सूर्यसिद्धान्तः/Chapter 07
स्पृशेद्यत्र ततो वृत्तं ग्राहकार्थेन संलिखेत् ।
तेन ग्राह्यं यदाक्रान्तं तत् तमोग्रस्तमादिशेत् ॥ ६.१९ ॥
सूर्यसिद्धान्तः/Chapter 07
मानान्तरार्धेन मितां शलाकां ग्रासदिक्खुखीम् ।
निमीलनाख्यां दद्यात् सा तन्मार्गे यत्र संस्पृशेत् ॥ ६.२०॥
सूर्यसिद्धान्तः/Chapter 07
ततो ग्राहकखण्डेन प्राग्वन् मण्डलमालिखेत् ।
तद्ग्राह्यमण्डलयुतिर्यत्र तत्र निमीलनम् ॥ ६.२१॥
सूर्यसिद्धान्तः/Chapter 07
एवमुन्मीलने मोक्षदिङ्मुखीं संप्रसारयेत् ।
विलिखेन् मण्डलं प्राग्वदुन्मीलनमथोक्तवत् ॥ ६.२२॥
सूर्यसिद्धान्तः/Chapter 07
अर्धादूने सधूरं स्यात् कृष्णमर्धाधिकं भवेत् ।
विमुञ्चतः कृष्णतारं कपिलं सकलग्रहे ॥ ६.२३॥
सूर्यसिद्धान्तः/Chapter 07
रहस्यमेतद्देवानां न देयं यस्य कस्यचित् ।
सुपरीक्षितशिष्याय देयं वत्सरवासिने ॥ ६.२४ ॥
सूर्यसिद्धान्तः/Chapter 07
ताराग्रहाणामन्योन्यं स्यातां युद्धसमागमौ ।
समागमः शशाङ्केन सूर्येणास्तमनं सह ॥ ७.०१॥
सूर्यसिद्धान्तः/Chapter 07
शीघ्रे मन्दाधिकेऽतीतः संयोगो भवितान्यथा ।
द्वयोः प्राग्यायिनोरेवं वक्रिणोस्तु विपर्ययात् ॥ ७.०२॥
सूर्यसिद्धान्तः/Chapter 07
प्राग्यायिन्यधिकेऽतीतो वक्रिण्येष्वः समागमः ।
ग्रहान्तरकलाः स्वस्वभुक्तिलिप्ताः समाहताः ॥ ७.०३॥
सूर्यसिद्धान्तः/Chapter 07
भुक्त्यन्तरेण विभजेदनुलोमविलोमयोः ।
द्वयोर्वक्रिण्यथैकस्मिन् भुक्तियोगेन भाजयेत् ॥ ७.०४॥
सूर्यसिद्धान्तः/Chapter 07
लब्धं लिप्तादिकं शोध्यं गते देयं भविष्यति ।
विपर्ययाद्वक्रगत्योरेकस्मिंस्तु धनव्ययौ ॥ ७.०५॥
सूर्यसिद्धान्तः/Chapter 07
समालिप्तौ भवेतां तौ ग्रहौ भगणसंस्थितौ ।
विवरं तद्वदुद्धृत्य दिनादिफलमिष्यते ॥ ७.०६॥
सूर्यसिद्धान्तः/Chapter 07
कृत्वा दिनक्षपामानं तथा विक्षेपलिप्तिकाः ।
नतोन्नतं साधयित्वा स्वकाल्लग्नवशात् तयोः ॥ ७.०७॥
सूर्यसिद्धान्तः/Chapter 07
विषुवच्छाययाम्यस्तद्विक्षेपाद्द्वादशोद्धृतात् ।
फलं स्वनतनाडीघ्नं स्वदिनार्धविभाजितम् ॥ ७.०८॥
सूर्यसिद्धान्तः/Chapter 07
लब्धं प्राच्यां ऋणं सौम्याद्विक्षेपात् पश्चिमे धनम् ।
दक्षिणे प्राक्पाले स्वं पश्चिमे तु तथा क्षमः ॥ ७.०९ ॥
सूर्यसिद्धान्तः/Chapter 07
दक्षिण प्राक्कपाल स्व पश्चिम तु तथा क्षमः ॥ ७.०९ ॥
सूर्यसिद्धान्तः/Chapter 07
सत्रिभग्रहजक्रान्तिभागघ्नाः क्षेपलिप्तिकाः ।
विकलाः स्वं ऋणं क्रान्तिक्षेपयोर्भिन्नतुल्ययोः ॥ ७.१०॥
सूर्यसिद्धान्तः/Chapter 07
नक्षत्रग्रहयोगेषु ग्रहास्तोदयसाधने ।
शृङ्गोन्नतौ तु चन्द्रस्य दृक्कर्मादाविदं स्मृतम् ॥ ७.११॥
सूर्यसिद्धान्तः/Chapter 07
तात्कालिकौ पुनः कार्यौ विक्षेपौ च तयोस्ततः ।
दिक्तुल्ये त्वन्तरं भेदे योगः शिष्टं ग्रहान्तरम् ॥ ७.१२॥
सूर्यसिद्धान्तः/Chapter 07
कुजार्किज्ञामरेज्यानां त्रिंशदर्धार्धवर्धिताः ।
विष्कम्भाश्चन्द्रकक्षायां भृगोः षष्टिरुदाहृता ॥ ७.१३॥
सूर्यसिद्धान्तः/Chapter 07
त्रिचतुः कर्णयुत्याप्तास्ते द्विघ्नास्त्रिज्यया हताः ।
स्फुटाः स्वकर्णास्तिथ्याप्ता भवेयुर्मानलितिकाः ॥ ७.१४॥
सूर्यसिद्धान्तः/Chapter 07
छायाभूमौ विपर्यस्ते स्वच्छायाग्रे तु दर्शयेत् ।
ग्रहः स्वदर्पणान्तःस्थः शङ्क्वग्रे संप्रदिश्यते ॥ ७.१५ ॥
सूर्यसिद्धान्तः/Chapter 07
पञ्चहस्तोच्छ्रितौ शङ्कू यथादिग्भ्रमसंस्थितौ ।
ग्रहान्त्रेण विक्षिप्तावधो हस्तनिखातगौ ॥ ७.१६॥
सूर्यसिद्धान्तः/Chapter 07
छायाकर्णौ ततो दद्याच्छायाग्राच्छङ्कमूर्धगौ ।
छायाकर्णाग्रसंयोगे संस्थितस्य प्रदर्शयेत् ॥ ७.१७॥