सूर्यसिद्धान्तः-Chapter 09

Site Homepage Book Frontmatter Book Resources

नक्षत्रग्रहयुति (continued) & उदयास्त

सूर्यसिद्धान्तः/Chapter 09

वृषे सप्तदशे भागे यस्य याम्योऽशकद्वयात् ।
विक्षेपोऽभ्यधिको भिन्द्याद्गोहिण्याः शकतं तु सः ॥ ८.१३॥

सूर्यसिद्धान्तः/Chapter 09

ग्रहवद्युनिशे भानां कुर्याद्दूक्कम पूर्ववत् ।
ग्रहमेलकवच्छेषं ग्रहभुक्त्या दिनानि च ॥ ८.१४॥

सूर्यसिद्धान्तः/Chapter 09

एष्यो हीने गृहे योगो ध्रुवकादधिके ततः ।
विपर्ययाद्वक्रगते ग्रहे ज्ञेयः समागमः ॥ ८.१५॥

सूर्यसिद्धान्तः/Chapter 09

फाल्गुन्योर्भाद्रपदयोस्तथैवाषाढयोर्द्वयोः ।
विशाखाश्विनिसौम्यानां योगतारोत्तरा स्मृता ॥ ८.१६॥

सूर्यसिद्धान्तः/Chapter 09

पश्चिमोत्तरताराया द्वितीया पश्चिमे स्थिता ।
हस्तस्य योगतारा सा श्रविष्ठायाश्च पश्चिमा ॥ ८.१७॥

सूर्यसिद्धान्तः/Chapter 09

ज्येष्ठाश्रवणमैत्राणां बार्हस्पत्यस्य मध्यमा ।
भरण्याग्नेयपित्राणां रेवत्याश्चैव दक्षिणा ॥ ८.१८॥

सूर्यसिद्धान्तः/Chapter 09

रोहिण्यादित्यमूलानां प्राची सार्पस्य चैव हि ।
यथा प्रत्यवशेषाणां स्थूला स्याद्योगतारका ॥ ८.१९॥

सूर्यसिद्धान्तः/Chapter 09

पूर्वस्यां ब्रह्महृदयादंशकैः पञ्चभिः स्थितः ।
प्रजापतिर्वृषान्तेऽसौ सौम्येऽष्टत्रिंशदंशकैः ॥ ८.२०॥

सूर्यसिद्धान्तः/Chapter 09

अपांवत्सस्तु चित्राया उत्तरेऽशैस्तु पञ्चभिः ।
बृहत् किञ्चिदतो भागैरापः षड्भस्तथोत्तरे ॥ ८.२१॥

सूर्यसिद्धान्तः/Chapter 09

अथोदयस्तमययोः परिज्ञानं प्रकीर्त्यते ।
दिवाकरकराक्रान्तमूर्तिनामप्लतेजसाम् ॥ ९.०१॥

सूर्यसिद्धान्तः/Chapter 09

सूर्यादभ्यधिकाः पश्चादस्तं जीवकुजार्जजाः ।
ऊनाः प्रागुदयं यान्ति शुक्रज्ञौ वक्रिणौ तथा ॥९.०२॥

सूर्यसिद्धान्तः/Chapter 09

ऊना विवस्वतः प्राच्यामस्तं चन्द्रज्ञभार्गवाः ।
व्रजन्त्यभ्यधिकाः पस्चादुदयं शीघ्रयायिनः ॥ ९.०३॥

सूर्यसिद्धान्तः/Chapter 09

सूर्यास्तकालिकौ पश्चात् प्राच्यामुदयकालिकौ ।
दिवा चार्कग्रहौ कुर्याद्दूक्कर्माथ ग्रहस्य तु ॥९.०४॥

सूर्यसिद्धान्तः/Chapter 09

ततो लग्नान्तरप्राणाः कालांशाः षष्टिभाजिताः ।
प्रतीच्यां षड्भयुतयोस्तद्वल्लग्नान्तरासवः ॥ ९.०५॥

सूर्यसिद्धान्तः/Chapter 09

एकादशामरेज्यस्य तिथिसङ्ख्यार्कजस्य च ।
अस्तांशा भूमिपुत्रस्य दश सप्ताधिकास्ततः ॥ ९.०६ ॥

सूर्यसिद्धान्तः/Chapter 09

पश्चादस्तमयोऽष्टाभिरुदयः प्राद्महत्तया ।
प्रागस्तमुदयः पश्चादल्पत्वाद्दशभिर्भृगोः ॥ ९.०७॥

सूर्यसिद्धान्तः/Chapter 09

एवं बुधो द्वादशभिश्चतुर्दशभिरंशकैः ।
वक्री शीघ्रगतिश्चार्कात् करोत्यस्त्मयोदयौ ॥ ९.०८॥

सूर्यसिद्धान्तः/Chapter 09

एभ्योऽधिकैः कालभागैर्दृश्या न्यूनैरदर्शनाः ।
भवन्ति लोके खचरा भानुभाग्रस्तमूर्तयः ॥ ९.०९॥