सूर्यसिद्धान्तः-Chapter 14

Site Homepage Book Frontmatter Book Resources

ज्योतिषोपनिषद् (continued) & मान

सूर्यसिद्धान्तः/Chapter 14

तुङ्गबीजसमायुक्तं गोलयन्त्रं प्रसाधयेत् ।
गोप्यमेतत् प्रकाशोक्तं सर्वगम्यं भवेदिह ॥ १३.१७ ॥

सूर्यसिद्धान्तः/Chapter 14

तस्माद्गुरूपदेशेन रचयेङ्गोलमुत्तमम् ।
युगे युगे समुच्छिन्ना रचनेयं विवस्वतः ॥ १३.१८ ॥

सूर्यसिद्धान्तः/Chapter 14

प्रसादात् कस्यचिद्भूयः प्रादुर्भवति कामतः ।
कालसंसाधनार्थाय तथा यन्त्राणि साधयेत् ॥ १३.१९ ॥

सूर्यसिद्धान्तः/Chapter 14

एकाकी योजयेद्वीजं यन्त्रे विस्मयकारिणि ।
शङ्कुयष्टिधनुश्चक्रैश्छायायन्त्रैरनेकधा ॥ १३.२०॥

सूर्यसिद्धान्तः/Chapter 14

गुरूपदेशाद्विज्ञेयं कालज्ञानमतन्द्रितैः ।
तोययन्त्रकपालाद्यैर्मयूरनरवानरैः ॥ १३.२१॥

सूर्यसिद्धान्तः/Chapter 14

१३.२१चः ससूत्ररेणुगर्भेश्च सम्यक्कालं प्रसाधयेत् ॥
पारदाराम्बुसूत्राणि शुल्वतैलजलानि च ।
बीजानि पांसवस्तेषु प्रयोगास्तेऽपि दुर्लभाः ॥ १३.२२॥

सूर्यसिद्धान्तः/Chapter 14

तांरपात्रमधश्छिद्रं न्यस्तं कुण्डेऽमलाम्भसि ।
षष्टिर्मज्जत्यहोरात्रे स्फुटं यन्त्रं कपालकम् ॥ १३.२३॥

सूर्यसिद्धान्तः/Chapter 14

नरयन्त्रं तथा साधु दिवा च विमले रवौ ।
छायासंसाधनैः प्रोक्तं कालसाधनमुत्तमम् ॥ १३.२४॥

सूर्यसिद्धान्तः/Chapter 14

ग्रहनक्षत्रचरितं ज्ञात्वा गोलं च तत्त्वतः ।
ग्रहलोकमवाप्नोति पर्यायेणात्मवान् नरः ॥ १३.२५ ॥

सूर्यसिद्धान्तः/Chapter 14

ब्राह्मं दिव्यं तथा पित्र्यं प्राजापत्यं गुरोस्तथा ।
सौरं च सावनं चान्द्रमार्क्ष मानानि वै नव ॥ १४.०१॥

सूर्यसिद्धान्तः/Chapter 14

चतुर्भिर्व्यवहारोऽत्र सौरचान्द्राक्षसावनैः ।
बार्हस्पत्येन षष्ट्यब्दं ज्ञेयं नान्यैस्तु नित्यशः ॥ १४.०२॥

सूर्यसिद्धान्तः/Chapter 14

सौरेण द्युनिशोर्मानं षडशीतिमुखानि च ।
अयनं विषुवच्चैव सङ्क्रान्तेः पुण्यकालता ॥ १४.०३॥

सूर्यसिद्धान्तः/Chapter 14

तुलादि षडशीत्यह्नां षडशीतिमुखं क्रमात् ।
तच्चतुष्टयमेव स्याद्विस्वभावेषु राशिषु ॥ १४.०४॥

सूर्यसिद्धान्तः/Chapter 14

षड्वंशे धनुषो भागे द्वाविंशे निमिषस्य च ।
मिथुनाष्टादश भाग कन्यायास्तु चतुदेश ॥ १४.०५॥

सूर्यसिद्धान्तः/Chapter 14

ततः शेषाणि कन्याया यान्यहानि तु षोडश ।
क्रतुभिस्तानि तुल्यानि पितॄणां दत्तमक्षयम् ॥ १४.०६॥

सूर्यसिद्धान्तः/Chapter 14

भचक्रनाभौ विषुवद्द्वितयं समसूत्रगम् ।
अयनद्वितयं चैव चतस्रः प्रथितास्तु ताः ॥ १४.०७॥

सूर्यसिद्धान्तः/Chapter 14

तदन्तरेषु सङ्क्रान्तिद्वितयं द्वितयं पुनः ।
नैरन्तर्यात् तु सङ्क्रान्तेर्ज्ञेयं विष्णुपदीद्वयम् ॥ १४.०८ ॥

सूर्यसिद्धान्तः/Chapter 14

भानोर्मकरसङ्क्रान्तेः षण्मासा उत्तरायणम् ।
कर्क्यादेस्तु तथैव स्यात् षण्मासा दक्षिणायनम् ॥ १४.०९ ॥

सूर्यसिद्धान्तः/Chapter 14

द्विराशिनाथ ऋतवस्ततोऽपि शिशिरादयः ।
मेषादयो द्वादशैते मासास्तैरेव वत्सरः ॥ १४.१०॥

सूर्यसिद्धान्तः/Chapter 14

अर्कमानकलाः षष्ट्या गुणिता भुक्तिभाजिताः ।
तदर्धनाड्यः सङ्क्रान्तेरवाक्पुण्यं तथा परे ॥ १४.११॥

सूर्यसिद्धान्तः/Chapter 14

अर्काद्विनिसृतः प्राचीं यद्यात्यहरहः शशी ।
तच्चान्द्रमानमंशैस्तु ज्ञेया द्वादशभिस्तिथिः ॥ १४.१२॥

सूर्यसिद्धान्तः/Chapter 14

तिथिः करणमुद्वाहः क्षौरं सर्वक्रियास्तथा ।
व्रतोपवासयात्राणां क्रिया चान्द्रेण गृह्यते ॥ १४.१३॥

सूर्यसिद्धान्तः/Chapter 14

त्रिंशता तिथिभिर्मासश्चान्द्रः पित्र्यमहः स्मृतम् ।
निशा च मासपक्षान्तौ तयोर्मध्ये विभागतः ॥ १४.१४॥

सूर्यसिद्धान्तः/Chapter 14

भचक्रभ्रमणं नित्यं नाक्षत्रं दिनमुच्यते ।
नक्षत्रनाम्ना मासास्तु ज्ञेयाः पर्वान्तयोगतः ॥ १४.१५॥

सूर्यसिद्धान्तः/Chapter 14

कार्तिक्यादिषु संयोगे कृत्तिकादि द्वयं द्वयम् ।
अन्त्योपान्त्यौ पञ्चमश्च त्रिधा मासत्रयं स्मृतम् ॥ १४.१६॥

सूर्यसिद्धान्तः/Chapter 14

वैशाखादिषु कृष्णे च योगः पञ्चदशे तिथौ ।
कार्त्तिकादीनि वर्षाणि गुरोरस्तोदयात् तथा ॥ १४.१७॥

सूर्यसिद्धान्तः/Chapter 14

उदयादुदयं भानोः सावनं तत् प्रकीर्तितम् ।
सावनानि स्युएतेन यज्ञकालविधिस्तु तैः ॥ १४.१८॥