सूर्यसिद्धान्तः/Chapter 03
शिलातलेऽम्बुसंशुद्धे वज्रलेपेऽपि वा समे ।
तत्र शङ्क्वङ्गुलैरिष्टैः समं मण्डलमालिखेत् ॥ ३.०१॥
सूर्यसिद्धान्तः/Chapter 03
तन्मध्ये स्थापयेच्छङ्कुं कल्पनाद्वादशांगुलम् ।
तच्छायाग्रं स्पृशेद्यत्र वृत्ते पूर्वापराधयोः ॥ ३.०२॥
सूर्यसिद्धान्तः/Chapter 03
तत्र बिन्दू विधायोभौ वृत्ते पूर्वापराभिधौ ।
तन्मध्ये तिमिना रेखा कर्तव्या दक्षिणोत्तरा ॥ ३.०३॥
सूर्यसिद्धान्तः/Chapter 03
याम्योत्तरदिशोर्मध्ये तिमिना पूर्वपश्चिमा ।
दिङ्घध्यमत्स्यैः संसाध्या विदिशस्तद्वदेव हि ॥ ३.०४॥
सूर्यसिद्धान्तः/Chapter 03
चतुरस्रं बहिः कुर्यात् सूत्रैर्मध्याद्विनिर्गतैः ।
भुजसूत्राङ्गुलैस्तत्र दत्तैरिष्टप्रभा स्मृता ॥ ३.०५ ॥
सूर्यसिद्धान्तः/Chapter 03
प्राक्पश्चिमाश्रिता रेखा प्रोच्यते सममण्डले ।
उनण्डले च विषुवन्मण्डले परिकीर्त्यते ॥ ३.०६ ॥
सूर्यसिद्धान्तः/Chapter 03
रेखा प्राच्यपरा साध्या विषुवद्गाग्रगा तथा ।
इष्टच्छायाविषुवतोर्मध्यमग्राभिधीयते ॥ ३.०७॥
सूर्यसिद्धान्तः/Chapter 03
शङ्कुच्छायाकृतियुतेर्मूलं कर्णोऽस्य वर्गतः ।
प्रोज्झ्य शङ्क्रुकृतिं मूलं छाया शङ्क्रुर्विपर्ययात् ॥ ३.०८ ॥
सूर्यसिद्धान्तः/Chapter 03
त्रिंशत्कृत्यो युगे भानां चक्रं प्राक्परिलम्बते ।
तद्गुणाड्डदिनैर्भक्ताद्युगणाद्यदवाप्यते ॥ ३.०९ ॥
सूर्यसिद्धान्तः/Chapter 03
तद्दोस्त्रिघ्ना दशाप्तांशा विज्ञेया अयनाभिधाः ।
तत्संस्कृताग्रहात् क्रान्तिच्छायाचरदलादिकम् ॥ ३.१०॥
सूर्यसिद्धान्तः/Chapter 03
स्फुटं दृक्तुल्यतां गच्छेदयने विषुवद्वये ।
प्राक्वक्रं चलितं हीने छायाकात् करणागते ॥ ३.११॥
सूर्यसिद्धान्तः/Chapter 03
अन्तरांशैरथावृत्य पश्चाच्छेषैस्तथाधिके ।
एवं विषुवती छाया स्वदेशे या दिनार्धजा ॥ ३.१२॥
सूर्यसिद्धान्तः/Chapter 03
दक्षिणोत्तररेखायां सा तत्र विषुवत्प्रभा ॥
शङ्कुच्छायाहते त्रिज्ये विषुवत्कर्णभाजिते । ३.१३॥
सूर्यसिद्धान्तः/Chapter 03
लम्बाक्षज्ये तयोश्चापे लम्बाक्षौ दक्षिणौ सदा ।
मध्यच्छाया भुजस्तेन गुणिता त्रिभमौर्विका ॥ ३.१४॥
सूर्यसिद्धान्तः/Chapter 03
स्वकर्णाप्ता धनुर्लिप्ता नतास्ता दक्षिणे भुजे ।
उत्तराञ्चोत्तरे याम्यास्ताः सूर्यक्रान्तिलिप्तिकाः ॥ ३.१५॥
सूर्यसिद्धान्तः/Chapter 03
दिग्भेदे मिश्रिताः साम्ये विश्लिष्टाश्चाक्षलिप्तिकाः ।
ताभ्योऽक्षज्या च तद्वर्ग प्रोज्झ्य त्रिज्याकृतेः पदम् ॥ ३.१६॥
सूर्यसिद्धान्तः/Chapter 03
लम्बज्यार्कगुणाक्षज्या विषुवद्भाथ लम्बया ।
स्वाक्षार्कनतभागानां दिक्षाम्येऽन्तरमन्यथा ॥ ३.१७॥
सूर्यसिद्धान्तः/Chapter 03
दिग्भेदेऽपक्रमः शेषस्तस्य ज्या त्रिज्यया हता ।
परमापक्रमज्याप्ता चापं मेषादिगो रविः ॥ ३.१८॥
सूर्यसिद्धान्तः/Chapter 03
कर्क्यादौ प्रोज्झ्य चक्रार्धात् तुलादौ भार्धसंयुतात् ।
मृगादौ प्रोज्झ्य भगणान् मध्याह्नेऽर्कः स्फुटो भवेत् ॥ ३.१९॥
सूर्यसिद्धान्तः/Chapter 03
तन्मान्डमसकृद्वामं फलं मध्यो दिवाकरः ।
स्वाक्षार्कापक्रमयुतिर्दिक्षाम्येऽन्तरमन्यथा ॥ ३.२०॥
सूर्यसिद्धान्तः/Chapter 03
शेषं नतांशाः सूर्यस्य तद्बाहुज्या च कोटिज्या ।
शङ्कुमानाङ्गुलभ्यस्ते भुजत्रिज्ये यथाक्रमम् ॥ ३.२१॥
सूर्यसिद्धान्तः/Chapter 03
कोटिज्यया विभज्याप्ते छायाकर्णावहर्दले ।
क्रान्तिज्या विषुवत्कर्णगुणाप्ता शङ्कुजीवया ॥ ३.२२॥
सूर्यसिद्धान्तः/Chapter 03
अर्काग्रा स्वेष्टकर्णघ्नी मध्यकर्णोद्धृता स्वका ।
विषुवद्भायुतार्काग्रा याम्ये स्यादुत्तरो भुजः ॥ ३.२३॥
सूर्यसिद्धान्तः/Chapter 03
विषुवत्यां विशोध्योदग्गोले स्याद्वाहुरुत्तरः ।
विपर्ययाड्डजो याम्यो भवेत् प्राच्यपरान्तरे ॥ ३.२४॥
सूर्यसिद्धान्तः/Chapter 03
माध्याह्निको भुजो नित्यं छाया माध्याहिकी स्मृता ।
लम्बाक्षजीवे विषुवच्छायाद्वादशसङ्गुणे ॥ ३.२५॥
सूर्यसिद्धान्तः/Chapter 03
क्रान्तिज्याप्ते तु तौ कर्णौ सममण्डलगे रवौ ।
सौम्याक्षोना यदा कान्तिः स्यात् तदा द्युदलश्रवः ॥ ३.२६॥
सूर्यसिद्धान्तः/Chapter 03
विषुवच्छाययाभ्यस्तः कर्णो मध्याग्रयोद्धृतः ।
स्वक्रान्तिज्या त्रिजीवाघ्नी लम्बज्याप्ताग्रमौर्विका ॥ ३.२७॥
सूर्यसिद्धान्तः/Chapter 03
स्वेष्टकर्णहता भक्ता त्रिज्ययाग्राङ्गुलादिका ।
त्रिज्यावर्गार्धतोऽग्रज्यावर्गानाद्द्वादशाहतात् ॥ ३.२८॥
सूर्यसिद्धान्तः/Chapter 03
पुनर्द्वादशनिघ्नाच्च लभ्यते यत् फलं बुधैः ।
शङ्कुवर्गार्धसंयुक्तविषुवद्वर्गभाजितात् ॥ ३.२९॥
सूर्यसिद्धान्तः/Chapter 03
तदेव करणी नाम तां पृथक्स्थापयेद्बुधः ।
अर्कघ्नी विषुवच्छायाग्रज्यया गुणिता तथा ॥ ३.३०॥
सूर्यसिद्धान्तः/Chapter 03
भक्ता फलाख्यं तद्वर्गसंयुक्तकरणीपदम् ।
फलेन हीनससंयुक्तं दक्षिणोत्तरगोलयोः ॥ ३.३१॥
सूर्यसिद्धान्तः/Chapter 03
याम्ययोर्विदिशोः शङ्करेवं याम्योत्तरे रखौ ।
परिभ्रमति शङ्कोस्तु शङ्कुरुत्तरयोस्तु सः ॥ ३.३२॥
सूर्यसिद्धान्तः/Chapter 03
तत्त्रिज्यावर्गविश्लेषान् मूलं दृग्यभिधीयते ।
स्वशङ्कुना विभज्याप्ते दृक्त्रिज्ये द्वादशाहते ॥ ३.३३॥
सूर्यसिद्धान्तः/Chapter 03
छायाकर्णौ तु कोणेषु यथास्वं देशकालयोः ।
त्रिज्योदक्चरजायुक्ता याम्यायां तद्विवर्जिता ॥ ३.३४॥
सूर्यसिद्धान्तः/Chapter 03
अन्त्या नतोत्क्रमज्योना स्वहोरात्रार्धसङ्गुणा ।
त्रिज्याभक्ता भवेच्छेदो लम्बज्याघ्नोऽथ भाजितः ॥ ३.३५॥
सूर्यसिद्धान्तः/Chapter 03
त्रिभज्यया भवेच्छङ्कुस्तद्वर्ग परिशोधयेत् ।
त्रिज्यावर्गात् पदं दृग्ज्या छायाकर्णौ तु पूर्ववत् ॥ ३.३६॥
सूर्यसिद्धान्तः/Chapter 03
अभीष्टच्छाययाभ्यस्ता त्रिज्या तत्कर्णभाजिता ।
दृग्ज्या तद्वर्गसंशुद्धात् त्रिज्यावर्गाच्च यत् पदम् । ३.३७॥
सूर्यसिद्धान्तः/Chapter 03
शङ्कुः स त्रिभजीवाघ्नः स्वलम्बज्याविभाजितः ।
छेदः स त्रिज्ययाभ्यस्तः स्वाहोरात्रार्धभाजितः ॥ ३.३८॥
सूर्यसिद्धान्तः/Chapter 03
उन्नतज्या तया हीना स्वान्त्या शेषस्य कार्मुकम् ।
उत्क्रमज्याभिरेवं स्युः प्राक्पश्चार्धनतासवः ॥ ३.३९ ॥
सूर्यसिद्धान्तः/Chapter 03
इष्टाग्राह्नी तु लम्बज्या स्वकर्णाङ्गुलभाजिता ।
क्रान्तिज्या सा त्रिजीवाघ्नी परमापक्रोद्धूता ॥ ३.४०॥
सूर्यसिद्धान्तः/Chapter 03
तच्चापं भादिकं क्षेत्रं पदैस्तत्र भवो रविः ।
इष्टेऽह्नि मध्ये प्राक्पश्चाद्धूते बाहुत्रयान्तरे ॥ ३.४१॥
सूर्यसिद्धान्तः/Chapter 03
मत्स्यद्वयान्तरयुतेस्त्रिस्पृक्षूत्रेण भाभ्रमः ।
त्रिभद्युकर्णार्धगुणाः स्वाहोरात्रार्धभाजिताः ॥ ३.४२॥
सूर्यसिद्धान्तः/Chapter 03
क्रमादेकद्वित्रिभज्यास्तच्चापानि पृथक्पृथक् ।
स्वाधोऽधः परिशोध्याथ मेषाल्लङ्कोदयासवः ॥ ३.४३॥
सूर्यसिद्धान्तः/Chapter 03
खागाष्टयोऽर्थगोऽगैकाः शरत्र्यङ्कहिमांशवः ।
स्वदेशचरखण्डोना भवन्तीष्टोदयासवः ॥ ३.४४॥
सूर्यसिद्धान्तः/Chapter 03
व्यस्ता व्यस्तैर्युताः स्वैः स्वैः कर्कटाद्यास्ततस्त्रयः ।
उत्क्रमेण षडेवैते भवन्तीष्टास्तुलादयः ॥ ३.४५॥