सूर्यसिद्धान्तः/Chapter 05
मध्यग्रहणतञ्चोर्ध्वमिष्टनाडीविशोधयेत् ।
स्थित्यर्थान् मौक्षिकाच्छेषं प्राग्वच्च्छेषं तु मौक्षिके ॥ ४.२१॥
सूर्यसिद्धान्तः/Chapter 05
ग्राह्यग्राहकयोगार्धाच्छोध्याः स्वच्छन्नलिप्तिकाः ।
ताद्वर्गात् प्रोज्झ्य तत्कालविक्षेपस्य कृतिं पदम् ॥ ४.२२॥
सूर्यसिद्धान्तः/Chapter 05
कोटिलिप्ता रवेः स्पष्टस्थित्यर्धेनाहता हृताः ।
मध्येन लिप्तास्तन्नाद्यः स्थितिवद्ग्रासनाडिकाः ॥ ४.२३॥
सूर्यसिद्धान्तः/Chapter 05
नतज्याऽक्षज्ययाभ्यस्ता त्रिज्याप्ता तस्य कार्मुकम् ।
वलनांशा सौम्ययाम्याः पूर्वापरकपालयोः ॥ ४.२४॥
सूर्यसिद्धान्तः/Chapter 05
राशित्रययुताद्ग्राह्यात् क्रान्त्यंशैर्दिक्षमैर्युताः ।
भेदेऽन्तराज्ज्या वलना सप्तत्यङ्गुलभाजिता ॥ ४.२५॥
सूर्यसिद्धान्तः/Chapter 05
सोन्नतं दिनमध्यार्ध दिनार्धाप्तं फलेन तु ।
छिन्द्याद्विक्षेपमानानि तान्येषामङ्गलानि तु ॥ ४.२६॥
सूर्यसिद्धान्तः/Chapter 05
मध्यलग्नसमे भानौ हरिजस्य न सम्भवः ।
अक्षोदङ्मध्यभक्रान्तिसाम्ये नावनतेरपि ॥ ५.०१॥
सूर्यसिद्धान्तः/Chapter 05
देशकालविशेषेण यथावनतिसम्भवः ।
लम्बनस्यापि पूर्वान्यदिग्वशाच्च तथोच्यते ॥ ५.०२॥
सूर्यसिद्धान्तः/Chapter 05
लग्नं पर्वान्तनाडीनां कुर्यात् स्वैरुदयासुभिः ।
तज्ज्यान्त्यापक्रमज्याघ्नी लम्बज्याप्तोदयाभिधा ॥ ५.०३॥
सूर्यसिद्धान्तः/Chapter 05
तदा लङ्कोदयैर्लग्नं मध्यसंज्ञं यथोदितम् ।
तत्क्रान्त्यक्षांशसंयोगो दिक्षाम्येऽन्तरमन्यथा ॥ ५.०४॥
सूर्यसिद्धान्तः/Chapter 05
शेषं नतांशास्तन्मौर्वी मध्यज्या साभिधीयते ।
मध्योदयज्ययाभ्यस्ता त्रिज्याप्ता वर्गितं फलम् ॥ ५.०५॥
सूर्यसिद्धान्तः/Chapter 05
मध्यज्यावर्गविह्लिष्टं दृक्क्षेपः शेषतः पदम् ।
तत्त्रिज्यावर्गविह्लिष्टान् मूलं शङ्कुः स दृग्गतिः ॥ ५.०६॥
सूर्यसिद्धान्तः/Chapter 05
नतांशबाहुकोटिज्येऽस्फुटे दृक्क्षेपदृग्गती ।
एकज्यार्धगतश्छेदो लब्धं दृग्गतिजीवया ॥ ५.०७॥
सूर्यसिद्धान्तः/Chapter 05
मध्यलग्नार्कविश्लेषज्या छेदेन विभाजिता ।
रवीन्द्वोर्लम्बनं ज्ञेयं प्राक्पश्चाद्धटिकादिकम् ॥ ५.०८॥
सूर्यसिद्धान्तः/Chapter 05
मध्यलग्नाधिके भानौ तिथ्यन्तात् प्रविशोधयेत् ।
धनमूनेऽसकृत् कर्म यावत् सर्व स्थिरीभवेत् ॥ ५.०९॥
सूर्यसिद्धान्तः/Chapter 05
दृक्क्षेपः शीततिग्मांश्वोर्मध्यभुक्त्यन्तराहतः ।
तिथिघ्नत्रिज्यया भक्तो लब्धं सावनतिर्भवेत् ॥ ५.१०॥
सूर्यसिद्धान्तः/Chapter 05
दृक्क्षेपात् सप्ततिहृताद्भवेद्वावनतिः फलम् ।
अथवा त्रिज्यया भक्तात् सप्तसप्तकसङ्गुणात् ॥ ५.११॥