सूर्यसिद्धान्तः-Chapter 10

Site Homepage Book Frontmatter Book Resources

उदयास्त (continued) & चन्द्रशृङ्गोन्नति

सूर्यसिद्धान्तः/Chapter 10

तत्कालांशान्तरकला भुक्तयन्तरविभाजिताः ।
दिनादि तत्फलं लब्धं भुक्तियोगेन वक्रिणः ॥ ९.१०॥

सूर्यसिद्धान्तः/Chapter 10

तल्लग्नासुहते भुक्ती अष्टादशशतोद्धृते ।
स्यातां कालगती ताभ्यां दिनादि गतगम्ययोः ॥ ९.११॥

सूर्यसिद्धान्तः/Chapter 10

स्वात्यगस्त्यमृगव्याधचित्राज्येष्ठाः पुनर्वसुः ।
अभिजिद्ब्रह्महृदयं त्रयोदशभिरंशकैः ॥ ९.१२॥

सूर्यसिद्धान्तः/Chapter 10

हस्तश्रवणफाल्गुन्यः श्रविष्टा रोहिणीमघाः ।
चतुर्दशांशकैर्दृश्या विशाखाश्विनिदैवतम् ॥ ९.१३॥

सूर्यसिद्धान्तः/Chapter 10

कृत्तिकामैत्रमूलानि सार्पं रौद्रर्क्षमेव च ।
दृश्यन्ते पञ्चदशभिराषाढादिद्वतयं तथा ॥ ९.१४॥

सूर्यसिद्धान्तः/Chapter 10

भरणीतिष्यसौम्यानि सौक्ष्म्यात् त्रिःसप्तकांशकैः ।
शेषाणि सप्तदशभिर्दृश्यादृश्यानि भानि तु ॥ ९.१५॥

सूर्यसिद्धान्तः/Chapter 10

अष्टादशशताभ्यस्ता दृश्यांशाः स्वोदयासुभिः ।
विभज्य लब्धाः क्षेत्रांशास्तैर्दृश्यादृश्यताथवा ॥ ९.१६॥

सूर्यसिद्धान्तः/Chapter 10

प्रागेषामुदयः पश्चादस्तो दृक्कर्म पूर्ववत् ।
गतैष्यदिवसप्राप्तिर्भानुभुक्त्या सदैव हि ॥ ९.१७॥

सूर्यसिद्धान्तः/Chapter 10

अभिजिद्ब्रह्महृदयं स्वातीवैष्णववासवाः ।
अहिर्बुध्यमुदक्ष्यत्वान् न लुप्यन्तेऽर्करश्मिभिः ॥ ९.१८ ॥

सूर्यसिद्धान्तः/Chapter 10

उदयास्तविधिः प्राग्वत् कर्तव्यः शीतगोरपि ।
भागैर्द्वादशभिः पश्चादृश्यः प्राग्यात्यदृश्यताम् ॥ १०.०१ ॥

सूर्यसिद्धान्तः/Chapter 10

रवीन्द्वोः षड्भयुतयोः प्राग्वल्लग्नान्तरासवः ।
एकराशौ रवीन्द्वोश्च कार्या विवरलिप्तिकाः ॥ १०.०२॥

सूर्यसिद्धान्तः/Chapter 10

तन्नाडिकाहते भुक्ती रवीन्द्वोः षष्टिभाजिते ।
तत्फलान्वितयोर्भूयः कर्तव्या विवरासवः ॥ १०.०३॥

सूर्यसिद्धान्तः/Chapter 10

एवं यावत् स्थिरीभूता रवीन्द्वोरन्तरासवः ।
तैः प्राणैरस्तमेतीन्दुः शुक्लेऽर्कास्तमयात् परम् ॥ १०.०४ ॥

सूर्यसिद्धान्तः/Chapter 10

भगणार्थं रवेर्दत्त्वा कार्यास्तद्विवरासवः ।
तैः प्राणैः कृष्णपक्षे तु शीतांशुरुदयं व्रजेत् ॥ १०.०५ ॥

सूर्यसिद्धान्तः/Chapter 10

अर्केन्द्वोः क्रान्तिविल्लेखो दिक्षाम्ये युतिरन्यथा ।
तज्ज्येन्दुरर्काद्यत्रासौ विज्ञेया दक्षिणोत्तरा ॥ १०.०६ ॥