सूर्यसिद्धान्तः-Chapter 08

Site Homepage Book Frontmatter Book Resources

नक्षत्रग्रहयुति

सूर्यसिद्धान्तः/Chapter 08

स्वशङ्क्रमूर्धगौ व्योम्नि ग्रहौ दृक्तुल्यतामितौ ।
उल्लेखं तारकास्पर्शाद्भेदै भेदः प्रकीर्त्यते ॥ ७.१८ ॥

सूर्यसिद्धान्तः/Chapter 08

युद्धमंशुविमर्दाख्यमंशुयोगे परस्परम् ।
अंशादूनेऽपसव्याख्यं युद्धमेकोऽत्र चेदणुह ॥ ७.१९ ॥

सूर्यसिद्धान्तः/Chapter 08

समागमोऽशादधिके भवतश्चेद्लान्वितौ ।
अपसव्ये जितो युद्धे पिहितोऽणुरदीप्तितान् ॥ ७.२०॥

सूर्यसिद्धान्तः/Chapter 08

रूक्षो विवर्णो विध्वस्तो विजितो दक्षिणाश्रितः ।
उदक्ष्यो दीप्तिमान् स्थूलो जयी याम्येऽपि यो बली ॥ ७.२१॥

सूर्यसिद्धान्तः/Chapter 08

आसन्नावप्युभौ दीप्तौ भवतश्चेत् समागमः ।
स्वल्पौ द्वावपि विध्वस्तौ भवेतां कूटविग्रहौ ॥ ७.२२॥

सूर्यसिद्धान्तः/Chapter 08

उदक्ष्यो दक्षिणस्थो वा भार्गवः प्रायशो जयी ।
शशाङ्केनैवमेतेषां कुर्यात् संयोगसाधनम् ॥ ७.२३॥

सूर्यसिद्धान्तः/Chapter 08

भावाभावाय लोकानां कल्पनेयं प्रदर्शिता ।
स्वमार्गगाः प्रयान्त्येते दूरमन्योन्यमाश्रिताः ॥ ७.२४॥

सूर्यसिद्धान्तः/Chapter 08

प्रोच्यन्ते लिप्तिका भानां स्वभोगोऽथ दशाहतः ।
भवन्त्यतीतधिष्ण्यानां भोगलिप्तायुता ध्रुवाः ॥ ८.०१॥

सूर्यसिद्धान्तः/Chapter 08

अष्टार्णवाः शून्यकृताः पञ्चषष्टिर्नगेषवः ।
अथार्थ अन्वस्पृशेद्बहु अष्टमा पुनरुत्थाः ॥ ६.०३॥

सूर्यसिद्धान्तः/Chapter 08

अष्टार्था अब्धयोऽष्टागा अङ्गागा मनवस्तथा ॥ ८.०२॥

सूर्यसिद्धान्तः/Chapter 08

कृतेषवो युगरसाः शून्यवाणा वियद्रसाः ।
खवेदाः सागरनगा गजागाः सागरर्तवः ॥ ८.०३॥

सूर्यसिद्धान्तः/Chapter 08

मनवोऽथ रसा वेदा वैश्वमाप्यार्धभोगगम् ।
आप्यस्यैवाभिजित् प्रान्ते वैश्वान्ते श्रवणस्थितिः । ८.०४ ॥

सूर्यसिद्धान्तः/Chapter 08

त्रिचतुः पादयोः सन्धौ श्रविष्ठा श्रवणस्य तु ।
स्वभोगतो वियन् नागाः षड्कृतिर्यमलाश्विनः ॥ ८.०५ ॥

सूर्यसिद्धान्तः/Chapter 08

रन्ध्राद्रयः क्रमादेषां विक्षेपाः स्वादपक्रमात् ।
दिङ्मासविषयाः सौम्ये याम्ये पञ्च दिशो नव ॥ ८.०६ ॥

सूर्यसिद्धान्तः/Chapter 08

सौम्ये रसाः खं याम्येऽगाः सौम्ये खार्कास्त्रयोदश ।
दक्षिणे रुद्रयमलाः सप्तत्रिंशदथोत्तरे ॥ ८.०७॥

सूर्यसिद्धान्तः/Chapter 08

याम्यऽध्यर्धत्रिककृता नव सार्धशरेषवः ।
उत्तरस्यां तथा षष्टिस्त्रिंशत् षट्त्रिंशदेव हि ॥ ८.०८ ॥

सूर्यसिद्धान्तः/Chapter 08

दक्षिणे त्वर्धभागस्तु चतुर्विंशतिरुत्तरे ।
भागाः षड्विंशतिः खं च दास्रादीनां यथाक्रमम् ॥ ८.०९ ॥

सूर्यसिद्धान्तः/Chapter 08

अशीतिभागैर्याम्यायामगस्त्यो मिथुनान्तगः ।
विंशे च मिथुनस्यांशे मृगव्याधो व्यवस्थितः ॥ ८.१०॥

सूर्यसिद्धान्तः/Chapter 08

विक्षेपो दक्षिणे भागैः खार्णवैः स्वादपक्रमात् ।
हुतभुग्ब्रह्महृदयौ वृषे द्वाविंशभागगौ ॥ ८.११॥

सूर्यसिद्धान्तः/Chapter 08

अष्टाभिस्त्रिंशता चैव विक्षिप्तावुत्तरेण तौ ।
गोलं लब्ध्वा परीक्षेत विक्षेपं ध्रुवकं स्फुटम् ॥ ८.१२॥