सूर्यसिद्धान्तः-Chapter 11

Site Homepage Book Frontmatter Book Resources

चन्द्रशृङ्गोन्नति (continued) & पात

सूर्यसिद्धान्तः/Chapter 11

मध्याह्नेन्दुप्रभाकर्णसङ्गुणा यदि सोत्तरा ।
तदार्कघ्नाक्षजीवायां शोध्या योज्या च दक्षिणा ॥ १०.०७॥

सूर्यसिद्धान्तः/Chapter 11

शेषं लम्बज्यया भक्तं लब्धो बाहुः स्वदिङ्मुखः ।
कोटिः शङ्कुस्तयोर्वर्गयुतेर्मूलं श्रुतिर्भवेत् ॥ १०.०८ ॥

सूर्यसिद्धान्तः/Chapter 11

सूर्योनशीतगोर्लिप्ताः शुक्लं नवशतोद्धृताः ।
चन्द्रबिम्बाङ्गुलाभ्यस्तं हृतं द्वादशभिः स्फुटम् ॥ १०.०९ ॥

सूर्यसिद्धान्तः/Chapter 11

दत्त्वार्कसंज्ञितं बिन्दुं ततो बाहुं स्वदिङ्मुखम् ।
ततः पश्चान् मुखी कोटिं कर्णं कोट्यग्रमध्यगम् ॥ १०.१०॥

सूर्यसिद्धान्तः/Chapter 11

कोटिकर्णयुताद्विन्दोर्बिम्बां तात्कालिकं लिखेत् ।
कर्णसूत्रेण दिक्षिद्धिं प्रथमं परिकल्पयेत् ॥ १०.११॥

सूर्यसिद्धान्तः/Chapter 11

शुक्रं कर्णेन तद्विम्बयोगादन्तर्मुखं नयेत् ।
शुक्लाग्रयाम्योत्तरयोर्मध्ये मत्स्यौ प्रसाधयेत् ॥ १०.१२॥

सूर्यसिद्धान्तः/Chapter 11

तन्मदख्यसूत्रसंयोगाद्विन्दुत्रिस्पृगिलिखेद्धनुः ॥
प्राग्बिम्बं यादृगेव स्यात् तादृक्तत्र दिने शशी ॥ १०.१३॥

सूर्यसिद्धान्तः/Chapter 11

कोट्या दिक्साधनात् तिर्यक्षूत्रान्ते शृङ्गमुन्नतम् ।
दर्शयेदुन्नतां कोटिं कृत्वा चन्द्रस्य साकृतिः ॥ १०.१४ ॥

सूर्यसिद्धान्तः/Chapter 11

कृष्णे षड्भयुतं सूर्य विशोध्येन्दोस्तथासितम् ।
दद्याद्वामं भुजं तत्र पश्चिमं मण्डलं विधोः ॥ १०.१५॥

सूर्यसिद्धान्तः/Chapter 11

एकायनगतौ स्यातां सूर्यचन्द्रमसौ यदा ।
तद्युतौ मण्डले क्रान्त्योस्तुल्यत्वे वैधृताभिधः ॥ ११.०१ ॥

सूर्यसिद्धान्तः/Chapter 11

विपरीतायनगतौ चन्द्रार्को क्रान्तिलिप्तिका ।
समास्तदा व्यतीपातो भगणार्थे तयोर्युतौ ॥ ११.०२ ॥

सूर्यसिद्धान्तः/Chapter 11

तुल्यांशुजालसम्पर्कात् तयोस्तु प्रवहाहतः ।
तद्दूक्रोधभवो वह्निर्लोकाभावाय जायते ॥ ११.०३॥

सूर्यसिद्धान्तः/Chapter 11

विनाशयति पातोऽस्मिन् लोकानामसकृद्यतः ।
व्यतीपातः प्रसिद्धोऽयं संज्ञाभेदेन वैधृतः ॥ ११.०४ ॥

सूर्यसिद्धान्तः/Chapter 11

स कृष्णो दारुणवपुर्लोहिताक्षो महोदरः ।
सर्वानिष्टकरो रौद्रो भूयो भूयः प्रजायते ॥ ११.०५ ॥

सूर्यसिद्धान्तः/Chapter 11

भास्करेन्द्वोर्भचक्रान्तश्चक्रार्धावधिसंस्थयोः ।
दृक्तुल्यसाधितांशादियुक्तयोः स्वावपक्रमौ ॥ ११.०६ ॥

सूर्यसिद्धान्तः/Chapter 11

अथौजपदगस्येदोः क्रान्तिर्विक्षेपसंस्कृता ।
यदि स्यादधिका भानोः क्रान्तेः पातो गतस्तदा ॥ ११.०७ ॥

सूर्यसिद्धान्तः/Chapter 11

ऊना चेत् स्यात् तदा भावी वामं युग्मपदस्य च ।
पदान्यत्वं विधोः क्रान्तिविक्षेपाच्चेद्विशुध्यति ॥ ११.०८ ॥

सूर्यसिद्धान्तः/Chapter 11

क्रान्त्योज्ये त्रिज्ययाभ्यस्ते परक्रान्तिज्ययोद्धृते ।
तच्चापान्तरमर्थं वा योज्यं भाविनि शीतगौ ॥ ११.०९ ॥

सूर्यसिद्धान्तः/Chapter 11

शोध्यं चन्द्राद्भते पाते तत्सूर्यगतिताडितम् ।
चन्द्रभुक्तया हृतं भानौ लिप्तादि शशिवत् फलम् ॥ ११.१० ॥

सूर्यसिद्धान्तः/Chapter 11

तद्वच्छशाङ्कपातस्य फलं देयं विपर्ययात् ।
कर्मैतदसकृत् तावद्यावदक्रान्ती समे तयोः ॥ ११.११ ॥

सूर्यसिद्धान्तः/Chapter 11

क्रान्त्योः समत्वे पातोऽथ प्रक्षिप्तांशोनिते विधौ ।
हीनेऽर्धरात्रिकाद्यातो भावी तात्कालिकेऽधिके ॥ ११.१२ ॥

सूर्यसिद्धान्तः/Chapter 11

स्थिरीकृतार्धरात्रेन्द्वोर्द्वयोर्विवरलिप्तिकाः ।
षष्टिघ्न्यश्चन्द्रभुक्तयाप्ताः पातकालस्य नाडिकाः ॥ ११.१३ ॥

सूर्यसिद्धान्तः/Chapter 11

रवीन्दुमानयोगार्धं षष्ट्या सङ्गुण्य भाजयेत् ।
तयोर्भुक्तयन्तरेणाप्तं स्थित्यर्थं नाडिकादि तत् ॥ ११.१४ ॥