सूर्यसिद्धान्तः-Chapter 06

Site Homepage Book Frontmatter Book Resources

छेद्यक

सूर्यसिद्धान्तः/Chapter 06

मध्यज्यादिग्वशात् सा च विज्ञेया दक्षिणोत्तरा ।
सेन्दुविक्षेपदिक्षाम्ये युक्ता विश्लेषितान्यथा ॥ ५.१२॥

सूर्यसिद्धान्तः/Chapter 06

तया स्थितिविमर्दार्धग्रासाद्यं तु यथोदितम् ।
प्रमाणं वलनाभीष्टग्रासादि हिमरश्मिवत् ॥ ५.१३॥

सूर्यसिद्धान्तः/Chapter 06

स्थित्यर्थानाधिकात् प्राग्वत् तिथ्या(?)न्तलाल्लम्बनं पुनः ।
ग्रासमोक्षोद्भवं साध्यं तन्मध्यहरिजान्तरम् ॥ ५.१४॥

सूर्यसिद्धान्तः/Chapter 06

प्राक्कपालेऽधिकं मध्याद्भवेत् प्राग्रहणं यदि ।
तदा मोक्षस्थितिदले देयं प्रग्रहणे तथा ।

सूर्यसिद्धान्तः/Chapter 06

हरिजान्तरकं शोध्यं यत्रैतत् स्याद्विपर्ययः ॥ ५.१६॥

सूर्यसिद्धान्तः/Chapter 06

एतदुक्तं कपालैक्ये तद्गेदे लम्बनैकता ।
स्वे स्वे स्थितिदले योज्या विमर्धार्धेऽपि चोक्तवत् ॥ ५.१७॥

सूर्यसिद्धान्तः/Chapter 06

न छेद्यकं ऋते यस्माद्भेद्रा ग्रहणयोः स्फुटाः ।
ज्ञायन्ते तत् प्रवक्ष्यामि छेद्यकज्ञानमुत्तमम् ॥ ६.०१॥

सूर्यसिद्धान्तः/Chapter 06

सुसाधितायामवनौ बिन्दुं कृत्वा ततो लिखेत् ।
सप्तवर्गाङ्गुलेनादौ मण्डलं वलनाश्रितम् ॥ ६.०२॥

सूर्यसिद्धान्तः/Chapter 06

ग्राह्यग्राहकयोगार्धसम्मितेन द्वितीयकम् ।
मण्डलं तत् समासाख्यं ग्राह्यार्थेन तृतीयकम् ॥ ६.०३॥

सूर्यसिद्धान्तः/Chapter 06

याम्योत्तराप्राच्यपरासाधनं पूर्ववद्दिशाम् ।
प्रागिन्दोर्ग्रहणं पश्चान् मोक्षोऽर्कस्य विपर्ययात् ॥ ६.०४॥

सूर्यसिद्धान्तः/Chapter 06

यथादिशं प्राग्रहणं वलनं हिमदीधितेः ।
मौक्षिकं तु विपर्यस्तं विपरीतमिदं रवेः ॥ ६.०५॥

सूर्यसिद्धान्तः/Chapter 06

वलनाग्रान् नयेन् मध्यं सूत्रं यद्यत्र संस्पृशेत् ।
तत्समासे ततो देयौ विक्षेपौ ग्रासमौक्षिकौ ॥ ६.०६ ॥

सूर्यसिद्धान्तः/Chapter 06

विक्षेपाग्रात् पुनः सूत्रं मध्यबिन्दुं प्रवेशयेत् ।
तद्ग्राह्यबिन्दुसंस्पर्शाद्ग्रासमोक्षौ विनिर्दिशेत् ॥ ६.०७॥

सूर्यसिद्धान्तः/Chapter 06

नित्यशोऽर्कस्य विक्षेपाः परिलेखे यथादिशम् ।
विपरीताः शशाङ्कस्य तद्वशादथ मध्यमम् ॥ ६.०८॥

सूर्यसिद्धान्तः/Chapter 06

वलनं प्राङ्मुखं देयं तद्विक्षेपैकता यदि ।
भेदे पश्चान् मुखं देयमिन्दोर्भानोर्विपर्ययात् ॥ ६.०९॥

सूर्यसिद्धान्तः/Chapter 06

वलनाग्रात् पुनः सूत्रं मध्यबिन्दुं प्रवेशयेत् ।
मध्यसूत्रेण विक्षेपं वलनाभिमुखं नयेत् ॥ ६.१०॥

सूर्यसिद्धान्तः/Chapter 06

विक्षेपाग्राल्लिखेदूत्तं ग्राहकार्थेन तेन यत् ।
ग्राह्यवृत्तं समाक्रान्तं तद्ग्रस्तं तमसा भवेत् ॥ ६.११॥

सूर्यसिद्धान्तः/Chapter 06

छेद्यकं लिखता भूमौ फलके वा विपश्चिता ।
विपर्ययो दिशां कार्यः पूर्वापरकपालयोः ॥ ६.१२॥

सूर्यसिद्धान्तः/Chapter 06

स्वच्छत्वाद्वादशांशोऽपि ग्रस्तश्चन्द्रस्य दृश्यते ।
लिप्तात्रयमपि ग्रस्तं तीक्ष्णत्वान् न विवस्वतः ॥ ६.१३॥

सूर्यसिद्धान्तः/Chapter 06

स्वसंज्ञितास्त्रयः कार्या विक्षेपाग्रेषु बिन्दवः ।
तत्र प्राङ्गध्ययोर्मध्ये तथा मौक्षिकमध्ययोः ॥ ६.१४॥

सूर्यसिद्धान्तः/Chapter 06

लिखेन् मत्स्यौ तयोर्मध्यान् मुखपुच्छविनिःसृतम् ।
प्रसार्य सूत्रद्वितयं तयोर्यत्र युतिर्भवेत् ॥ ६.१५॥

सूर्यसिद्धान्तः/Chapter 06

तत्र सूत्रेण विलिखेच्छापं बिन्दुत्रयस्पृशा ।
स पन्था ग्राहकस्योक्ता येनासौ संप्रयास्यति ॥ ६.१६ ॥

सूर्यसिद्धान्तः/Chapter 06

ग्राह्यग्राहकयोगार्धात् प्रोज्ज्येष्टग्रासमागतम् ।
अवशिष्टाङ्गुलसमां शलाकां मध्यबिन्दुतः ॥ ६.१७ ॥

सूर्यसिद्धान्तः/Chapter 06

तयोर्मार्गोन्मुखीं दद्याद्ग्रासतः प्राग्ग्रहाश्रिताम् ।
विमुञ्चतो मोक्षदिशि ग्राहकाध्वानमेव सा ॥ ६.१८ ॥