सूर्यसिद्धान्तः/Chapter 12
पातकालः स्फुटो मध्यः सोऽपि स्थित्यर्थवर्जितः ।
तस्य सम्भवकालः स्यात् तत् संयुक्तोऽन्त्यसाञ्ज्ञितः ॥ ११.१५ ॥
सूर्यसिद्धान्तः/Chapter 12
आद्यन्तकालयोर्मध्यः कालो ज्ञेयोऽतिदारुणः ।
प्रज्वलज्ज्वलनाकारः सर्वकर्मसु गर्हितः ॥ ११.१६ ॥
सूर्यसिद्धान्तः/Chapter 12
एकायनगतं यावदर्केन्द्वोर्मण्डलान्तरम् ।
सम्भवस्तावदेवास्य सर्वकर्मविनाशकृत् ॥ ११.१७ ॥
सूर्यसिद्धान्तः/Chapter 12
स्नानदानजपश्चाद्धव्रतहोमादिकर्मभिः ।
प्राप्यत सुमहच्छ्रेयस्तत्कालज्ञानतस्तथा ॥ ११.१८ ॥
सूर्यसिद्धान्तः/Chapter 12
रवीन्द्वोस्तुल्यता क्रान्त्योर्विषुषत्सन्निधौ यदा ।
द्विर्भवेद्धि तदा पातः स्यादभावो विपर्ययात् ॥ ११.१९ ॥
सूर्यसिद्धान्तः/Chapter 12
शसाङ्कर्कयुतेर्लिप्ता भभोगेन विभाजिताः ।
लब्धं सप्तदशान्तोऽन्यो व्यतीपातस्तृतीयकः ॥ ११.२०॥
सूर्यसिद्धान्तः/Chapter 12
सार्पेन्द्रपौष्ण्यधिष्ण्यानामन्त्याः पादा भसन्ध्ययः ।
तदग्रभेष्वपादो गण्डान्तं नाम कीर्त्यते ॥ ११.२१ ॥
सूर्यसिद्धान्तः/Chapter 12
व्यतीपातत्रयं घोरं गण्डान्तत्रितयं तथा ।
एतद्ब्रह्मण्यत्रितयं सर्वकर्मसु वर्जयेत् ॥ ११.२२॥
सूर्यसिद्धान्तः/Chapter 12
इत्येतत् परमं पुण्यं ज्योतिषां चरितं हितम् ।
हस्यं महदाख्यातं किमन्यच्छ्रोतुमिच्छसि ॥ ११.२३ ॥
सूर्यसिद्धान्तः/Chapter 12
अथार्कांशसमुद्भूतं प्रणिपत्य कृताञ्जलिः ।
भक्त्या परमयाभ्यर्च्य पप्रच्छेदं मयासुरः ॥ १२.०१ ॥
सूर्यसिद्धान्तः/Chapter 12
भगवन् किम्प्रमाणा भूः किमाकारा किमाश्रया ।
किंविभागा कथं चात्र सप्तपातालभूमयः ॥ १२.०२ ॥
सूर्यसिद्धान्तः/Chapter 12
अहोरात्रव्यवस्थां च विदधाति कथं रविः ।
कथं पर्येति वसुधां भुवनानि विभावयन् ॥ १२.०३॥
सूर्यसिद्धान्तः/Chapter 12
देवासुराणामन्योन्यमहोरात्रं विपर्ययात् ।
किमथ तत् कथं वा स्याद्ज्ञानोर्भगणपूरणात् ॥ १२.०४ ॥
सूर्यसिद्धान्तः/Chapter 12
पित्र्यं मासेन भवति नाडीषष्ट्या तु मानुषम् ।
तदेव किल सर्वत्र न भवेत् केन हेतुना ॥ १२.०५ ॥
सूर्यसिद्धान्तः/Chapter 12
दिनाब्दमासहोराणामधिपा न समाः कुतः ।
कथं पर्येति भगणः सग्रहोऽयं किमाश्रयः ॥ १२.०६ ॥
सूर्यसिद्धान्तः/Chapter 12
भूमेरुपर्युपर्युध्वाः किमुत्सेधाः किमन्तराः ।
ग्रहर्क्षकक्षाः किम्मात्राः स्थिताः केन क्रमेण ताः ॥ १२.०७॥
सूर्यसिद्धान्तः/Chapter 12
ग्रीष्मे तीव्रकरो भानुर्न हेमन्ते तथाविधः ।
kkiyati tatkaraprāptirmānāni kati kiṁ ca taiḥ ॥ १२.०८ ॥
सूर्यसिद्धान्तः/Chapter 12
एवं मे संशयं छिन्धि भगवन् भूतभावन ।
अन्यो न त्वां ऋते छेत्ता विद्यते सर्वदर्शिवान् ॥ १२.०९ ॥
सूर्यसिद्धान्तः/Chapter 12
इति भक्त्योदितं श्रुत्वा मयोक्तं वाक्यमस्य हि ।
रहस्यं परमध्यायं ततः प्राह पुनः स तम् ॥ १२.१० ॥
सूर्यसिद्धान्तः/Chapter 12
शृणुष्वैकमना भूत्वा गुह्यमध्यात्म संज्ञितम् ।
प्रवक्ष्याम्यतिभक्तानां नादेयं विद्यते मम ॥ १२.११ ॥
सूर्यसिद्धान्तः/Chapter 12
वासुदेवः परं ब्रह्म तन्मूर्तिः पुरुषः परः ।
अव्यक्तो निर्गुणः शान्तः पञ्चविंशात् परोऽव्ययः ॥ १२.१२॥
सूर्यसिद्धान्तः/Chapter 12
प्रकृत्यन्तर्गतो देवो बहिरन्तश्च सर्वगः ।
सङ्कर्षणोऽपः सृष्टवादौ तासु वीर्यमवासृजत् ॥ १२.१३ ॥
सूर्यसिद्धान्तः/Chapter 12
तदण्डमभवद्धमं सर्वत्र तमसावृतम् ।
तत्रानिरुद्धः प्रथमं व्यक्तीभूतः सनातनः ॥ १२.१४ ॥
सूर्यसिद्धान्तः/Chapter 12
हिरण्यगर्भो भगवान् एष छन्दसि पद्यते ।
आदित्यो ह्यादिभूतत्वात् प्रसूत्या सूर्य उच्यते ॥ १२.१५ ॥
सूर्यसिद्धान्तः/Chapter 12
परं ज्योतिस्तमः पारे सूर्योऽयं सवितेति च ।
पर्येति भुवनान् एष भावयन् भूतभावनः ॥ १२.१६ ॥
सूर्यसिद्धान्तः/Chapter 12
प्रकाशात्मा तमोहन्ता महान् इत्येष विश्रुतः ।
ऋचोऽस्य मण्डलं सामान्युस्त्रामूर्तिर्यजूषि च ॥ १२.१७ ॥
सूर्यसिद्धान्तः/Chapter 12
त्रयीमहोऽयं भगवाण् कालात्मा कालकृद्विभुः ।
सर्वात्मा सर्वगः सूक्ष्मः सर्वमस्मिन् प्रतिष्ठितम् ॥ १२.१८ ॥
सूर्यसिद्धान्तः/Chapter 12
रथे विश्वमये चक्रं कृत्वा संवत्सरात्मकम् ।
छन्दांस्यश्वाः सप्त युक्ताः पर्यटत्येष सर्वदा ॥ १२.१९ ॥
सूर्यसिद्धान्तः/Chapter 12
त्रिपादममृतं गुह्यं पादोऽयं प्रकटोऽभवत् ।
सोऽहङ्कारं जगत्सृष्ट्यै ब्रह्माणमसृजत् प्रभुः ॥ १२.२०॥
सूर्यसिद्धान्तः/Chapter 12
तस्मै वेदान् वरान् दत्त्वा सर्वलोकपितामहम् ।
प्रतिष्ठाप्याण्डमध्येऽथ स्वयं पर्येति भावयन् ॥ १२.२१॥
सूर्यसिद्धान्तः/Chapter 12
अथ सृष्ट्यां मनश्चक्रे ब्रह्माहङ्कारमूर्तिभृत् ।
मनसश्चन्द्रमा जज्ञे सूर्योऽक्ष्णोस्तेजसां निधिः ॥ १२.२२॥
सूर्यसिद्धान्तः/Chapter 12
मनसः खं ततो वायुरग्निरापो धरा क्रमात् ।
गुणैकवृद्ध्या पञ्चैव महाभूतानि जज्ञिरे ॥ १२.२३॥
सूर्यसिद्धान्तः/Chapter 12
अग्नीषोमौ भानुचन्द्रौ ततस्त्वङ्गारकादयः ।
तेजोभूखाम्बुवातेभ्यः क्रमशः पञ्च जज्ञिरे ॥ १२.२४॥
सूर्यसिद्धान्तः/Chapter 12
पुनर्द्वादशधात्मानं व्यभजद्राशिसंज्ञकम् ।
नक्षत्ररूपिणं भूयः सप्तविंशात्मकं वशी ॥ १२.२५॥
सूर्यसिद्धान्तः/Chapter 12
ततश्चराचरं विश्वं निर्ममे देवपूर्वकम् ।
ऊर्ध्वमध्याधरेभ्योऽथ स्रोतोभ्यः प्रकृतीः सृजन् ॥ १२.२६॥
सूर्यसिद्धान्तः/Chapter 12
गुणकर्मविभागेन सृष्ट्वा प्राग्वदनुक्रमात् ।
विभागं कल्पयामास यथास्वं वेददर्शनात् ॥ १२.२७॥
सूर्यसिद्धान्तः/Chapter 12
ग्रहनक्षत्रतारानां भूमेविश्वस्य वा विभुः ।
देवासुरमनुष्याणां सिद्धानां च यथाक्रमम् ॥ १२.२८ ॥
सूर्यसिद्धान्तः/Chapter 12
ब्रह्माण्डमेतत् सुषिरं तत्रेदं भूर्भुवादिकम् ।
कटाहद्वितयस्येव सम्पुटं गोलकाकृति ॥ १२.२९॥
सूर्यसिद्धान्तः/Chapter 12
ब्रह्माण्डमध्ये परिधिर्व्योमकक्षाभिधीयते ।
तन्मध्ये भ्रमणं भानामधोऽधः क्रमशस्तथा ॥ १२.३०॥
सूर्यसिद्धान्तः/Chapter 12
मन्दामरेज्यभूपुत्रसूर्यशुक्रेंदुजेन्दवः ।
परिभ्रमन्त्यधोयअधःस्थाः सिद्धहविद्याधरा घनाः ॥ १२.३१॥
सूर्यसिद्धान्तः/Chapter 12
मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति ।
बिभ्रानः परमां शक्तिं ब्रह्मणो धारणात्मकाम् ॥ १२.३२॥
सूर्यसिद्धान्तः/Chapter 12
तदन्तरपुटाः सप्त नागासुरसमाश्रयाः ।
दिव्यौषधिरसोपेता रम्याः पातालभूमयः ॥ १२.३३॥
सूर्यसिद्धान्तः/Chapter 12
अनेकरत्ननिचयो जाम्बूनदमयो गिरिः ।
भूगोलमध्यगो मेरुरुभयत्र विनिर्गतः ॥ १२.३४॥
सूर्यसिद्धान्तः/Chapter 12
उपरिष्टात् स्थितास्तस्य सेन्द्रा देवा महर्षयः ।
अधस्तादसुरास्तद्वद्दिषन्तोऽन्योन्यमाश्रिताः ॥ १२.३५॥
सूर्यसिद्धान्तः/Chapter 12
ततः समन्तात् परिधिः क्रमेणायं महार्णवः ।
मेखलेव स्थितो धात्र्या देवासुरविभागकृत् ॥ १२.३६ ॥
सूर्यसिद्धान्तः/Chapter 12
समन्तान् मेरुमध्यात् तु तुल्यभागेषु तोयधेः ।
द्वीपिषु दिक्षु पूर्वादिनगर्यो देवनिर्मिताः ॥ १२.३७॥
सूर्यसिद्धान्तः/Chapter 12
भूवृत्तपादे पूर्वस्यां यमकोटीति विश्रुता ।
भद्राश्ववर्षे नगरी स्वर्णप्राकारतोरणा ॥ १२.३८ ॥
सूर्यसिद्धान्तः/Chapter 12
याम्यायां भारते वर्षे लङ्का तद्वन् महापुरी ।
पश्चिमे केतुमालाख्ये रोमकाख्या प्रकीर्तिता ॥ १२.३९ ॥
सूर्यसिद्धान्तः/Chapter 12
उदक्सिद्धपुरी नाम कुरुवर्षे प्रकीर्तिता ।
तस्यां सिद्धा महात्मानो निवसन्ति गतव्यथाः ॥ १२.४०॥
सूर्यसिद्धान्तः/Chapter 12
भूवृत्तपादविवरास्ताश्चान्योन्यं प्रतिष्ठिताः ।
ताभ्यश्चोत्तरगो मेरुस्तावान् एव सुराश्रयः ॥ १२.४१॥
सूर्यसिद्धान्तः/Chapter 12
तासामुपरिगो याति विषुवस्थो दिवाकरः ।
न तासु विषुवच्छाया नाक्षस्योन्नतिरिष्यते ॥ १२.४२॥
सूर्यसिद्धान्तः/Chapter 12
मेरोरुभयतो मध्ये ध्रुवतारे नभः स्थिते ।
निरक्षदेशसंस्थानामुभये क्षितिजाश्रये ॥ १२.४३॥
सूर्यसिद्धान्तः/Chapter 12
अतो नाक्षत्रोच्छ्रयस्तासु ध्रुवयोः क्षितिजस्थयोः ।
नवतिर्लम्बकांशास्तु मेरावक्षांशकास्तथा । १२.४४॥
सूर्यसिद्धान्तः/Chapter 12
मेषादौ देवभागस्थे देवानां याति दर्शनम् ।
असुराणां तुलादौ तु सूर्यस्तद्भागसञ्चरः ॥ १२.४५॥
सूर्यसिद्धान्तः/Chapter 12
अत्यासन्नतया तेन ग्रीष्मे तीव्रकरा रवेः ।
देवभागे सुराणां तु हेमन्ते मन्दतान्यथा ॥ १२.४६॥
सूर्यसिद्धान्तः/Chapter 12
देवासुरा विषुवति क्षितिजस्थं दिवाकरम् ।
पश्यन्त्यन्योन्यमेतेषां वामसव्ये दिनक्षपे ॥ १२.४७॥
सूर्यसिद्धान्तः/Chapter 12
मेषादावुदितः सूर्यस्त्रीन् राशीन् उदगुत्तरम् ।
सञ्चरन् प्रागहर्मध्यं पूरयेन् मेरुवासिनाम् ॥ १२.४८॥
सूर्यसिद्धान्तः/Chapter 12
कर्क्यादीन् सञ्चरंश्तद्वदह्नः पश्चार्धमेव सः ।
तुलादींस्त्रीन् मृगादींश्च तद्वदेव सुरद्विषाम् ॥ १२.४९॥
सूर्यसिद्धान्तः/Chapter 12
अतो दिनक्षपे तेषामन्योन्यं हि विपर्ययात् ।
अहोरात्रप्रमाणं च भानोर्भगणपूरणात् ॥ १२.५०॥
सूर्यसिद्धान्तः/Chapter 12
दिनक्षपार्धमेतेषामयनान्ते विपर्ययात् ।
उपर्यात्मानमन्योन्यं कल्पयन्ति सुरासुराः ॥ १२.५१॥
सूर्यसिद्धान्तः/Chapter 12
अन्येऽपि समसूत्रस्था मन्यन्तेऽधः परस्परम् ।
भद्राश्वकेतुमालस्था लङ्कासिद्धपुराश्रिताः ॥ १२.५२॥
सूर्यसिद्धान्तः/Chapter 12
सर्वत्रैव महीगोले स्वस्थानमुपरि स्थितम् ।
मन्यन्ते खे यतो गोलस्तस्य क्कोर्धवं क्व वाधः ॥ १२.५३॥
सूर्यसिद्धान्तः/Chapter 12
अल्पकायतया लोकाः स्वस्थानात् सर्वतो मुखम् ।
पश्यन्ति वृत्तामप्येतां चक्राकारां वसुन्धराम् ॥ १२.५४॥
सूर्यसिद्धान्तः/Chapter 12
सव्यं भ्रमति देवानामपसव्यं सुरद्विषाम् ।
उपरिष्टाद्भगोलोऽयं व्यक्षे पश्चान् मुखः सदा ॥ १२.५५ ॥
सूर्यसिद्धान्तः/Chapter 12
अतस्तत्र दिनं त्रिंशन्नाडिकं शर्वदी तथा ।
हानिवृद्धी सदा वामं सुरासुरविभागयोः ॥ १२.५६ ॥
सूर्यसिद्धान्तः/Chapter 12
मेषादौ तु सदा वृद्धिरुदगुत्तरतोऽधिका ।
देवांशे च क्षपाहानिर्विपरीतं तथासुरे ॥ १२.५७॥
सूर्यसिद्धान्तः/Chapter 12
तुलादौ द्युनिशोर्वामं क्षयवृद्धी तयोरुभे ।
देशक्रान्तिवशान् नित्यं तद्विज्ञानं पुरोदितम् ॥ १२.५८ ॥
सूर्यसिद्धान्तः/Chapter 12
भूवृत्तं क्रान्तिभागघ्नं भगणांशविभाजितम् ।
अवाप्तयोजनैरर्को व्यक्षाद्यात्युपरिस्थितः ॥ १२.५९॥
सूर्यसिद्धान्तः/Chapter 12
परमापक्रमादेवं योजनानि विशोधयेत् ।
भूवृत्तपादाच्छेषाणि यानि स्युर्योजनानि तैः ॥ १२.६०॥
सूर्यसिद्धान्तः/Chapter 12
अयनान्ते विलोमेन देवासुरविभागयोः ।
नाडीषष्ट्या सकृदहर्निशाप्यस्मिन् सकृत् तथा ॥ १२.६१॥
सूर्यसिद्धान्तः/Chapter 12
तदन्तरेऽपि षष्ट्यन्ते क्षयवृद्धी अहर्निशोः ।
परतो विपरीतोऽयं भगोलः परिवर्तते ॥ १२.६२॥
सूर्यसिद्धान्तः/Chapter 12
ऊने भूवृत्तपादे तु द्विज्यापक्रमयोजनैः ।
धनुर्मृगस्थः सविता देवभागे न दृश्यते ॥ १२.६३॥
सूर्यसिद्धान्तः/Chapter 12
तथा चासुरभागे तु मिथुने कर्कटे स्थितः ।
नष्टच्छाया महीवृत्तपादे दर्शनमादिशेत् ॥ १२.६४॥
सूर्यसिद्धान्तः/Chapter 12
एकज्यापक्रमानीतैर्योजनैः परिवर्जिते ।
भूमिकक्षाचतुर्थांशे व्यक्षाच्छेषैस्तु योजनैः ॥ १२.६५॥
सूर्यसिद्धान्तः/Chapter 12
धनुर्मृगालिकुम्भेषु संस्थितोऽर्को न दृश्यते ।
देवभागेऽसुराणां तु वृषाद्ये भचतुष्टये ॥ १२.६६॥
सूर्यसिद्धान्तः/Chapter 12
मेरौ मेषादिचक्रार्धे देवाः पश्यन्ति भास्करम् ।
सकृदेवोदितं तद्वदसुराश्च तुलादिगम् ॥ १२.६७॥
सूर्यसिद्धान्तः/Chapter 12
भूमण्डलात् पञ्चदशे भागे देवेऽथ वासुरे ।
उपरिष्टाद्वजत्यर्कः सौम्ययाम्यायनान्तगः ॥ १२.६८ ॥
सूर्यसिद्धान्तः/Chapter 12
तदन्तरालयोच्छाया याम्योदक्सम्भवत्यपि ।
मेरोरभिमुखं याति परतः स्वविभागयोः ॥ १२.६९ ॥
सूर्यसिद्धान्तः/Chapter 12
भद्राश्वोपरिगः कुर्याद्भारते तूदयं रविः ।
रात्र्यर्धं केतुमाले तु कुरावस्तमयं तदा ॥ १२.७०॥
सूर्यसिद्धान्तः/Chapter 12
भारतादिषु वर्षेषु तद्वदेव परिभ्रमन् ।
मध्योदयार्धरात्र्यस्तकालान् कुर्यात् प्रदक्षिणम् ॥ १२.७१॥
सूर्यसिद्धान्तः/Chapter 12
ध्रुवोन्नतिर्भचक्रस्य नतिर्मेरुं प्रयास्यतः ।
निरक्षाभिमुखं यातुर्विपरीते नतोन्नते ॥ १२.७२॥
सूर्यसिद्धान्तः/Chapter 12
भचक्रं ध्रुवयोर्बद्धमाक्षिप्तं प्रवहानिलैः ।
पर्येत्यजस्रं तन्नद्धा ग्रहकक्षा यथाक्रमम् ॥ १२.७३॥
सूर्यसिद्धान्तः/Chapter 12
सकृदुद्गतमब्दार्धं पश्यन्त्यर्क सुरासुराः ।
पितरः शशिगाः पक्षं स्वदिनं च नरा भुवि ॥ १२.७४॥
सूर्यसिद्धान्तः/Chapter 12
उपरिष्टस्य महती कक्षाल्पाधःस्थितस्य च ।
महत्या कक्षया भागा महान्तोऽल्पास्तथाल्पया ॥ १२.७५॥
सूर्यसिद्धान्तः/Chapter 12
कालेनाल्पेन भगणं भुङ्क्तेऽल्पभ्रमणाश्रितः ।
ग्रहः कालेन महता मण्डले महति भ्रमन् ॥ १२.७६ ॥
सूर्यसिद्धान्तः/Chapter 12
स्वल्पयातो बहून् भुङ्क्ते भगणान् शीतदीधितिः ।
महत्या कक्षया गच्छन् ततः स्वल्पं शनैश्चरः ॥ १२.७७॥
सूर्यसिद्धान्तः/Chapter 12
मन्दादधः क्रमेण स्युश्चतुर्था दिवसाधिपाः ।
वर्षाधिपतयस्तद्वत् तृतीयाश्च प्रकीर्तिताः ॥ १२.७८॥
सूर्यसिद्धान्तः/Chapter 12
ऊर्ध्वक्रमेण शशिनो मासानामधिपाः स्मृताः ।
होरेशाः सूर्यतनयादधोयअधः क्रमशस्तथा ॥ १२.७९ ॥
सूर्यसिद्धान्तः/Chapter 12
भवेद्भकक्षा तीक्ष्णांशोर्भ्रमणं षष्टिताडितम् ।
सर्वोपरिष्टाद्भ्रमति योजनैस्तैर्भमण्डलम् ॥ १२.८०॥
सूर्यसिद्धान्तः/Chapter 12
कल्पोक्तचन्द्रभगणा गुणिताः शशिकक्षया ।
आकाशकक्षा सा ज्ञेया करव्याप्तिस्तथा रवेः ॥ १२.८१॥