सूर्यसिद्धान्तः/Chapter 04
गतभोग्यासवः कार्या भास्करादिष्टकालिकात् ।
स्वोदयासुहता भुक्तभोग्या भक्ताः खवह्रिभिः ॥ ३.४६॥
सूर्यसिद्धान्तः/Chapter 04
अभीष्टघटिकासुभ्यो भोग्यासून् प्रविशोधयेत् ।
तद्वत् तदेष्यलग्नासून् एवं यातात् तथोत्क्रमात् ॥ ३.४७॥
सूर्यसिद्धान्तः/Chapter 04
शेषं चेत् त्रिंशताभ्यस्तमशुद्धेन विभाजितम् ।
भागैर्युक्तं च हीनं च तल्लग्नं क्षितिजे तदा ॥ ३.४८॥
सूर्यसिद्धान्तः/Chapter 04
प्राक्पश्चान् नतनाडीभिस्तस्माल्लङ्कोदयासुभिः ।
भानौ क्षयधने कृत्वा मध्यलग्नं तदा भवेत् ॥ ३.४९॥
सूर्यसिद्धान्तः/Chapter 04
भोग्यासून् ऊनकस्याथ भुक्तासून् अधिकस्य च ।
सम्पीड्यान्तरलग्नासून् एवं स्यात् कालसाधनम् ॥ ३.५०॥
सूर्यसिद्धान्तः/Chapter 04
सूर्यादूने निशाशेषे लग्नेऽर्कादधिके दिवा ।
भचक्रार्धयुताद्भानोरधिकेऽस्तमयात् परम् ॥ ३.५१॥
सूर्यसिद्धान्तः/Chapter 04
सार्थानि षट्सहस्राणि योजनानि विवस्वतः ।
विष्कम्भो मण्डलस्येदोः सहाशीत्या चतुश्शतम् ॥ ४.०१॥
सूर्यसिद्धान्तः/Chapter 04
स्फुटस्वभुक्तया गुणितौ मध्यभुक्तयोद्धृतौ स्फुटौ ।
रवेः स्वभगणाभ्यस्तः शशाङ्कभगणोद्धूतः ॥ ४.०२॥
सूर्यसिद्धान्तः/Chapter 04
शशाङ्कक्षागुणितो भाजितो वाऽर्ककक्षया ।
विष्कम्भश्चन्द्रकक्षायां तिथ्याप्ता मानलिप्तिका ॥ ४.०३॥
सूर्यसिद्धान्तः/Chapter 04
स्फुटेन्दुभुक्तिर्भूव्यासगुणिता मध्ययोद्धृता ।
लब्धं सूची महीव्यासस्फुटार्कश्रवणान्तरम् ॥ ४.०४॥
सूर्यसिद्धान्तः/Chapter 04
मध्येन्दुव्यासगुणितं मध्यार्कव्यासभाजितम् ।
विशोध्य लब्धं सूच्यां तु तमो लिप्तास्तु पूर्ववत् ॥ ४.०५॥
सूर्यसिद्धान्तः/Chapter 04
भानोर्भार्धे महीच्छाया तत्तुल्येऽर्कसमेऽपि ।
शशाङ्कपाते ग्रहणं कियद्गागाधिकोनके ॥ ४.०६॥
सूर्यसिद्धान्तः/Chapter 04
तुल्यौ राश्यादिभिः स्याताममावास्यान्तकालिकौ ।
सूर्येन्दू पौर्णमास्यन्ते भार्षे भागादिकौ समौ ॥ ४.०७॥
सूर्यसिद्धान्तः/Chapter 04
गतैष्यपर्वनाडीनां स्वफलेनोनसंयुतौ ।
समलिप्तौ भवेतां तौ पातस्तात्कालिकोऽन्यथा ॥ ४.०८ ॥
सूर्यसिद्धान्तः/Chapter 04
छादको भास्करस्येन्द्रधःस्थो घनवद्भवेत् ।
भूच्छायां प्राङ्मुखश्चन्द्रो विशत्यस्य भवेदसौ ॥ ४.०९॥
सूर्यसिद्धान्तः/Chapter 04
तात्कालिकेन्दुविक्षेपं छाद्यच्छादकमानयोः ।
योगार्धात् प्रोज्झ्य यच्छेषं तावच्छन्नं तदुच्यते ॥ ४.१०॥
सूर्यसिद्धान्तः/Chapter 04
यद्ग्राह्यमधिके तस्मिन् सकलं न्यूनमन्यथा ।
योगार्धादधिके न स्याद्विक्षेपे ग्राससम्भवः ॥ ४.११॥
सूर्यसिद्धान्तः/Chapter 04
ग्राह्यग्राहकसंयोगवियोगौ दलितौ पृथक् ।
विक्षेपवर्गहीनाभ्यां तद्वर्गाभ्यामुभे पदे ॥ ४.१२॥
सूर्यसिद्धान्तः/Chapter 04
षष्ट्या सङ्गुण्य सूर्येन्द्वोर्भुक्लयन्तरविभाजिते ।
स्यातां स्थितिविमर्दार्धे नाडिकादिफले तयोः ॥ ४.१३॥
सूर्यसिद्धान्तः/Chapter 04
स्थित्यर्थनाडिकाभ्यस्ता गतयः षष्ठिभाजिताः ।
लिप्तादि प्रग्रहे शोध्यं मोक्षे देयं पुनः पुनः ॥ ४.१४॥
सूर्यसिद्धान्तः/Chapter 04
तद्विक्षेपैः स्थितिदलं विमर्दार्धे तथाऽसकृत् ।
संसाध्यमन्यथा पाते तल्लिप्तादिफलं स्वकम् ॥ ४.१५॥
सूर्यसिद्धान्तः/Chapter 04
स्फुटतिथ्यवसाने तु मध्यग्रहणमादिशेत् ।
स्थित्यर्थनाडिकाहीने ग्रासो मोक्षस्तु संयुते ॥ ४.१६॥
सूर्यसिद्धान्तः/Chapter 04
तद्वदेव विमर्दार्धनाडिकाहीनसंयुते ।
निमीलनोन्मीलनाख्ये भवेतां सकलग्रहे ॥ ४.१७॥
सूर्यसिद्धान्तः/Chapter 04
इष्टनाडीविहीनेन स्थित्यर्थेनार्कचन्द्रयोः ।
भुक्त्यन्तरं समाहन्यात् षष्ट्याप्ताः कोटिलिपिकाः ॥ ४.१८॥
सूर्यसिद्धान्तः/Chapter 04
भानोर्ग्रहे कोटिलिता मध्यस्थित्यर्धसङ्गुणाः ।
स्फुटस्थित्यर्धसम्भक्ताः स्फुटाः कोटिकलाः स्मृता ॥ ४.१९॥
सूर्यसिद्धान्तः/Chapter 04
क्षेपो भुजस्तयोर्वर्गयुतेर्मूलं श्रवस्तु तत् ।
मानयोगार्धतः प्रोज्झ्य ग्रासस्तात्कालिको भवेत् ॥ ४.२०॥