Vedāṅgajyotiṣam/Chapter 01
पञ्चसंवत्सरमयं युगाध्यक्षं प्रजापतिम् ।
दिनत्वयनमासाङ्गं प्रणम्य शिरसा शुचिः ॥१॥
Test
Test
Vedāṅgajyotiṣam/Chapter 01
प्रणम्य शिरसा कालसभिवाद्य सरस्वतीम् ।
कालज्ञानं प्रवक्ष्यामि लगधस्य महात्मनः ॥२॥
Vedāṅgajyotiṣam/Chapter 01
ज्योतिषामयनं कृत्स्नं प्रवक्ष्याम्यनुपूर्वशः ।
विप्राणां सम्मतं लोके यज्ञकालार्थसिद्धये ॥३॥
Vedāṅgajyotiṣam/Chapter 01
निरेकं द्वादशार्धब्दं द्विगुणं गतसंज्ञिकम् ।
षष्ट्या षष्ट्या युतं द्वाभ्यां पर्वणां राशिरुच्यते ॥४॥
Vedāṅgajyotiṣam/Chapter 01
स्वराक्रमेते सोमाकौ यदा साकं सवासवौ ।
स्यात् तदादि युगं माघस्तपः शुक्लो(ऽयनं ह्यदक्) ॥५॥
Vedāṅgajyotiṣam/Chapter 01
प्रपद्येते श्रविष्ठादौ सूर्याचन्द्रमसावुदक् ।
सार्षार्धे दक्षिणार्कस्तु माघश्रावणयोः सदा ॥६॥
Vedāṅgajyotiṣam/Chapter 01
धर्मवृद्धिरपां प्रस्थः क्षपाह्रास उदग्गतौ ।
दक्षिणे तौ विपर्यासः षण्मुहूर्त्ययनेन तु ॥७॥
Vedāṅgajyotiṣam/Chapter 01
(द्विगुणं) सप्तमं चाहुरयनाद्यं त्रयोद(शम्) ।
चतुर्थं दशमं(च) द्विर्युग्माद्यं बहुलेऽप्यूतौ ॥८॥
Vedāṅgajyotiṣam/Chapter 01
वसुस्त्वष्टा भवोऽजश्च मित्रः सर्पाश्विनौ जलम् ।
धाता कश्चायनाद्याश्चार्थपञ्च(म) भस्त्वृतुः ॥९॥
Vedāṅgajyotiṣam/Chapter 01
भांशाः स्युरष्टकाः कार्याः पक्षद्वादशकोद्गताः ।
एकादशगुण(श्चो) नः शुक्लेऽर्ध चैन्दवा यदि ॥१०॥
Vedāṅgajyotiṣam/Chapter 01
कार्या भांशाष्ट(क) स्थाने कला एकान्नविंशतिः ।
ऊनस्थाने(त्रि) सप्त(तिमु) द्वपेदूनसम्मिताः ॥११॥
Vedāṅgajyotiṣam/Chapter 01
(व्यंशो) भशेषो दिवसांशभाग-
श्चतुर्दश(श्चाप्यनीय) भिन्नम् ।
भार्धेऽधिके(चापि गते परोंऽशो)
द्वावुत्तमे नवकैरवेद्यम् ॥१२॥
Vedāṅgajyotiṣam/Chapter 01
पक्षात् पञ्चदशाच्चोर्ध्वं तद्भुक्तमिति निर्दिशेत् ।
नवभिस्तूद्गतोंऽशः स्यादूनांशद्वयधिकेन तु ॥१३॥
Vedāṅgajyotiṣam/Chapter 01
जौ द्रा घः खे श्वे ऽही रो षा
चिन् मू ष ण्यः(सू मा धा णः) ।
रे मू घाः स्वा ऽपोऽ जः कृ ष्यो
ह ज्ये ष्ठा इत्यूक्षा लिङ्गैः ॥१४॥
Vedāṅgajyotiṣam/Chapter 01
जावाद्यंशैः समं विद्यात् पूर्वार्धे पर्वसूत्तरे ।
भादानं स्यात्(चतुर्दश्य) काष्ठानां देविना कलाः ॥१५॥
Vedāṅgajyotiṣam/Chapter 01
कला दश(स) विशा स्यात्(द्वे) मुहूर्तस्य नाडिके ।
(द्यु)त्रिंशत् तत्कलानां तु षट्छती व्यधिकं भवेत् ॥१६॥
Vedāṅgajyotiṣam/Chapter 01
नाडिके द्वे मुहूर्तस्तु पञ्चाशत्पलमा(ढ) कम् ।
(आढ) कात् कुम्भको द्रोणः कुटपैर्वर्धते त्रिभिः ॥१७॥
Vedāṅgajyotiṣam/Chapter 01
(ससप्तकं) भयुक्(सोमः)(सूर्यो द्यूनि) त्रयोदश ।
नवमानि च पञ्चाह्नः काष्ठाः पञ्चाक्षराः स्मृताः ॥१८॥
Vedāṅgajyotiṣam/Chapter 01
श्रविष्ठायां(ग) णाभ्यस्तान् प्राग्विलग्नान् विनिर्दिशेत् ।
(स्त)र्यान् मासान् षळभ्यस्तान् विद्याच्चान्द्रमसान् ऋतून् ॥१९॥
Vedāṅgajyotiṣam/Chapter 01
अतीतपर्वभागे(भ्यः) शोधयेद् द्विगुणां तिथिम् ।
तेषु मण्डलभागेषु तिथिनिष्ठांगतो रविः ॥२०॥
Vedāṅgajyotiṣam/Chapter 01
याः पर्वभादानकलास्तासु सप्तगुणां तिथिम् ।
प्रक्षिपेत्(तत्) समूहस्तु विद्यादादानिकीः कलाः ॥२१॥
Vedāṅgajyotiṣam/Chapter 01
यदुत्तरस्यायनतो गतं स्या-
च्छेषं तु यद् दक्षिणतोऽयनस्य ।
तदे(क)षष्ट्या द्विगुणं विभक्तं
सद्वादशं स्याद् दिवसप्रमाणम् ॥२२॥
Vedāṅgajyotiṣam/Chapter 01
(य)दधं दिनभागानां सदा पर्वणि पर्वणि ।
ऋतुशेषं तु तद् विद्यात् संख्याय सहपर्वणाम् ॥२३॥
Vedāṅgajyotiṣam/Chapter 01
इत्युपायसमुद्देशो भूयोऽ(प्यह) प्रकल्पयेत् ।
ज्ञेयरा(शि)गताभ्य(स्तं) विभजेत् ज्ञानराशि(ना) ॥२४॥
Vedāṅgajyotiṣam/Chapter 01
अग्निः प्रजापतिः सोमो रुद्रोऽदितिर्बृहस्पतिः ।
सर्पाश्च पितरश्चैव भगश्चैवार्यमापि च ॥२५॥
Vedāṅgajyotiṣam/Chapter 01
सविता त्वष्टाथ वायुश्चेन्द्राग्नी मित्र एव च ।
इन्द्रो निर्ऋतिरापो वै विश्वेदेवास्तथैव च ॥२६॥
Vedāṅgajyotiṣam/Chapter 01
विष्णुर्वसवो वरुणोऽज एकपात् तथैव च ।
अहिर्बुध्यस्तथा पूषा अश्विनौ यम एव च ॥२७॥
Vedāṅgajyotiṣam/Chapter 01
नक्षत्रदेवता एता एताभिर्यज्ञकर्मणि ।
यजमानस्य शास्त्रज्ञैर्नाम नक्षत्रजं स्मृतम् ॥२८॥
Vedāṅgajyotiṣam/Chapter 01
इत्ये(वं) मासवर्षाणां मुहूर्तोदयपर्वणाम् ।
दिनत्वयनमासाङ्गं व्याख्या(नं) लगधोऽब्रवीत् ॥२९॥
Vedāṅgajyotiṣam/Chapter 01
सोमसूर्य(स्तु)चरि(तं) लो(कं) लोके च सम्मतिम् ।
सोमसूर्य(स्तू)चरि(तं) विद्वान् वेदविदश्नुते ॥३०॥
Vedāṅgajyotiṣam/Chapter 01
विषुवं तद्गुणं द्वाभ्यां रूपहीनं तु षड्गुणम् ।
यलब्धं तानि पर्वाणि त(थार्घ) सा तिथिर्भवेत् ॥३१॥
Vedāṅgajyotiṣam/Chapter 01
माघशुक्लप्रवृत्त(स्य) पौषकृष्णसमापिनः ।
युगस्य पञ्चवर्ष(स्य) कालज्ञानं प्रचक्षते ॥३२॥
Vedāṅgajyotiṣam/Chapter 01
तृतीयां नवमीं चैव पौर्णमासी(मथासिते) ।
षष्ठीं च विषुवान् प्रोक्तो द्वाद(शी) च समं भवेत् ॥३३॥
Vedāṅgajyotiṣam/Chapter 01
चतुर्दशीमुपवसथस्तथा भवेद् यथोदितो दिनमुपैति चन्द्रमाः ।
माघशुक्लाह्निको युङ्क्ते श्रविष्ठायां च वार्षिकीम् ॥३४॥
Vedāṅgajyotiṣam/Chapter 01
यथा शिखा मयूराणां नागानां मणयो यथा ।
तद्वद् वेदाङ्गशास्त्राणां ज्योतिषं मूर्धनि स्थितम् ॥३५॥
Vedāṅgajyotiṣam/Chapter 01
वेदा हि यज्ञार्थमभिप्रवृत्ताः
कालानुपूर्वा विहिताश्च यज्ञाः ।
तस्मादिदं कालविधानशास्त्रं
यो ज्योतिषं वेद स वेद यज्ञान् ॥३६॥