सूर्यसिद्धान्तः/Chapter 13
सैव यत्कल्पभगणैर्भक्ता तद्भ्रमणं भवेत् ।
कुवासरैविभज्याह्नः सर्वेषां प्राग्गतिः स्मृता ॥ १२.८२॥
सूर्यसिद्धान्तः/Chapter 13
भुक्तियोजनजा सङ्ख्या सेन्दोर्भमणसङ्गुणा ।
स्वकक्षाप्ता तु सा तस्य तिथ्याप्ता गतिलिप्तिका ॥ १२.८३॥
सूर्यसिद्धान्तः/Chapter 13
कक्षा भूकर्णगुणिता महीमण्डलभाजिता ।
तत्कर्णा भूमिकर्णोना ग्रहोच्च्यं स्वं दलीकृताः ॥ १२.८४॥
सूर्यसिद्धान्तः/Chapter 13
खत्रयाब्धिद्विदहनाः कक्षा तु हिमदीधितेः ।
ज्ञशीघ्रस्याङ्कखद्वित्रित्तकृतशून्येन्दवस्तथा ॥ १२.८५ ॥
सूर्यसिद्धान्तः/Chapter 13
शुक्रशीघ्रस्य सप्ताग्निरसाब्धिरसषड्यमाः ।
ततोऽर्कबुधशुक्राणां खखार्थैकसुरार्णवाः ॥ १२.८६ ॥
सूर्यसिद्धान्तः/Chapter 13
कुजस्याप्यङ्कशून्याङ्कषड्वेदेकभुजङ्गमाः ।
चन्द्रोऽस्य कृताष्टाब्धिवसुद्धित्र्यष्टवह्नयः ॥ १२.८७॥
सूर्यसिद्धान्तः/Chapter 13
कृतर्तुमुनिपञ्चाद्रिगुणेन्दुविषया गुरोः ।
स्वर्भानोर्वेदतर्काष्टद्विशैलार्थखकुञ्जराः ॥ १२.८८ ॥
सूर्यसिद्धान्तः/Chapter 13
पञ्चवाणाक्षिनागर्तुरसाद्रयर्काः शनेस्ततः ।
भानां रविखशून्याङ्कुवसुरन्ध्रशराश्विनः ॥ १२.८९ ॥
सूर्यसिद्धान्तः/Chapter 13
खव्योमखत्रयखसाग्रषड्नागव्योमाष्टशून्ययमरूपनगाष्टचन्द्राः ।
ब्रह्माण्डसम्पुटपरिभ्रमणं समन्तादभ्यन्तरे दिनकरस्य करप्रसारः ॥ १२.९० ॥
सूर्यसिद्धान्तः/Chapter 13
अथ गुप्ते शुचौ देशे स्नातः शुचिरलङ्कृतः ।
सम्पूज्य भास्करं भक्त्या ग्रहान् भान्यथ गुह्यकान् ॥ १३.०१॥
सूर्यसिद्धान्तः/Chapter 13
पारम्पर्योपदेशेन यथाज्ञानं गुरोर्मुखात् ।
आचार्यः शिष्यबोधार्थं सर्वं प्रत्यक्षदर्शिवान् ॥ १३.०२॥
सूर्यसिद्धान्तः/Chapter 13
भूगोलस्य रचनां कुर्यादाश्चर्यकारिणीम् ।
अभीष्टं पृथिवीगोलं कारयित्वा तु दारवम् ॥ १३.०३ ॥
सूर्यसिद्धान्तः/Chapter 13
दण्डं तन्मध्यगं मेरोरुभयत्र विनिर्गतम् ।
आधारकक्षाद्वितयं कक्षा वैषुवती तथा ॥ १३.०४ ॥
सूर्यसिद्धान्तः/Chapter 13
भगणांशाङ्गलैः कार्या दलितैस्तिस्र एव ताः ।
स्वाहोरात्रार्धकर्णश्च तत्प्रमाणानुमानतः ॥ १३.०५ ॥
सूर्यसिद्धान्तः/Chapter 13
क्रान्तिविक्षेपभागैश्च दलितैर्दक्षिणोत्तरैः ।
स्वैः स्वैरपक्रमैस्तिस्रो मेषादीनामपक्रमात् ॥ १३.०६ ॥
सूर्यसिद्धान्तः/Chapter 13
कक्षाः प्रकल्पयेत् ताश्च कक्यादीनां विपर्ययात् ।
तद्वत् तिस्रस्तुलादीनां मृगादीनां विलोमतः ॥ १३.०७ ॥
सूर्यसिद्धान्तः/Chapter 13
याम्यगोलाश्रिताः कार्याः कक्षाधाराद्द्वयोरपि ।
याम्योदग्गोलसंस्थानां भानामभिजितस्तथा ॥ १३.०८ ॥
सूर्यसिद्धान्तः/Chapter 13
सप्तर्षीणामगस्त्यस्य ब्रह्मादीनां च कल्पयेत् ।
मध्ये वैषुवती कक्षा सर्वेषामेव संस्थिता ॥ १३.०९ ॥
सूर्यसिद्धान्तः/Chapter 13
तदाधारयुतेरूध्वमयने विषुवद्वयम् ।
विषुवत्स्थानतो भागैः स्फुटैर्भगणसञ्चरात् ॥ १३.१०॥
सूर्यसिद्धान्तः/Chapter 13
क्षेत्राण्येवमजादीनां तिर्यग्ज्याभिः प्रकल्पयेत् ।
अयनादयनं चैव कक्षा तिर्यक्तथापरा ॥ १३.११ ॥
सूर्यसिद्धान्तः/Chapter 13
क्रान्तिसंज्ञा तया सूर्यः सदा पर्येति भासयन् ।
चन्द्राद्याश्च स्वकैः पातैरपमण्डलमाश्रितैः ॥ १३.१२ ॥
सूर्यसिद्धान्तः/Chapter 13
ततोऽपकृष्टा दृश्यन्ते विक्षेपान्तेष्वपक्रमात् ।
उदयक्षितिजे लग्नमस्तं गच्छच्च तद्वशात् ॥ १३.१३॥
सूर्यसिद्धान्तः/Chapter 13
लङ्कोदयैर्यथासिद्धं खमध्योपरि मध्यमम् ।
मध्यक्षितिजयोर्मध्ये या ज्या सान्त्याभिधीयते ॥ १३.१४ ॥
सूर्यसिद्धान्तः/Chapter 13
ज्ञेया चरदलज्या च विषुवत् क्षितिजान्तरम् ।
कृत्वोपरि स्वकं स्थानं मध्ये क्षितिजमण्डलम् ॥ १३.१५ ॥
सूर्यसिद्धान्तः/Chapter 13
वस्त्रच्छन्नं बहिस्चापि लोकालोकेन वेष्टितम् ।
अमृतस्रावयोगेन कालभ्रमणसाधनम् ॥ १३.१६ ॥