटिज्ये भगणांशविभाजिते ।
तद्भुजज्याफलधनुर्मान्दं लिप्तादिकं फलम् ॥ २.३९ ॥

सूर्यसिद्धान्तः/Chapter 02

शैघ्र्यं कोटिफलं केन्द्रे मकरादौ धनं स्मृतम् ।
संशोध्यं तु त्रिजीवायां कर्त्यादौ कोटिजं फलम् ॥ २.४०॥

सूर्यसिद्धान्तः/Chapter 02

तद्बाहुफलवर्गैक्यान् मूलं कर्णश्चलाभिधः ।
त्रिज्याभ्यस्तं भुजफलं चलकर्णविभाजितम् ॥ २.४१॥

सूर्यसिद्धान्तः/Chapter 02

लब्धस्य चापं लिप्तादिफलं शैघ्रयमिदं स्मृतम् ।
एतदाद्ये कुजादीनां चतुर्थे चैव कर्मणि ॥ २.४२ ॥

सूर्यसिद्धान्तः/Chapter 02

मान्दं कर्मैकमकैन्दोभौमादीनामथोच्यते ।
शैघ्र्यं मान्दं पुनर्मान्दं शैघ्र्यं चत्वार्यनुक्रमात् ॥ २.४३॥

सूर्यसिद्धान्तः/Chapter 02

मध्ये शीघ्रफलस्यार्धं मान्दमर्धफलं तथा ।
मध्यग्रहे मन्दफलं सकलं शैघ्र्यमेव च ॥ २.४४॥

सूर्यसिद्धान्तः/Chapter 02

अजादिकेन्द्रे सर्वेषां शैघ्र्ये मान्दे च कर्मणि ।
धनं ग्रहाणां लिप्तादि तुलादावभ्रमेव च ॥ २.४५॥

सूर्यसिद्धान्तः/Chapter 02

अर्कबाहुफलाभ्यस्ता ग्रहभुक्तिर्विभाजिता ।
भचक्रकलिकाभिस्तु लिप्ताः कर्या ग्रहेऽर्कवत् ॥ २.४६ ॥

सूर्यसिद्धान्तः/Chapter 02

स्वमन्दभुक्तिसंशुद्धा मध्यभुक्तिर्निशापतेः ।
दोज्यान्तरादिकं कृत्वा भुक्तावृणधनं भवेत् ॥ २.४७ ॥

सूर्यसिद्धान्तः/Chapter 02

ग्रहभुक्तेः फलं कार्यं ग्रहवन् मन्दकर्मणि ।
दोज्यान्तरगुणा भुक्तिस्तत्त्वनेत्रोद्धृता पुनः ॥ २.४८ ॥

सूर्यसिद्धान्तः/Chapter 02

स्वमन्दपरिधिक्षुण्णा भगणांशोद्धृता कला:
कर्क्यादौ तु धनं तत्र मकरादावृणं स्मृतम् ॥ २.४९ ॥

सूर्यसिद्धान्तः/Chapter 02

मन्दस्फुटीकृतां भुक्तिं प्रोज्झ्य शीघ्रोच्चभुक्तितः ।
तच्छेषं विवरेणाथ हन्यात् त्रिज्यान्त्यकर्णयोः ॥ २.५०॥

सूर्यसिद्धान्तः/Chapter 02

चलकर्णहृतं भुक्तौ कर्णे त्रिज्याधिके धनम् ।
ऋणमूनेऽधिके प्रोज्झ्य शेषं वक्रगतिर्भवेत् ॥ २.५१ ॥

सूर्यसिद्धान्तः/Chapter 02

दूरस्थितः स्वशीघ्रोच्चाद्ग्रहः शिथिलरश्मिभिः ।
सव्येतराकृष्ततनुर्भवेत् वक्रगतिस्तदा ॥ २.५२ ॥

सूर्यसिद्धान्तः/Chapter 02

कृतर्तुचन्द्रैर्वेदेन्द्रैः शून्यत्र्येकैर्गुणाष्टभिः ।
शररुद्रैश्चतुर्थेषु केन्द्रांशैर्भूसुतादयः ॥ २.५३॥

सूर्यसिद्धान्तः/Chapter 02

भवन्ति वक्रिणस्तैस्तु स्वैः स्वैश्चक्राद्विशोधितैः ।
अवशिष्टांशतुल्यैः स्वैः केन्द्रैरुज्झन्ति वक्रताम् ॥ २.५४॥

सूर्यसिद्धान्तः/Chapter 02

महत्त्वाच्छीघ्रपरिधेः सप्तमे भृगुभूसुतौ ।
अष्टमे जीवशशैजौ नवमे तु शनैश्वरः ॥ २.५५॥

सूर्यसिद्धान्तः/Chapter 02

कुजार्किगुरुपातानां ग्रहवच्छीघ्रजं फलम् ।
वामं तृतीयकं मान्दं बुधभार्गवयोः फलम् ॥ २.५६॥

सूर्यसिद्धान्तः/Chapter 02

स्वपातोनाद्ग्रहाज्जीवा शीघ्राङ्गृगुजसौम्ययोः ।
विक्षेपघ्न्यन्त्यकर्णाप्ता विक्षेपस्त्रिज्यया विधोः ॥ २.५७॥